रामायणरहस्यं विद्यारण्यकृतम्
श्रीः ॥
गुणाढ्यत्वं कारणत्वं शरण्यत्वं प्रकाशता ।
प्रकाशित्वं च निखिलैर्ध्येयता च नियन्तृता ॥ १॥
एते ब्रह्मगुणा नित्या गायत्रीपदबोधिताः ।
प्रथमेन गुणाढ्यत्वं द्वितीयेन च लक्षणम् ॥ २॥
तृतीयेन शरण्यत्वं चतुर्थेन प्रकाशता ।
पञ्चमेन पदेनैव प्रकाशित्वं प्रबोध्यते ॥ ३॥
षष्ठेन ध्येयताऽथान्त्यैश्चतुर्भिश्च नियन्तृता ।
श्रीसङ्क्षेपेऽपि दृश्यन्ते मन्त्रवाच्या इमे गुणाः ॥ ४॥
को न्वस्मिन् साम्प्रतं लोक इत्यारभ्य विशेषतः ।
उक्ता गुणाढ्यता विष्णोः श्लोकैरष्टादशैः स्फुटम् ॥ ५॥
गुणप्रकरणेऽत्रैवाप्युक्ताः कारणतादयः ।
प्रजापतिसमः श्रीमान् धातेति स्रष्टृतेरिता ॥ ६॥
संहर्तृता चात्र रिपुनिषूदन इतीरिता ।
रक्षिता जीवलोकस्येत्यादिना स्थितिकर्तृता ॥ ७॥
इत्थं कारणताऽनेन श्लोकेन प्रतिपादिता ।
सर्वदाऽभिगतः सद्भिः समुद्र इव सिन्धुभिः ॥ ८॥
इत्यादिषु शरण्यत्वं शरण्यस्याभिधीयते ।
ज्ञानसम्पन्न इत्यत्र प्रकाशत्वं प्रदृश्यते ॥ ९॥
ज्ञानत्वेनैव सम्पन्न इति ज्ञानात्मतेरिता ।
नो चेत्सर्वज्ञशब्देन पुनरुक्तिर्भवेदिति ॥ १०॥
सर्वज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
इत्यत्र स्थितसर्वज्ञपदेनोक्ता प्रकाशिता ॥ ११॥
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।
इत्यत्र वश्यशब्देन भक्तवश्यत्ववाचिना ॥ १२॥
ध्येयत्वं च गुणो विष्णोरर्थतः प्रतिपादितः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ १३॥
इत्यत्र वशिशब्देन बोध्यते च नियन्तृता ।
वृत्तान्ते यौवराज्यादौ सूच्यन्ते त इमे गुणाः ॥ १४॥
सामान्येन गुणाढ्यत्वं सुस्पष्टं तत्र तत्र च ।
शबरीशरभङ्गादिवृत्तान्ते स्थितिकर्तृता ॥ १५॥
दशग्रीववधाद्ये तु वृत्तान्ते लयकर्तृता ।
इत्यादौ जन्मकर्तृत्वं समुत्थाप्य च वानरान् ॥ १६॥
विभीषणादिवृत्तान्ते शरण्यत्वं प्रकाशितम् ।
निग्रहानुग्रहत्वाभ्यामीशत्वं तस्य बोधितम् ॥ १७॥
इत्यत्रार्थाद्ध्येयता च पूजितः सर्वदैवतैः ।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ।
इत्यादिषु नियन्तृत्वमित्यर्थः साम्प्रदायिकः ॥ १८॥
अत्रेदं मानमुक्तार्थसम्प्रदायनियामकम् ।
प्रबन्धाद्यन्तयोर्दृष्टे गायत्र्याद्यन्तिमाक्षरे ॥ १९॥
उक्तार्थविषयाच्चान्यो विशेषः साम्प्रदायिकः ।
अस्ति गुह्यतमः सोऽपि विस्तरेण प्रकाश्यते ॥ २०॥
प्रणम्य माधवारण्यं तत्प्राप्तादुपदेशतः ।
व्याकरोम्यत्र गायत्रीमन्त्रवर्णान्पृथक् पृथक् ॥ २१॥
आदिवर्णो हरेर्वक्ति सत्यज्ञानादिकान् गुणान् ।
तद्गुणे प्रकृतार्थोक्तौ ब्रह्महेत्वोरिति स्मृतेः ॥ २२॥
सश्च सत्यप्रतिज्ञत्वं वक्ति सः पुंस्युमासुते ।
वायौ ज्ञाने बुधे सत्यप्रतिज्ञायामिति स्मृतेः ॥ २३॥
पराभिभूतिसामर्थ्यं विकारेण विबोध्यते ।
विश्चक्षुषि व्योम्नि वाते परमात्मनि पक्षिणि ॥ २४॥
वैश्ये विजयसामर्थ्ये विशेषेऽर्क इति स्मृतेः ।
तुकारेणोच्यते विष्णोश्चक्राद्यायुधसङ्ग्रहः ॥ २५॥
तुरायुधे तदादाने चोरे कान्ताविति स्मृतेः ।
वक्ति पूर्ववकारोऽयं हरेरभयदायिताम् ॥ २६॥
वो भौनिवारणे पूज्ये सान्त्वे काम इति स्मृतेः ।
रेकारस्तु भगवतो वक्ति भक्तनिषेव्यताम् ॥ २७॥
रेशब्दः पावके कामे भक्तसेव्य इति स्मृतेः ।
णिकारो ब्रह्मणो वक्ति दीनानाथशरण्यताम् ॥ २८॥
णः शरण्यकृपाशूरभीतिपद्येष्विति स्मृतेः ।
यकारः पूर्वपादान्तो मित्रविश्वासवाचकः ॥ २९॥
यस्त्यागे निलये कामे दातरीशे च धातरि ।
भीत्यभावे यमे मित्रे विश्वासेऽग्नाविति स्मृतेः ॥ ३०॥
बलाविष्करणं विष्णोर्भकारेण प्रकाश्यते ।
भः शम्भौ भ्रमणे भावे सत्वव्यक्ताविति स्मृतेः ॥ ३१॥
आश्रितानन्दकारित्वं गकारेणाभिधीयते ।
गश्च हर्षप्रदे गीते गन्धर्वोक्ताविति स्मृतेः ॥ ३२॥
देकारेण वकारेण सर्वपूज्यत्वमुच्यते ।
देकारो दातरिच्छेदे पूज्ये दानकलत्रयोः ।
वो भीनिवारणे पूज्ये सान्त्वे काम इति स्मृतेः ॥ ३३॥
स्यशब्देनोच्यते विष्णोर्दीनदुःखापनोदनम् ।
स्या गुणे स्यं भवे स्यस्तु दुःखहानाविति स्मृतेः ॥ ३४॥
धीशब्दस्तु भगवतो धर्मस्थापनवाचकः ।
धीस्तु धर्मपदे धर्मे धृतिज्ञप्त्योरिति स्मृतेः ॥ ३५॥
आधिव्याधिहरत्वार्थे मश्च हिश्चाक्षरे उमे ।
मोऽग्नौ जीवे व्याधिनाशे धातरीन्दौ च मा श्रियाम् ॥ ३६॥
हिस्तु व्याधिपरीहारे वैद्ये हेताविति स्मृतेः ।
धीशब्दाच्छुभसद्वृत्त्योर्हेतुत्वमभिधीयते ॥ ३७॥
धीस्तु विद्यात्मकल्याणसदाचारेष्विति स्मृतेः ।
नानाभीत्यपहारित्वं यद्वयेनाभिधीयते ॥ ३८॥
यस्त्यागे निलये कामे दातरीशे च धातरि ।
भीत्यभावे यमे मित्रे विश्वासेऽग्नाविति स्मृतेः ॥ ३९॥
विष्णोरत्राखिलैश्वर्यप्रदत्वं वक्ति नः पदम् ।
अस्मदर्थे सर्वलोकश्रीदाने युधि नः पदम् ॥ ४०॥
ना पुमान् नौर्जलोत्तारे नेत्यभाव इति स्मृतेः ।
निःसीमाभ्यधिकस्थानप्राप्तिरुक्ता प्रशब्दतः ॥ ४१॥
प्रो जटायां प्रकृष्टार्थस्थानप्राप्ताविति स्मृतेः ।
सर्वलोकनियन्तृत्वं चोशब्देनाभिधीयते ॥ ४२॥
समुच्चये चेतिशब्दश्चोशब्दश्च नियन्तरि ।
चस्तुलुष्के स्वरे चोरे पुंश्चकोर इति स्मृतेः ॥ ४३॥
सर्वलोकाधिपत्यं हि विष्णोरुक्तं दशब्दतः ।
अ- विभूतिद्धितयैश्वर्यमुक्तं विष्णोर्दशब्दतः ।(पाठ भेदः)
दं कलत्रेषु दः सर्वलोकाधिप इति स्मृतेः ॥ ४४॥
समस्तफलदातृत्वं यादित्यन्तिममक्षरम् ।
यास्त्रियां पदपञ्जर्योर्यद्धेतौ यात् फलप्रदे ॥ ४५॥
यमित्यव्ययमोङ्कारे शोभालक्ष्म्योरिति स्मृतेः ।
एवमेते ब्रह्मगुणा गायत्रीवर्णबोधिताः ॥ ४६॥
प्रकाश्यन्ते रामकथासङ्ग्रहे नारदेरिते ।
तत्तद्गुणपरे ग्रन्थे ते ते वर्णाः समुद्धृताः ॥ ४७॥
तदित्यस्यैकदेशस्तु प्रबन्धादौ समुद्धृतः ।
तद्योयन्धीणिनश्चो च वर्णास्त्वत्रार्धमुद्धृताः ॥ ४८॥
केचिद्वर्णास्त्वेकदेशे रहस्ये चात्मभूद्धृताः ।
वान्तात् पूर्वो वर्ण इति नान्तो तः पदमित्यपि ॥ ४९॥
स जगाम वनं वीर इत्यत्रैव स उद्धृतः ।
विराधं राक्षसं हत्वेत्यत्र विश्च समुद्धृतः ॥ ५०॥
खड्ग च परमप्रीतस्तूणी चेत्यत्र तुः कृतः ।
वसतस्तस्य रामस्येत्यादिग्रन्थे व उद्धृतः ॥ ५१॥
सङ्गतो वानरेणेति स्थले रेकार उद्धृतः ।
हनुमद्वचनाच्चैव सुग्रीवेणेति तत्र णः ॥ ५२॥
सुग्रीवायेत्यत्र पदे यंवर्णस्यार्धमुद्धृतम् ।
उत्स्मीयत्वेत्यस्य पूर्वं भकारश्च समुद्धृतः ॥ ५३॥
ततोऽगर्जद्धरिवर इत्यत्रैव विभाति गः ।
अभिषिच्येत्युत्तरत्र वोऽस्ति देकारपूर्वकः ॥ ५४॥
भरतस्यान्तिकं राम इत्यत्र स्येति चाक्षरम् ।
एकदेशेन धीकारः सुधार्मिक इति स्थले ॥ ५५॥
निरामयो ह्यरोगश्चेत्यत्र मश्च हिकारयुक् ।
नार्यश्चाविधवेत्यत्र धीशब्दश्चैकदेशतः ॥ ५६॥
न चाग्निजं भयं किञ्चिदिति श्लोके तु यद्वयम् ।
नगराणि च राष्ट्राणीत्यत्र नः पदमुद्धृतम् ॥ ५७॥
अश्वमेधशतैरिष्ट्वेत्यादिश्लोके प्र उद्धृतम् ।
चोवर्णस्त्वेकदेशेन चातुर्वर्ण्यमिति स्थले ॥ ५८॥
दशवर्षसहस्राणीत्यक्षरोपान्त उद्धृतः ।
समुद्धृतं प्रबन्धान्ते गायत्रीचरमाक्षरम् ॥ ५९॥
वाल्मीकिरत्र सिध्दार्थान् व्याचकार सुविस्तरम् ।
पूर्णं रामायणं श्लोकैश्चतुर्विंशत्सहस्रकैः ॥ ६०॥
श्लोकोऽयं तप इत्यादिस्तत्प्रबन्धस्य चादिमः ।
सुप्रतिष्ठित इत्यन्तं श्रीमद्रामायणं विदुः ॥ ६१॥
प्रतिश्लोकसहस्रादौ मन्त्रवर्णाः समुद्धृताः ।
चतुर्विंशत्सहस्राणामाद्यश्लोकाः पृथक् पृथक् ।
क्रमेण दर्शयिष्यन्ते गायत्र्यक्षरगर्भिताः ॥ ६२॥
(गायत्रीमन्त्र अक्षराणां(वर्णानां) श्रीमद् वाल्मीकिरामायणे प्रदर्शिताः)
श्रीमद् बालकाण्डे प्रथमसर्गादौ - १-१-१
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । (अत्र तकारः गायत्री प्रथमाक्षरम्- त)
नारदं परिपप्रच्छ वाल्मिकिर्मुनिपुङ्गवम् ॥
श्रीमद् बालकाण्डे त्रिंशे सर्गे -१-३०-१८(१९)
स तेन परमास्त्रेण मानवेन समाहतः । (अत्र सकार गायत्री द्वितीयक्षरं -स)
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥
श्रीमद् बालकाण्डे त्रिषष्टितमे सर्गे -१-६३-३ -४
विश्वामित्रो महातेजा भूयस्तेपे महातपाः । (अत्रतृतीयाक्षरं -वि)
ततः कालेन महता मेनका परमाप्सरः ॥
अयोध्या काण्डे चतुर्दशे सर्गे -२-१४-३६
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् । (अत्रचतुर्थाक्ष्रं - तु)
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ॥
अयोध्या काण्डे चतुश्चत्वारिंशे सर्गे- २-४४-५
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः । (अत्रगायत्र्या पञ्चमाक्षरं -व)
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥
अयोध्या काण्डे एकसप्ततितमे सर्गे -२-७१-३३
द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः । (अत्ररे इति षष्टाक्षरं - रे)
द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ ॥
अयोध्या काण्डे एकोनशततमे सर्गे -२-९९-२५
उटजे राममासीनं जटामण्डलधारिणम् । (अत्रप्रथमे पादे सप्तमाक्षरं - ण)
तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ॥
आरण्य काण्डे द्वादशे सर्गे ३ -१२-४
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । (अत्राष्टमाक्षरं - यं)
द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥
आरण्य काण्डे सप्तचत्वारिंशे सर्गे ३-४७-१०
मम भर्ता महातेजा वयसा पञ्चविंशकः । (अत्रनवमाक्षरं - भ)
अष्टादश हि वर्षाणि मम जन्म न गण्यते ॥
श्रीमत्किष्किन्धा काण्डे चतुर्थे सर्गे ४-४-३
ततः परमसंहृष्टो हनुमान् प्लवगर्षभः । (अत्र दशमाक्षरं -ग)
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥
श्रीमत्किष्किन्धा काण्डे एकत्रिंशे सर्गे ४-३१-१
सकामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । (अत्र गायत्र्या एकादशाक्षरं - दे)
नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥
श्रीमत्सुन्दरकाण्डे प्रथमसर्गादौ ५-१-१
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । (अत्रगायत्र्या द्वादशाक्षरं- व)
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥
श्रीमत्सुन्दरकाण्डे सप्तविंशे सर्गे त्रिजटास्वप्ने ५-२७-१३
ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः । (अत्रगायत्र्या त्रयोदशाक्षरं - स्य)
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥
श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशे सर्गे ५-४६-१०
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः । (अत्रगायत्र्या चतुर्दशाक्षरं - धी)
दृष्टा हि हरयः सर्वे मया विपुलविक्रमाः ॥
श्रीमद्युद्धकाण्डे प्रथमसर्गादौ ६-१-१
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । (अत्रगायत्र्या पञ्चदशाक्षरं -म)
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥
श्रीमद्युद्धकाण्डे अष्टाविंशेसर्गे ६-२८-२६ -२७ रावणं प्रति शुकः
रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः । (अत्रगायत्र्या षोडशाक्षरं - हि)
श्रीमता राजराजेन लङ्कायामभिषेचितः ॥
श्रीमद्युध्दकाण्डे पञ्चाशेसर्गे नागपाशविमोचनसमये ६-५०-४०
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः । (अत्रगायत्र्याःसप्तदशाक्षरं -धी (धि))
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥
श्रीमद्युध्दकाण्डे अष्टषष्टितमेसर्गे ६-६८-१
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । (अत्रगायत्र्याःअष्टादशाक्षरं -य (यो))
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥
श्रीमद्युध्दकाण्डे एकाशीतितमेसर्गे ६-८१-१
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । (अत्रगायत्र्याः एकोनविंशतितमाक्षरं- य)
सन्निवृत्याहवात्तस्मात्प्रविवेश पुरीं तदा (ततः) ॥
श्रीमद् युध्दकाण्डे द्वादशशततमेसर्गे ६-११२-२५ (गीताप्रेस् ६-१११-१००)
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । (अत्रगायत्र्याः विंशतितमाक्षरं -नः)
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥
उत्तरश्रीरामायणे प्रथमसर्गादौ ७-१-१
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । (अत्रगायत्र्याःएकविंशाक्षरं - प्र)
आजग्मू ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥
उत्तरश्रीरामयणे द्वाविंशेसर्गे ७-२२-७(८)
ततःप्राचोदयत्सूतस्तान्हयान्नुधिरप्रभान् । (अत्र गायत्र्याः द्वाविंशाक्षरं- चो)
प्रययौ भीमसन्नादो यत्र रक्षपतिः स्थितः ॥
उत्तरश्रीरामायणे एकचत्वारिंशादौ ७-४१-१
विसृज्य च महाबाहुः ऋक्षवानरराक्षसान् । (अत्रगायत्र्याः त्रयोविंशाक्षरं -द)
भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥
उत्तरश्रीरामायणे षट्सप्ततित,एसर्गे ७-७६-२७ -२८
ब्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः । (अत्रगायत्र्याःचतुर्विंशाक्षरं -या)
उष्यतां चैव रजनीं सकाशे मम राघव ॥
(श्रीगोविन्दराज भाष्ये त्रयोविंशाक्षरम्)
प्रबन्धान्तश्लोकः
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥
चतुर्विंशत्सहस्राणामाद्याः श्लोका इमे क्रमात् ।
एषु श्लोकेषु दृश्यन्ते मन्त्रवर्णा यथाक्रमम् ॥
दृश्यते च प्रबन्धान्ते मन्त्रान्तव्यञ्जनाक्षरम् ।
तस्मादिदं त्वादिकाव्यं गायत्रीं महतीं विदुः ॥
इत्येतदादिकाव्यार्थरहस्यं साम्प्रदायिकम् ।
१ विद्यारण्यमुनीन्द्रेण दर्शितं विदुषां मुदे ॥ २
॥ इति परमहंसपरिव्राजकपरिवृढेन माधवारण्यमुनिवरदयालब्धबोधेन
श्रीविद्यारण्यमुनीश्वरेण प्रकाशितं
श्रीमद्रामायणरहस्यं सम्पूर्णम् ॥
[१ क । -विद्यारण्यमुन्निर्ब्रह्मविदा प्राकाशयन्मुदा ॥ पाठान्तरम्
२ ख॥ -गायत्र्याः श्रुतिमातुरर्थमखिलं प्रत्यक्षरं व्याकरो-
देकैकस्य सहस्रमारचितवाङ्ग्रन्थाश्च रामायणे ।
प्रालोड्याखिलवेदसारमसकृद्यत्तारकं ब्रह्म तद्
रामो विष्णुरहस्यमूर्तिरिति यो विज्ञाय वल्मीकभूः ॥ (अधिकः पाठः )
॥ श्रीगणेशाय नमः ॥
॥ श्रीरामजयम् ॥
Srimad Valmiki Ramayanam (श्रीमद् वाल्मीकीरामायणं)
has 24000 verses(श्लोकाः).In his commentary
Sri Maheshwarathirtha says as ``अथ
चतुर्विंशत्यक्षरगायत्र्याख्यपरब्रह्मविद्याविलासभूतं
रामायणं चतुर्विंशतिसहस्रैः
श्लोकैश्चकार । तदिदं व्याक्रियते तपः
स्वाध्यायेत्यादिः गायत्रीवर्णसहितश्लोकसङ्केतः
चतुर्विंशतिसङ्ख्याका गायत्रीवर्णसंयुताः ।
ये श्लोकाः सन्ति तानत्र विलिखामि यथाक्रमम् ॥
श्लोके च प्रतिसाहस्रं प्रथमे प्रथमे क्रमात् ।
गायत्र्याक्षरमेकैकं स्थापयामास वै मुनिः ॥
गायत्र्यास्त्रीणि चत्वारि द्वे द्वे त्रीण्यथ षट् क्रमात् ॥
चत्वारि सप्तकाण्डेषु स्थापितान्यक्षराणि तु ॥''
The Gayatri Mantra itself is an essence of vedas and the
24 letters are the starting of every thousand shlokas of
Srimad Valmiki Ramayanam and this is well known. Equally
popular is Gayatri Ramayanam which lists 24 shlokas from
Valmiki Ramayanam.Sri Govindaraja Swami in his commentary
mentions 23 verses which are different from those mentioned
in Gayatri Ramayanam (probably this is based on the version
of ramayanam in southern version(s).
In the journal of Sri ShankaraGurukulam, Srirangam, had
published a work by name ``Ramayanarahasya'' of one
Vidyaranya, disciple of Madhavaranya in 1941. This Sri
Vidyaranya is different from the famous Sri Vidyaranya
who was the pontiff of Sri Sringeri Pitha ( who composed
Panchadashi and other vedanta literature).
The Ramayanarahasya has 90 shlokas in total. Sri Vidyaranya
explains as follows:
1) In verses 1 to 18 the qualities implied by the syllables
of Gayatri mantra. In verses 1 to 4, the brahma gunas
(ब्रह्म गुणाः) of the words of the gayatri mantra
(गायत्रीपदबोधिताः).They are १)गुणाढ्यत्वं
२)कारणत्वं ३)शरण्यत्वं ४)प्रकाशता ५)प्रकाशित्वं
६) ध्येयता and in last 4 letters नियन्तृता
. These qualities are described in the verses of 1st
sarga of Balakanda, known as संक्षेपरामायणं
or, बालरामायणं or, मूलरामायणं or
नारदवाक्यं.These qualities of gayatri are brought
out in verses 1 to 18 of 1st sarga of Balakanda and in
verses 1 to 18 of Ramayanarahasya.
2) १)गुणाढ्यत्वं - is explained with reference
to संक्षेपरामायणं. The verses 2 to 18
of 1st sarga explain in detail the quality of)
गुणाढ्यत्वं.Similarly the other qualities are
explained in verses 12,15 etc.
3) In verses 19 to 48, the qualities implied by each of
the 24 letters of Gayatri Mantraare explained in the 1st
sarga of Balakanda .As a ready reference they are listed
below
गायत्रीमन्त्राक्षरं गुणं
त(तत्) सत्यज्ञानादि (सत्यं ज्ञानं अनन्तं-स्वरूपलक्षणं )
स सत्यप्रतिज्ञत्वं
वि पराभिभूतिसामर्थ्यं
तु श्रीविष्णोः चक्राद्यायुधसंग्रहः
व श्रीभगवत अभयदायिता
रे श्रीभगवतः भक्तनिषेव्यता (भक्तसेव्यता)
ण ब्रह्मणः दीनानाथशरण्यता
य श्रीभगवतः मित्रविश्वासः
भ श्रीभगवतः बलाविष्करणम्
ग आश्रितानन्दकारित्वं
दे सर्वपूज्यत्वम्
व सर्वपूज्यत्वम्
स्य भगवतः दीनदुः खापनोदनम्
धी भगवतः धर्मस्थापनम्
म भगवतः आधिव्याधिहरत्वम्
हि भगवतः आधिव्याधिहरत्वम्
धि शुभसद्वृत्त्योः हेतुत्वं
य नानाभीत्यपहारित्वम्
य नानाभीत्यपहारित्वम्
नः भगवतः अखिलैश्वर्यप्रत्वम्
प्र निःसीमाभ्यधिकस्थानप्राप्तिः
चो सर्वलोकनियन्तृत्वम्
द सर्वलोकाधिपत्यम् (विभूतिद्धित्यैश्वर्यम्)
य समस्तफलदातृत्वम्
एते ब्रह्मगुणाः - These qualities are explained with
स्मृति प्रमाणम् by SRI VIDYARANYA
In verses 48 to 62 ,the occurrence of all these 24 letters
of Gayatri Mantra in संक्षेपरामयणम् is explained.
The letter sa is in verse in the first half of verse
23 स जगाम वनं वीरः प्रतिज्ञामानुपालयन् ।.
Similarly the presence of other letters in other verses
from 2 to 100 of first sarga are explained.
Afterwards, the 24 verses from all the सप्तकाण्डानि
(from all the 7 Cantos) ,where the letters occur
sequentially are mentioned. They are in agreement with
the shlokas given in श्रीमद्गोविन्दराजीयव्याख्या -
श्रीरामायणभूषणं. These 24 verses are different
from those in Gayatri Ramayanam, which is popular.
In gayatri Ramayanam, the letters occur in the beginning
of each verse,whereas in Ramayanarahasya the letters
occur in the body of the verse, and not necessarily
in the beginning of the verse. These 24 verses also
are called as or quoted as गायत्रीरामायणं.
This is another version of GAYATRI RAMAYANAM
गायत्रीरामायणं. Valimki Ramayanam is uttama kAvya
,which is called as सुहृद् संहिता, कान्ता संहिता,
इतिहासं, आदिकाव्यं. In Ramayana, there are hidden
meanings(व्यङ्ग्यार्थ) - पदव्यङ्ग्यार्थ,
वाक्यव्यङ्ग्यार्थ, प्रबन्धव्यङ्ग्यार्थ. Although
Ramavatara is मर्त्यावतार मनुष्यावतार of
ब्रह्मन्, Ramayana (रामायण) brings out or explains
the paratattva of tAraka brahma shrIrAma -sad kAvya also.
From Ramayanarahasya, the esoteric of gayatri mantra can
be understood by ordinary persons who do not have the
advantage of knowledge of वेदान्त or व्यङ्ग्यार्थ
or गूढार्थ in kAvya.
Encoded by Venkata Subramanian venkatasubr at gmail.com
Proofread by Venkata Subramanian, Sunder Hattangadi
Commentary by Venkata Subramanian