रामषड्गुणोपाख्यानवर्णनम्

रामषड्गुणोपाख्यानवर्णनम्

षड्गुणानि - ऐश्वर्यगुण वीर्यगुण यशोगुण श्रीःगुण ज्ञानगुण वैराग्यगुण ।

ऐश्वर्यवर्णनम्

ब्रह्मोवाच । यौवराज्ये स्थितं रामं नीतिज्ञं धर्मकोविदम् । राज्ञो नैश्चिन्त्यकर्तारं श्रियः सर्वाः प्रपेदिरे ॥ १॥ ऐश्वर्यमतुलं वीर्यं यशस्त्रैलोक्यशीतलम् । जानक्या सम्मिता श्रीश्च ज्ञानं स्वात्मनिदर्शनम् ॥ २॥ वैराग्यं विषयोन्मोकं सर्वभोगसुखातिगम् । षड्विधं भगमित्येतद्रामचन्द्रे बभूव ह ॥ ३॥ भुशुण्ड उवाच । षड्विधेन भगेनैष भगवानिति शब्दितः । तत्प्रायो विश्रुतप्रायं वेदेभ्यो बहुरूपतः ॥ ४॥ तथापि न समाज्ञातं रामचन्द्रगतं भगम् । प्रत्येकमैश्वर्यमुखं वर्णितं यद्भवादृशैः ॥ ५॥ ब्रह्मोवाच । बहुधा वर्णितं वेदैर्भगवत्त्वममुष्य तत् । भगं भाग्यं पराशक्तिरन्तरङ्गतया स्थितम् ॥ ६॥ स्वरूपधर्मरूपं तत् परे ब्रह्मणि राघवे । न परो भगवांस्तस्माद्रामात् त्रैलोक्यसुन्दरात् ॥ ७॥ अथ तेऽहं प्रवक्ष्यामि रामस्यैश्वर्यमुत्तमम् । यस्याज्ञावशगा माया देवानामपि मोहिनी ॥ ८॥ सापि दासीवदासीना कस्तस्मात्पर ईश्वरः । कालोऽप्याज्ञाकरो यस्य सृष्टि स्थितिलयावहः ॥ ९॥ सर्वभूतैकग्रसनः सर्वभूतभयङ्करः । आध्यात्मिकोऽधिदैवश्च स तथैवाधिभौतिकः ॥ १०॥ लीलारसपदार्थानामाधारो रसवत्तरः । आधिदैव इतिख्यातः कालो रामस्वरूपकः ॥ ११॥ आध्यात्मिकस्तथा कालः सूर्यरूपो जनार्दनः । त्रयीमयः स सविता आधिदैववशानुगः ॥ १२॥ आधिभौतिककालोऽयमाध्यात्मिकवशानुगः । परिणामकरः सर्वभूतानां फलभावनः ॥ १३॥ कर्मोपासाज्ञानमार्गेष्वेको यः प्रतिबन्धकः । भगवन्तं च तद्भक्तं सर्वथैव विमुञ्चति ॥ १४॥ जीवाश्चांशा यस्य सूक्ष्माणुमात्राः स्वस्यैवाभिध्यानतः संसरन्तः । कामक्लेशानिरानन्दरूपाः स्वस्यैवाविर्भावतः स्वेन तुल्याः ॥ १५॥ ब्रह्मेत्याहुर्ये च वेदान्तवाचः सत्यज्ञानानन्दपूर्णप्रकाशम् । निर्वैशेष्यं ज्ञानिनामेकधिष्ण्यं तच्चाप्येकं यद्विभूतिस्वरूपम् ॥ १६॥ सूर्याचन्द्रौ यस्य नेत्रे विशुद्धे द्यौर्वे मूर्द्धा खं च नाभिर्विशालम् । आशाः श्रोत्रे भूतलं पाददेशो यस्य स्थूलं रूपमेतद्विराट् सः ॥ १७॥ निराकारं निर्विशेषं निर्भेदं च निरञ्जनम् । सर्वभूतान्तरात्मैकसूक्ष्मं तत्त्वं च यस्य तत् ॥ १८॥ योगिनां हृदयाकाशे प्रकाशं ज्ञानदीप्तितः । यन्मायया तिरोभूय सर्वं निर्व्याप्य तिष्ठति ॥ १९॥ सर्वतः पाणिपादाद्यं सर्वतोऽक्षिशिरः श्रुतिः । एकाकारं निराकारं नानाकारं विभक्तिमत् ॥ २०॥ अणोरणु महच्चादिमहतो विष्वगुद्भवम् । सैवान्तर्यामिता यस्य कस्तस्मात्पर ईश्वरः ॥ २१॥ इतीदमैश्वर्यमनन्तमेव श्रीरामसंज्ञस्य परस्य धाम्नः । वेदेषु गीतं कविभिर्वर्णितं च ततोऽप्यनन्तं वदतो मे निबोध ॥ २२॥ अनन्तकोटिब्रह्माण्डं बिभ्रद्रोमविलः परः । पुरुषः सोऽपि यस्यांशः कस्तस्मात् पर ईश्वरः ॥ २३॥ यस्य लीलैव कैवल्यं जीवानां सम्प्रगायताम् । ब्रह्मादीनामप्यगम्यं कस्तस्मात्पर ईश्वरः ॥ २४॥ सृजत्या विशते भूयो साक्षीव निखिलं जगत् । जीवेनैवात्मरूपेण तथान्तर्यामिरूपतः ॥ २५॥ विक्रीडति विशेषेण निजलीलारसात्मकः । सहजानन्दिनीशक्त्या कस्तस्मात् पर ईश्वरः ॥ २६॥ एक एव द्विरूपेण नानालीलार्थरूपतः । नित्याविर्भूत एवासौ भुङ्क्ते स्वानन्दधोरणीम् ॥ २७॥ अप्राकृतैः प्राकृतैश्च वस्तुभिः स्वैस्तदर्थकैः । नटवत् कुरुते केलीः कस्तस्मात् पर ईश्वरः ॥ २८॥ यथा कश्चिन्महाराजो निजेच्छामनुरुध्य वै । अशक्यं च सुशक्यं च दुःशक्यं च विधाय हि ॥ २९॥ अन्यथा कुरुते भूयः करोति न करोति च । यथा प्राचीनवस्तूनि कृतानि स्वयमादरात् ॥ ३०॥ प्राकारगोपुरादीनि भङ्क्त्वोद्यानवनादिकम् । कुरुते तत्पुनर्भङ्क्त्वा प्राकारगोपुरादिकम् ॥ ३१॥ एवं स्वयं कृतान्येव कुरुते स्वेच्छयान्यथा । निजलीलारसैकार्थं कस्तस्मात् पर ईश्वरः ॥ ३२॥ मत्स्यो भूत्वा कदाप्येष भक्तरक्षाविचक्षणः । लक्षैकयोजनायामश‍ृङ्गस्थापितपोतकः ॥ ३३॥ प्रलयार्णवनिर्मग्नां वेदवाचमुपाहरत् । तत्कालोचितमाधुर्यवेषविग्रहशोभितः ॥ ३४॥ सत्यव्रताय बहुशो वेदानां हार्दमुक्तवान् । चकच्चकायमानाङ्गः शुद्धसत्त्वमुपाविशत् ॥ ३५॥ कदाचित् कच्छपाकारो मन्दराचलधारणात् । ईषत्कण्डूतिसुखवाट् देवानां हितमाचरत् ॥ ३६॥ कदाचिद्दिव्यवाराहरूपभृत् सन्निवेशवान् । कल्पान्तसमयाम्भोधिजलवृन्दं विनिर्धवन् ॥ ३७॥ उर्व्वीमुदवहद् भूरि सटामण्डितकन्धरः । खुराघातैः कुलाद्रीणां कूटानि त्रोटयन् रुषा ॥ ३८॥ संवत्सरसहस्राणि हिरण्याक्षेण युद्धवान् । विनयन् बाहुकण्डूतीः केवलं वीर्यसम्मदी ॥ ३९॥ अपातयन्महेन्द्रस्य विद्वेष्टारं तमुद्धतम् । साक्षाद्यज्ञस्वरूपेण दृष्टो ब्रह्मशिवादिभिः ॥ ४०॥ व्यतनोत् कर्मणां संस्थाः स्वरूपेणैव तत्क्षणात् । अथ भूयोऽपि देवोऽयं दिव्यकेवलरूपधृक् ॥ ४१॥ अरण्यादागतो रुष्टो दुर्दर्शः क्रूरविग्रहः । षष्टिवर्षसहस्राणि दितिजेन्द्रमयोधयत् ॥ ४२॥ प्रह्लादस्य हितार्थाय तथारूपो बभौ प्रभुः । अथान्यदा बलिं नाम दैत्येन्द्रं त्रिजगत्प्रभुम् ॥ ४३॥ सुरेन्द्रलक्ष्मीहर्तारं प्रसभं छलमात्रतः । पातालं वेशयामास वामनोऽथ त्रिविक्रमः ॥ ४४॥ देवैर्नरैर्मुनिगणैर्दृष्टोऽत्यद्भुतविक्रमी । कोटिबिम्बार्कदुर्दर्शो रसनाबद्धतारकः ॥ ४५॥ गणैर्जयेत्यभिहितस्त्रैलोक्येन विराजितः । शुशुभे भगवान् साक्षादयमेव शुभाकृतिः ॥ ४६॥ अथ राजन्यवर्येषु विधर्माक्रान्तबुद्धिषु । अब्रह्मण्येषु दुर्वृत्तेष्वात्मवीर्यविकासवान् ॥ ४७॥ कुठारधारादुर्दर्शो विप्रः क्षत्रियघातकः । दुःक्षत्ररहितां भूमि चक्रे वारैकविंशतिम् ॥ ४८॥ अपोषयद् ब्राह्मणांश्च दानं कृत्वा महाद्भुतम् । चकर्त कार्त्तवीर्यस्य दोर्दण्डद्रुममण्डलीम् ॥ ४९॥ अथ दाशरथे गेहे सर्वसम्पद्विभूषिते । भ्रातृभिः सहितो जातो रसिकेन्द्रशिखामणिः ॥ ५०॥ कल्पं सारस्वतं प्राप्य साक्षात् पूर्णः शुभाकृतिः । मैथिलीनयनानन्ददायी पौरुषभूषणः ॥ ५१॥ नीतिधर्मप्रवृत्तित्वात् सतां सम्मतसद्गुणः । योगिभिर्वृतहृत्तषै र्गीयमान उदारधीः ॥ ५२॥ मर्यादापालन परश्चक्रे लीलां मनोहराम् । तामहं गदितुं शक्तो नैव जिह्वासहस्रकैः ॥ ५३॥ श्रीरामो नाममात्रेण रमयन् जीवधोरणीः । रमते रत्नाचले नित्यं भ्रात्रा सेवितपार्श्वकः ॥ ५४॥ भूय एष क्षपयिता रावणं लोकरावणम् । अगस्त्यहयशीर्षाद्यैर्ज्ञाततत्त्वः कथञ्चन ॥ ५५॥ महावीरो महाधीरो महाकारुणिकेश्वरः । कृतज्ञो यशसां राशिर्विप्राशीभिः समैधितः ॥ ५६॥ लोकलोचनविश्रामो विरामो भूरिदुर्हृदाम् । वेदमार्गनया रामो रामो विजयतेतराम् ॥ ५७॥ बलकृष्णादिरूपेण भविता च समः क्वचित् । अथ यज्ञगताञ्जन्तून् दयमानो दयानिधिः ॥ ५८॥ बुद्ध इत्याख्यया युक्तो भविता स्वयमेव च । ततश्च म्लेच्छभावेषु जनेषु कलिकालतः ॥ ५९॥ पुनः संस्मृत्य स्वं धर्मं भविता कल्किरूपधृक् । इमानि दश मुख्यानि रुपाण्यस्य महात्मनः ॥ ६०॥ युगे युगेऽवतरतो गीयन्ते वेदवित्तमैः । अन्यानि चापि रूपाणि युगरूपाणि बिभ्रति ॥ ६१॥ गुणावताररूपाणि तथैवान्यानि भूरिशः । श्वेतरक्तपीतकृष्णनानावर्णानि वै खग ॥ ६२॥ तथैवान्यानि रूपाणि कलाश्चांशाः सनातनाः । तथैवावेशरूपाणि पृथुराजमुखानि च ॥ ६३॥ रामस्यैवाखिलारम्भा दृष्टाश्चैव श्रुता अपि । स्मृताः पुनन्ति भुवनं कस्तमात्पर ईश्वरः ॥ ६४॥ सकलैश्वर्यसीम्नोऽस्यैश्वर्यमुपवर्णितम् । तथा हि महती भूतिरनेनात्र प्रदर्शिता ॥ ६५॥ यौवराज्यस्थितेनैव श्रीमद्दाशरथे गृहे । गृहं खलु विशालं तद् योजनोच्छ्रायमीडितम् ॥ ६६॥ सभामण्डप संशोभि मणिमाणिक्यभूषितम् । पितृपैतामहं यत्र हेमरत्नविभूषितम् ॥ ६७॥ निःश्रेणिका त्रय युतं दिव्यं सिहासनं स्थितम् । तत्रस्थोऽयं सभाकाले शुभुभे यौवराज्यभुक् ॥ ६८॥ पितुराज्ञामनुल्लङ्घय नीतिधर्मानुशासकः । गायका नर्तकाश्चैव वादकाश्चोपवीणकाः ॥ ६९॥ अनेकशिल्पवैचित्रीशालिनः शुभकर्मिणः । स्वां स्वां विद्यां दर्शयन्त उवासाञ्चक्रिरे मिथः । यौवराज्यस्थितं रामं त्रिजगत्कामवर्षणम् ॥ ६९॥ युवानमाजानुविशालदोर्द्वयं महार्हरत्नाढ्यलसत्किरीटिनम् । वलक्षमुक्ताफलपूरितश्रुतिं विलम्बिहाराभरणाद्युरः श्रियम् ॥ ७०॥ निरङ्कपूर्णेन्दुविराजिताननं जगत्त्रयीनेत्रचकोरतुष्टिदम् । समोदमीषत्स्मितरञ्जिताधरं नितान्तमाज्ञावशगाखिलेश्वरम् ॥ ७१॥ सुपीवरांसं सुविशालवक्षसं सुराजराजीवविराजितेक्षणम् । सुवर्णरत्नाङ्गदभातिरस्कृत स्फुरत्सभामण्डलभूतमिस्त्रकम् ॥ ७२॥ स्वामित्वधर्मेण वशीकृताखिलं स्वाभाविकोद्योतसहस्रदीधितिम् । प्रसन्नकान्त्याभिसुधांशुसम्पदं मनोरमालापकलासु कोविदम् ॥ ७३॥ के के न तोषितास्तेन के के न च वशीकृताः । के के न सङ्गताश्चैव के के न च कृतार्थिताः ॥ ७४॥ के के न काञ्चनासारैः कवयो धनदीकृताः । के के न गजसन्दोहैर्जना गजपतीकृताः ॥ ७५॥ के के न वाश्वसन्दोहैर्जना हयपतीकृताः । के के न मणिसन्दोहैर्जना रत्नाकरीकृताः ॥ ७६॥ दिवामणिकुलोद्योते रामे प्रकृतिरञ्जने । यौवराज्यस्थिते दूरमगात् कलुषसम्भवः ॥ ७७॥ अघस्यापि न लेशोऽभूत् प्रजा धर्मानुवतिताः । निरस्ततिमिरं रेजे सर्वतोऽवनिमण्डलम् ॥ ७८॥ दारिद्र्यमगमद् दूरं दिवाभीत इवोदये । चतुर्दिक्षु जयेत्येव शब्दोऽभूत् सुखवर्द्धनः ॥ ७९॥ चतुर्णां च पुमर्थानामेष कल्पद्रुमोऽभवत् । साकेतपुरराजेन्द्रकुमारो लोकसुन्दरः ॥ ८०॥ मित्राणां स्थापनकरः प्रोज्जासनकरो द्विषाम् । कोटिकन्दर्पमूर्तित्वात् त्रिलोकीचित्तमोहनः ॥ ८१॥ तरुणार्क इवोद्योतशाली महिमभूषितः । तदेव चक्रे यत्राभूदन्येषामत्यशक्यता ॥ ८२॥ तत्रास्य बाणसञ्चारो यत्र राक्षससङ्क्षयः । ततान तादृशीं कोति भ्रातृव्याः यत्र मर्षिताः ॥ ८३॥ जगाद तादृशं वाक्यं यादृशं वेदसम्मितम् । सज्जीकृत्य बलं गच्छन् गिरिश‍ृङ्गाण्यपातयत् ॥ ८४॥ पुनश्च विनयं कृत्वा यात्रासिद्धिमवाप्य सः । जयतौर्यत्रिकोद्घोषैः प्रविशन् निजमन्दिरे ॥ ८५॥ असङ्ख्यातान् गुणांस्तस्य को वा वर्णयितुं क्षमः । द्वितीयः सूर्य एवासौ साक्षाद्रामः स्वयम्प्रभुः ॥ ६८॥ दिलीपस्य रघोश्चैव तथैवाजस्य भूपतेः । साक्षाद्दशरथस्यासावनुचक्रे पितुर्गुणान् ॥ ८७॥ आहोपुरुषिकां साक्षाद्देवानां समपूपुषत् । असुराणां नाशकृते सिद्धीनामासनं बभौ ॥ ८८॥ वीरतायाश्च मञ्जूषा शूरताशासनो बभौ । अधर्मस्य च सन्धारो धर्मस्याधार एव च ॥ ८९॥ पारावारो बलस्यैष कीर्तेः कर्तानुवासरम् । भूमेर्भर्त्ता दशरथस्तस्य सन्तोषदायकः ॥ ९०॥ विभ्राणश्च स्वयं शक्त्या विप्रगोवेदबान्धवान् । परपीडापहर्ता च संसारस्योपरि स्थितः ॥ ९१॥ सर्वस्योच्चैः स्थितोऽप्येष नीचैरेवास्थितो गुरोः । वेदानां रक्षकः साक्षात् क्षत्रधर्मव्रताकरः ॥ ९२॥ दूरात् कालाग्नियन्त्राभः शत्रूणां भयवर्द्धनः । समीपे च महातीक्ष्णकालजिह्वाकृपाणवत् ॥ ९३॥ दुर्गाणामावरणकृद्द्वाररोद्धा कपाटवत् । सद्धर्मकर्मणां भूमिर्गुणैर्गङ्गासमुज्वलः ॥ ९४॥ अघतार्णकुटीपुञ्जज्वालनो नाममात्रतः । परसैन्यमहामेघघटासङ्घट्टमारुतः नाममात्रतः ॥ ९५॥ आकाश इव विस्तारी ज्योतिषां स्थानमव्ययम् । सूर्यमण्डलवच्छत्रं चामरे चन्द्रबिम्बवत् ॥ ९६॥ सिंहासनं मेरुसमं पादप्रोञ्छनवन्मही । यस्योचितं परं त्वेष पितुराज्ञाकरो भृशम् ॥ ९७॥ द्वीपाद् द्वीपान्तरं गच्छन् नामयामास भूपतीन् । समुद्रान् ग्राहयामास सैन्यैः सचतुरङ्गकैः ॥ ९८॥ पर्वतान् लोपयामास यातायातैर्बलस्य सः । देशान्तरादुपागत्य जगुरेनं कवीश्वराः ॥ ९९॥ लेभिरे रत्नकूटानि महेभांश्च महाहयान् । लक्षकोट्यधिकं द्रव्यं प्रसादीकृत्य तान् ददौ ॥ १००॥ लेभे च महतीं कीर्तिं शरच्चन्द्रांशुशीतलाम् । यथा प्रोद्भासितं विश्वं यावत्कल्पो विधेर्दिनम् ॥ १०१॥ प्रजानां भालसम्भाग्यं साक्षादेव रघूद्वहः । उज्जागरः श्रियामेषः सागरः सर्वसम्पदाम् ॥ १०२॥ आशीर्भिर्वर्द्धयामासुरेनं सिंहासनस्थितम् । चिरञ्जीव महाराजकुमार नयनोत्सव ॥ १०३॥ श्रीराम लक्ष्मणसख भरताद्यनुजान्वित । तानेव नतवान् मूर्द्ध्ना बहुमानपुरःसरम् ॥ १०४॥ सिंहासनस्थे श्रीरामे युवराजे रघूद्वहे । रत्नभाजनसन्दोहनानोपायनपाणयः ॥ १०५॥ ताम्बूलभाजनकराः पर्यस्थुः पारिपार्श्वकाः । माद्यद्गजवरारूढा नटवद्वंशसंस्थिताः ॥ १०६॥ उपसेदुर्महामात्राः सन्तुष्ट्यै राघवेशितु । कूर्द्दमानाः केकिशिराश्चतुरङ्गा जयोद्धुराः ॥ १०७॥ लघुपल्याणिनो वीरा अश्वपालकरस्थिताः । पट्टसूत्रसमावद्धा उपसेदुस्तुरङ्गमाः ॥ १०८॥ कृष्णसाराश्चारुदृशस्तीक्ष्णश‍ृङ्गा जयोद्धताः । पट्टसूत्रसमाबद्धा उपसेदुस्तदग्रतः ॥ १०६॥ मृगयाधावननवाः श्वानो मध्ये तरक्षुवत् । ललद्विलोलजिह्वाग्रा हयानामग्रगामिनः ॥ ११०॥ शार्दूलपोतैः सदृशाः परस्परगुणाधिकाः । कालवर्णाः पीतरुचः श्वेताश्चित्रतनुत्विषः ॥ १११॥ धूम्राक्षाश्चातिधूम्राभाः पट्टसूत्रावलम्बिनः । कूर्द्दमानमृगीपोतग्राहिणस्तृतीये क्रमे ॥ ११२॥ ग्रामसिंहोत्तमास्तत्र ह्युपसेदुरनेकशः । ग्रामाणां नगराणां च देशानां च विशेषतः ॥ ११३॥ निष्पत्तिं तु समादाय सेवका उपतस्थिरे । कान्त्या विशालरसना नेत्रैः पीयूषवार्मुचः ॥ ११४॥ गत्या चापि गरीयांसः कीर्तिविस्तारकारकाः । आख्यानाख्यायकाः काव्यगुरवो वर्णनक्षमाः ॥ ११५॥ अनेक शास्त्रनिपुणाः कवयश्चोपतस्थिरे । देशेषु परदेशेषु तपन्तो भानुबिम्बवत् ॥ ११६॥ पञ्चहस्तप्रमाणाङ्गा युवानोऽगण्यविक्रमाः । सर्वे विज्ञातविजयाः शस्त्रशास्त्रविशारदाः ॥ ११७॥ कृपाणिकटिसन्नद्धा वाणेषुधिधराश्च ये । वाचामन्यतमाः सर्वे शूरा समुपसेदिरे ॥ ११८॥ तत्र तत्राभवद्भाग्यं यत्र यत्र दृशं ददौ । यदा यदा प्रसङ्गोऽभूत् कवीनां भाग्यवृद्धये ॥ ११९॥ तदा तदा समभवत् काञ्चनासारवारिदः । इति ते प्रोक्तमैश्वर्य वीर्यमस्य श‍ृणु द्विज ॥ १२०॥ इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे षड्गुणोपाख्याने ऐश्वर्यवर्णनं नाम द्विनवतितमोऽध्यायः ॥ ९२॥

वीर्यव्याख्यानम्

ब्रह्मोवाच । अथ वीर्यं रामचन्द्रस्य वक्ष्ये ह्यनन्यसामान्यममेयमस्य । लोकोत्तरं भागवत्त्वैकचिह्नं निशम्यतां वीर भुशुण्ड मत्तः ॥ १॥ येनैकविंशवारान् वै कुठारेण वरौजसा । क्षत्रियान् युधिनिर्जित्य क्लृप्ता रक्तोदका हृदाः ॥ २॥ तपःप्रतापयोः पुञ्जः साक्षादग्निरिवोद्धतः । दुर्दर्शनोऽतिधाम्नैव दुराराध्यो दुरासदः ॥ ३॥ समुद्र वेष्ठितमही दानसम्पूजितद्विजः । क्षत्रियान्तकरो रामः सोऽपि येन विनिर्जितः ॥ ४॥ बलादाकृष्य तत्तेजः स्वस्मिन्नेव न्यवेशयत् । कस्तस्मादितरो वीरः श्रीमद्दशरथात्मजात् ॥ ५॥ शैलेन्द्रसारं कठिनं पुराणं शाम्भवं धनुः । बभञ्ज लीलया बालस्ततः कोऽन्योऽस्ति वीर्यवान् ॥ ६॥ पश्यतामेव सर्वेषामाद्वीपान्तमहीभृताम् । उवाह जानकीमेष ततः कोऽन्योऽस्ति वीर्यवान् ॥ ७॥ भूतानां भयदं तीक्ष्णं सुबाहुं नाम राक्षसम् । सहस्त्रधा कृतात्मानं युद्ध्यन्तं शस्त्रवृष्टिभिः ॥ ८॥ मायाविनं महाघोरं जेतारं सुरसम्पदाम् । विकटाटोपसंरम्भदुर्दर्शं सुदुरासदम् ॥ ९॥ सहस्रधा स्वयं चापि कृत्वा स्वात्मानमुच्चकैः । अपातयद्रणे घोरे ततः कोऽन्योऽस्ति वीर्यवान् ॥ १०॥ अन्ये च भूभारकृतो राक्षसा घोरदर्शनाः । विप्रद्रुहोऽपकर्तारः सतां देवत्रयीगिराम् ॥ ११॥ महाबला महाघोरा दुर्दुरूढा बलोच्छ्रयाः । आकाशचारिणो वीराः शिलापर्वतवर्षिणः ॥ १२॥ करालविग्रहाटोपा घटासङ्घट्टमेचकाः । नानावर्णा दुराक्रम्या भयानकरणक्रियाः ॥ १३॥ तेऽपि नीता क्षयं बाणैस्ततः कोऽन्योऽस्ति वीर्यवान् । अग्रे च भ्रूभङ्गमात्राज्जलधिं विपुलोदकम् ॥ १४॥ नियम्य पातयामास पादयोरभयङ्करः । शिलाभिस्तं समाच्छाद्य सेतुं कृत्वा दृढं प्रभुः ॥ १५॥ प्लवङ्गांस्तारयामास लङ्कानिर्जयहेतवे । भयानकानां राक्षसानामगणय्य महाचमूम् ॥ १६॥ लङ्कामावृत्य परितः स्वसैन्यं सन्निवेश्य च । पश्यतां राक्षसेन्द्राणां लङ्काधिपतिशीर्षतः । अपातयच्छितैर्वाणैरातपत्राणि तत्क्षणात् ॥ १७॥ ज्ञातं च यन्महासत्त्वं मन्दोदर्या विशेषतः । वर्णितं स्वस्य पतये ततः कोऽन्योऽस्ति वीर्यवान् ॥ १८॥ वालिनं चोद्धतबलं कृतलङ्केशनिर्जयम् । बभञ्जैकेन वाणेन ततः कोऽन्योऽस्ति वीर्यवान् ॥ १९॥ योऽन्तर्यामितया सुरासुरनरत्रैलोक्यमध्ये स्थितो भक्तानां भयसञ्जिहीर्षणकृते पाणौ धनुर्वाणभृत् । मर्यादापरिपालनैकनिपुणः सर्वावतारेश्वरः श्रीमानेष चिरन्तनो विजयते पूर्णः परः पूरुषः ॥ २०॥ अस्याज्ञातत्परो वीरो हनूमान् विश्वनिर्जयी । कुर्वन् किलकिलाशब्दैः क्षोभणं यक्षरक्षसाम् ॥ २१॥ कपीन्द्रः स्मरणादेव दुष्टजालप्रणाशनः । रुष्टोऽम्भोधिं शोषयेद्यो धरित्रीमपि दारयेत् ॥ २२॥ पर्वतान् पातयेदेव भिन्द्याद् वज्त्रमपीच्छया । मथ्यात् त्रैलोक्यमखिलं ससुरासुरमानुषम् ॥ २३॥ कालयेत् कालमपि यो हरेत् सर्वस्य पौरुषम् । सिंहनादी महाभीमो ब्रह्माण्डमपि चोद्वहेत् ॥ २४॥ उद्धरेन्मेरुमपि यः साक्षान्मारुतनन्दनः । तादृशो यस्य पुरतो बद्धाञ्जलिपुटः स्थितः ॥ २५॥ किङ्करोमीति सततं स्वदास्यमनुदर्शयन् । आनमत्कन्धरौ भक्त्या ततः कोऽन्योऽस्ति वीर्यवान् ॥ २६॥ इति श्रीरामचन्द्रस्य वीर्य ते कथितं मया ॥ २७॥ यस्यैकनाम सकलागमसारभूतं भूयो जपन् किल नरः प्रविमुच्यते वै । ब्रह्मादिदैवतभयानकरूपकाल व्यालाननान् जयति कोऽन्य इतोऽपि वीरः ॥ २८॥ प्राणान्तकरणोद्युक्ता भयदा यमकिङ्कराः । सुदुर्दर्शाः पाशकराः कशाहस्ताः सुवेगिनः ॥ २९॥ तेऽपि संयमिनीपुर्यां वासिनो घोरविग्रहाः । यस्यैकनाममात्रेण पलायन्ते दिशो दश ॥ ३०॥ निर्भयो जायते मर्यो निस्तीर्णः कालसङ्कटात् । सर्वत्र पूजां लभते कस्तस्मात्पर ईश्वरः ॥ ३१॥ यस्य भ्राता लक्ष्मणाख्यो यतीन्द्रः कल्पान्ताग्निक्रोधदुष्प्रेक्षरूपः । भक्तस्यार्थे स्वयमात्तेषुचापः कोऽन्यस्तस्मादुच्चकैर्वीरवर्यः ॥ ३२॥ कालस्यापि भयं यस्माद्विश्वतः कलनात्मनः । सूर्यस्य नित्यं भ्रमतो मरुतस्य सदागतेः ॥ ३३॥ अन्येषां चापिदेवानां मर्यादासंस्थितात्मनाम् । यतो भयं नित्यमेव महासंहरणात्मनः ॥ ३४॥ स्थावराणां जङ्गमानां यत एवास्ति संस्थितिः । स्वे स्वे स्थाने स्थापितानां नाद्याप्यस्ति व्यतिक्रमः । प्रभूणां चापि सर्वेषामेक एव च यः प्रभुः ॥ ३५॥ कालाग्निरुद्रो जगतीतलस्य करालरूपो विकटज्वालमाली । कल्पान्तेषु क्षम एषोऽस्य हृत्यै सोऽप्यस्य यस्तुल्यतां नैव याति ॥ ३७॥ यौवराज्यपदे स्थित्वा स्वपीठमधितिष्ठति । कोटिब्रह्माण्डकर्तारो विधयः कोटिशङ्कराः ॥ ३८॥ कोटयश्च महेन्द्राणां वरुणानां च कोटयः । कोटयः पावकानां च यमानां चापि कोटयः ॥ ३९॥ बद्धाञ्जलिपुटा भूत्वा अग्रतः पर्युपास्थिताः । ततः प्रसादमासाद्य गच्छन्ति स्वस्य विष्टपम् ॥ ४०॥ कांश्चित् कृपाकटाक्षेण कांश्चिन्मञ्जुमुखस्मितैः । कांश्चिदालापमात्रेण कांश्चिद्दर्शनमात्रतः ॥ ४१॥ राघवेन्द्रोऽनुगृह्णाति कोटिब्रह्माण्डनायकः । यस्यावतारसमये वैकुण्ठं वीक्ष्य शून्यवत् ॥ ४२॥ ये तत्र गामिनो देवा ब्रह्माद्या आधिकारिकाः । ज्ञात्वा परं पूरुषं तं नित्यमेवमुपासते ॥ ४३॥ तस्य वीर्यं समालम्ब्य रावणाद्यैरुपद्रुताः । विस्त्रस्ताः स्वाधिकारेभ्यः स्वान्ते सन्तापसञ्जुषः ॥ ४४॥ यस्य वीर्यं समालम्ब्य त्रिदशा सर्व एव हि । तादृशं विपदां भारं न किञ्चिद् गणयन्त्यहो ॥ ४५॥ स्मृत्वा यस्य धनुर्बाणौ सतां रक्षणकारकौ । दैत्यानामस्त्रशस्त्राणि मन्यन्ते तृणवच्च ते ॥ ४६॥ यस्य चक्रं महाज्वालामालादीधितिसंयुतम् । दैत्यस्तोमतृणारण्यदाहनोद्धुरताण्डवम् ॥ ४७॥ अपां तत्त्वं दरवरं यस्य पाणौ विराजते । यत्र मग्नास्तु दितिजा नोन्मज्जन्ति पुनः क्वचित् ॥ ४८॥ वायुतत्त्वमयी यस्य गदा नित्यं बलोर्जिता । दैतेयघनसङ्घट्टविद्रावणमहोर्जिता ॥ ४९॥ भुवनात्मकमम्भोजं यस्य पाणितले स्थितम् । मोहनं सर्वदैत्यानां ततः कोऽन्योऽस्ति वीर्यवान् ॥ ५०॥ देवानां चैव यक्षाणां गन्धर्वाणाञ्च कन्यकाः । राज्ञां पुण्यजनानां च मनुष्याणां च कन्यकाः ॥ ५१॥ द्वीपान्तरस्थितानां च विचित्रजनुषां नृणाम् । काश्मीरादिप्रदेशस्थमानवानां गुणान्विताः ॥ ५२॥ पत्त्न्यश्च पुत्रिकाश्चैव रूपसौन्दर्यशोभिताः । कामलुब्धेन नितरां रावणेन दुरात्मना ॥ ५३॥ द्विरागमविवाहादौ येषु तेषु जनादिषु । पतिसंयोगकालादौ प्रसभं बलिना हृताः ॥ ५४॥ वन्दीकृताश्चावरुद्धाः प्रत्यहं शोककर्शिताः । यस्य वीर्यविमर्शेन वासरं गमयन्ति ताः ॥ ५५॥ दीनानां नः प्रभुरेकस्त्रिलोक्यां श्रीमान् वीरो योऽग्रगण्यः प्रतापी । कदा समागत्य रघुप्रवीरः श्रीरामचन्द्रो मोचयिष्यत्यमुष्मात् ॥ ५६॥ अस्मांस्तदेकशरणाः पतिपितृभ्रातृ पुत्रादिभिर्विरहिता हृदिशोकभाजः । श्रीराघवेन्द्र इह सङ्गत एव काले सम्मोचयिष्यति बलाद् बलवान् स एकः ॥ ५७॥ नान्योऽस्माकं मोचयिता दृश्यते भुवनत्रये । रावणत्रिजगज्जैत्रादेकं रघुपतिं विना ॥ ५८॥ इति विश्वस्तचित्तास्ता भावयन्ति दिवानिशम् । यमेव वरशार्दूलं ततः कोऽन्योऽस्ति वीर्यवान् ॥ ५९॥ सम्प्राप्ते सङ्कटे चापि महाभय उपस्थिते । सङ्ग्रामे विषमे घोरे दुर्गमे जलसङ्गमे ॥ ६०॥ राजद्वारे भयकरे तथैवाध्वनि दुर्गमे । क्रव्यादद्विपसर्पादौ सद्यो नाशार्थमुद्यते ॥ ६१॥ कान्तारे दुर्गमे चैव पर्वते सिंहसंयुते । भूतप्रेतपिशाचाद्यैर्जृम्भकाद्यैरुपद्रुते ॥ ६२॥ रामेति यस्य नाम्नैव तरन्ति विपदोऽखिलाः । जायन्ते निर्भया लोकाः कोऽन्यस्तस्माच्च वीर्यवान् ॥ ६३॥ इति ते वीर्यमाख्यातं रामस्य सुमहात्मनः । यज्ज्ञात्वा खलु जायन्ते अनन्यशरणा जनाः ॥ ६४॥ वीराय वीरवर्याय महावीर्यगुणात्मने । राघवेन्द्राय रामाय नित्यमेव नमोनमः ॥ ६५॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पूर्वखण्डे षड्गुणोपाख्याने वीर्यव्याख्यानं नाम त्रिनवतितमोऽध्यायः ॥ ९३॥

यशोव्याख्यानम्

ब्रह्मोवाच । अथ ते राघवेन्द्रस्य प्रवक्ष्यामि यशोगुणम् । जनो यद्गानमात्रेण भवबन्धात् प्रमुच्यते ॥ १॥ सभामण्डपमागत्य स्थिते श्रीरघुसत्तमे । वेदास्तापसरूपेण गायन्ति विपुलं यशः ॥ २॥ अनवद्यलसद्वर्णां गद्यपद्यादिरूपिणीम् । अवलम्ब्य गिरं तादृग्गभीरार्थविशारदाम् ॥ ३॥ यमकोद्भासिनीं भूयो दण्डकोदण्डमण्डिताम् । सरस्वतीमुपाश्रित्य सालङ्कारां गुणान्विताम् ॥ ४॥ सर्वलक्षणसंयुक्तां विमुक्तक्रमसङ्क्रमाम् । अभूतपूर्वविपुलां कविताख्यां तरङ्गिणीम् ॥ ५॥ सर्वलक्षणसंयुक्तां विमुक्तक्रमसङ्क्रमाम् । अभूतपूर्वविपुलां कविताख्यां तरङ्गिणीम् ॥ ५॥ श्रीरामचन्द्रवदनालोककौस्तुभसंस्तुताम् । चमत्कारशतैर्युक्तां भारतीं समदर्शयन् ॥ ६॥ वेदा ऊचुः । श्रीखण्डद्रवशीतलं विजयते नित्यं त्वदीयं यशः कामक्लेशमुखैरुपद्रुतममुं जीवं तमःसंयुतम् । सन्तप्तं बहुशो विपन्नमसकृत् संशीतयत्येव यः पीयूषोपममुच्चकैस्तदभितो भक्तैर्जनैर्गीयते ॥ ७॥ शरच्चान्द्रीवलक्षं यत् प्रकृत्या स्वादु शीतलम् । अपहाय जनस्तादृक् तावकं विपुलं यशः ॥ ८॥ कोऽन्तः सन्तापसन्दोहनिर्वापं खलु वाञ्छति । इति चात्र महामोह व्याकुले दुर्भगे भवे ॥ ९॥ नान्यस्त्वादृक् सुरेषु प्रतिकृतिकरणे भूरिसन्तापराशेः सर्वे त्वद्दत्तमेव प्रलयमवधितः स्वाधिकारं भजन्ते । एकस्त्वं निःसमानः प्रभुवर वरणीयोऽसि जीवैः समस्तैरेषा ते राम कीर्तिस्त्रिभुवनजनताचित्तसन्तापहर्त्री ॥ १०॥ कोटिनिर्लाञ्छनेन्दूनां भास्वन्त्या प्रभयापि च । यद् दुर्निवारतिमिरं त्वत्कीर्त्या तन्निवर्तते ॥ ११॥ त्रिभुवनजनतायाश्चित्तसन्तापहर्त्री प्रसभतरमविद्याकामकर्मादिरूपम् । तिमिरमपहरन्ती विष्वगौज्ज्वल्ययुक्ता विलसति तव कीर्तिः सन्ततं राघवेन्द्रो ॥ १२॥ क्षीराम्भोधेः समन्ताद्विलुलितलहरीलास्यलावण्यचौरी कर्पूरक्षोदगौरी द्रुततरविसरच्चन्दनामोदयुक्ता । कीर्तिस्ते रामचन्द्र प्रकृतिसुमधुरा पूर्णपीयूषपूर प्राप्तप्राज्यप्रतिष्ठा कलयति कुमुदालोकिनीं चारुचान्द्रीम् ॥ १३॥ जय जय जय देव साकेतचन्द्रश्रिया तन्त्रचन्द्रद्युते रामचन्द्र क्षमापाल शक्रादिदिक्पालतेजःस्फुरच्चण्डकोदण्डदण्डस्फुटोद्गीर्णवाणावल शीर्णविद्वेषिसङ्घ प्रभूतप्रचण्डप्रतापप्रकाशप्रकृष्ट प्रसर्पत्प्रभावप्रसारप्रभापूरितक्ष्मातलक्षेमदाक्षुण्ण कौक्षयकाक्षामलक्ष्मीक सक्षेमसोन्मादमातङ्गविश्राणनोद्दाम दीव्यद्गुणग्राम भूदेवविश्राम भूयस्तरायाम धर्मद्रुमाराम हेराम कामाभिरामद्युते ॥ १४॥ जय कविजनगीत तावत्तुलातीत नित्यप्रमुदित शीतद्युतिस्फीतसत्कीर्तिसन्नीतसाङ्गस्वराधीतविप्राननोन्नीतमाङ्गल्यवाग्गीत खड्गस्फुटाघातसद्यः समुत्खातसर्वद्विषव्रात भूमण्डलायातलावण्यसङ्घात दोर्विक्रमत्रात सद्धर्मविख्यात किञ्चिन्नवप्रातरुद्यत्पयोजातरोचिष्ण्वभिख्यात पादद्वयापातनम्रद्विषत्सातदानस्फुटौदार्य सद्विप्रसत्कार्य सद्वृत्तनिर्धार्यवीर्यश्रियावार्य सौन्दर्यसत्पात्र भूयोल्लसद्गात्रचञ्चद्यशोमात्र नित्यद्युते ॥ १५॥ जय जय कविजनभालभूरिस्फुरद्भाग्यभूम्येकसौभाग्य- सम्पत्तिसम्भारधौरेयतोद्दण्डदोर्दण्ड शुण्डासमुच्चण्डभृङ्गावलीगण्डसोद्रेकवेतण्डविश्राणनाखण्ड- भूमण्डलाखण्डलोग्रप्रभाजाग्रदत्युग्रहस्ताग्र किम्भूयसा विस्तरेण त्वया देवकीर्तिश्रिया विश्वमेतत् समस्तं कृतं निस्तमस्कं तथा कोटिनिर्लाञ्छनेन्दुच्छवीनां छटाभिर्न सम्भाव्यते तादृशी श्रीरतस्त्वं समस्तावनीपालमूर्द्धाग्रमाणिक्य हेरामचन्द्र क्षमापालचन्द्र जीयाश्चिरं देव जीयाश्चिरम् ॥ १६॥ जय जय गुणमयकाय सर्वाधिकोच्छ्राय दीव्यत्सदाध्याय विप्रावलीदाय जाताहितापाय शातावलीशाय विस्फूर्जितामन्द सौरभ्यमाकन्द लक्ष्मीलताकन्द पूर्णान्तरामन्द दत्तारिहाक्रन्द विद्वत्सभोल्लास भूयोरसावास खड्गोद्भवत्रास वश्यद्विषद्दास वाणासनोत्प्रास विक्रान्तिसोद्भास हेराम तत्र त्वया कीर्तिरसंस्थापि यत्रोल्लसन्तः सुधापूरपूर्णाः स्फुरन्त्युच्चैस्तुङ्गगङ्गातरङ्गास्तथा राजहंसावली राजते यत्र कीर्तिस्तथा स्वःपते ॥ १७॥ इति ते भूयसीं कीर्ति वर्णितां कविपुङ्गवैः । गायन्ति देवललना विमानस्थाः स्वकेलिषु ॥ १८॥ मन्दाकिनी भोगवती गङ्गा गुणवती च या । सा तवैव यशोराजीपुण्यतोयतरङ्गवाट् ॥ १९॥ उद्गायतां प्रतिपदं सुरभीकरोति वक्राणि कल्पतरुपुण्यपरागवद् यः । चेतः पुनाति रुचिमुत्कुरुते श्रवःसु जाड्यं धुनोति तनुते विपुलार्थसार्थम् ॥ २०॥ श्लोकस्तादृक्तावको राघवेन्द्रो यन्नो गीतः शून्य एवास्ति वेदः । यद्वा गीतः सर्वभावातिरेकात् किन्तैर्गीतैर्दुविदग्धैस्तथान्यैः ॥ २१॥ सङ्गीयन्ते यस्य गुणा वदान्याः समस्तसौभाग्यमुदामजस्त्रम् । किं तेन गीतेन य एति मृत्युमुत्पद्यते प्रकृतिर्यस्य दुष्टा ॥ २२॥ ईशावास्यमिदं सर्वं भवता गुणसिन्धुना । त्रैलोक्यबन्धुना राम सन्ततं करुणात्मना ॥ २३॥ सुमेरुशिखरासीना मन्दारद्रुममूलगाः । दिविषत्कन्यका राम गायन्ति भवतो यशः ॥ २४॥ वेदैरपि न निर्णेयं यस्य नाम महद्यशः । के नाम तापसास्तत्र वयं वर्णयितुं क्षमाः ॥ २५॥ दत्त्वा न प्रथयन्ति तज्जनमुखे शश्वद्गृहाभ्यागते सानन्दं कृतसम्भ्रमा इव भवन्त्याधाय कर्म प्रियम् । तूष्णीमासत आत्मनीतरजनस्वल्पोपकारक्रियां घण्टाघोषवदीरयन्ति दधते नोत्सेकमन्तः श्रियाम् ॥ २६॥ इत्याद्याः सकला गुणा विदधते कीर्तिं रघूणां हि व स्तत्रापि त्वमिह प्रभो विदित एवात्युत्तमः पूरुषः । येषामद्य करोषि नाम सदलङ्कारं गुणानां हरे तस्मात्ते गुणिनो जयन्ति हि गुणाः स्वार्थाः परार्था अपि ॥ २७॥ नित्यं मारकतेषु हेमसदनालङ्कारिषु प्राङ्गणे ष्वासीना विदुषां स्त्रियस्त्वदमलश्लोकानुकीर्तिस्पृशाम् । मुक्ताविद्रुमहेमहीरकिरणप्रोन्मीलिताङ्ग्यः प्रभो गृह्ये कर्मणि तावकं सुविषदं गायन्ति शश्वद् यशः ॥ २८॥ नेन्दुः पूर्णतमोऽथ शारदनिशामध्योल्लसद्दीधिति र्नो वा कैरवकाननं न च सुधा सन्दीप्तिवन्मन्दिरम् । नो वा शम्भुशिरःसु मल्लिकुसुमस्त्रग्विष्णुपद्याः पयो विश्वं भूषयते न राम भवतां यद्वद्वलक्षं यशः ॥ २९॥ यत्सङ्गादशुचिः शुचिः सुमलिनोऽप्यौज्ज्वल्यवान् भासते मूढोऽपि प्रगुणाकरः शठमतिश्चापीह सौहार्दवान् । तत्तादृक् भवतो यशस्त्रिभुवनालङ्कारसारं जनो हित्वान्यं यदुपासते नरपतिं लोभात् स वै दुर्भगः ॥ ३०॥ एके कालमहाभुजङ्गमपरित्रस्तास्तदेकौषधं पीयूषोज्ज्वलमान्तराधिकपरीतापप्रतीकारकम् । श्रीमद्राघव तावकीन ममलं विश्वप्रमोदप्रदं चेतोवश्यकरं यशः समुदयं प्रोद्गाय सुस्था बभुः ॥ ३१॥ नान्यो दाता न शूरो न च युवतिमनोहारिलावण्यलक्ष्मी र्नो विद्वान्नोपकर्ता न खलु पररुजां हारकस्तारको वा । प्रत्येकं रामचन्द्र त्रिजगति विरला ये गुणाः सर्व एते तेऽमी त्वामेव लीलाऽवतरणसमुपाश्रित्य शश्वज्जयन्ति ॥ ३२॥ धन्यो वाल्मीकिनामा जयति मुनिवरो धन्य एवाश्ववक्त्रो धन्यः श्रीमान् हनूमान् किमपि कलशजो धन्य उच्चैर्विधिश्च । धन्यः सङ्कर्षणश्च त्रिभुवनभवनोद्दीपिनी वाक् च तेषां धन्या श्रीरामचन्द्र प्रकृतिसुमधुरं त्वद्यशो ये वहन्ति ॥ ३३॥ यत्रैते ऋषयो भवन्ति ऋषयो विष्वक् प्रवृत्तिप्रदा श्छन्दोऽनुष्टुवथापि राम वृहती त्रिष्टुब् जगत्यादिभिः । त्रैलोक्योत्तरसर्वदिव्यगुणभूस्त्वन्देवता श्रीपते शक्तिर्विश्वजनीनपापहरणं बीजं तथा कीलकम् ॥ ३४॥ त्वत्कीर्तिः सकलागमेषु विमलो मन्त्रः परः कीर्तित स्तस्यैष प्रकृतः प्रयोगविभवः प्रोद्भाति सर्वेश्वर । कामक्रोधमदप्रमादपिशुनस्तोमैकमुद्राकरः सिद्धिं कामपि वाञ्छतामिह नृणामस्यैव संसाधनम् ॥ ३५॥ सद्यः प्रत्ययकृत् प्रभाव उदयत्येतस्य लोकोत्तरो यत्सर्वा अपि संसरेद्धि विपदो विघ्नाननेकानपि । श्रेयो भूरि लभेत भूतिरपि च श्रीरैहिकामुष्मिकी के के नार्थगुणा जयन्ति जगति त्वत्कीर्तिमन्त्रे प्रभो ॥ ३६॥ आदौ नामैव सर्वागमनिगमगिरामित्थमेकं रहस्यं चैतन्यानन्दरूपं तदनु च भवतो धाम नित्यप्रमोदम् । नित्या ते तत्र लीला तदनु विजयते पूर्णकैवल्यरूपा हंहो त्वद्भक्तिभाजां फलमपि परमं साधनं त्वत्पदाप्त्यै ॥ ३७॥ आबाल्याद्रामचन्द्र त्वमिह विहितवानुद्धृतिं जीवराशे स्तामप्युद्गाय लोकाः प्रभुवर भवितारः किमग्रे न तद्वत् । एषा ते राघवेन्द्रो जगति विजयते जीवजातेऽनुकम्पा यस्तां जानाति नान्धः स भवति विधिना वञ्चितो बुद्धिहीनः ॥ ३८॥ ते वर्णाः साधुवर्णाः किमपि रघुपते तत्पदं सत्पदाख्यं तद्वाक्यं साधुवाक्यं तदुपनतपदार्थाश्च ते सत्पदार्थाः । बुद्धिः सा शाब्दबुद्धिस्तदुपरि निगमा आगमाश्च प्रमाणं यत्र श्रीरामनाम्ना तव खलु निहितं स्वात्मनः स्थानमुच्चैः ॥ ३९॥ बह्वालापैश्च किं तैः श्रुतिशतकशिरोभूषणैस्त्वद्यशोभि र्ये राहित्यं भजन्ते त्वदितरदिविषत्कोटिमन्त्राणि भाजः । यत्त्वत्कीर्त्याङ्कितं स्यात् प्रकृतिसुमधुरं दुर्लभं तत्किलैकं वाक्यं त्वन्नामपूतं त्रिभुवनभवनध्वान्तहृद्दीपतुल्यम् ॥ ४०॥ आदौ मध्ये तथान्ते किमपि तव यशो गीयते राघवेन्द्रो साम्ना ऋग्भिर्यजुभिर्मधुमधुरमयायर्वभिः साभिचारैः । कर्म ज्ञानं च शश्वन्मुखरमुखतया वर्णयन्तोऽपि चामी स्वाभाविक्यां क्रियायां तव महिमनिधेर्ज्ञानशक्तौ च शक्ताः ॥ ४१॥ आदौ यत्राग्निहोत्र गदितमथ हरे पूर्णमासः सदर्श श्चातुर्मास्यं पशुश्चाखिलफलकरणप्रक्रमोदारकर्मा । ज्योतिष्टोमाख्य उच्चैस्तदुपरि विहितः सोमपीथक्रियावा नग्निष्टोमः स एवं विलसति भवतो वर्ष्म यज्ञस्वरूपम् ॥ ४२॥ आदौ त्वं पञ्चधा भूस्तदनु च पुरुषो द्वादशात्मा प्रदिष्टः साङ्गोपाङ्गः सकाण्डः क्रमिककृतिमयः कोऽपि पूर्वः परोऽन्यः । विध्यर्थोल्लापमन्त्रैरविरतमुदितो नामधेयैश्च तैस्तैः सा ते शक्तिः क्रियाख्या जयति फलवती कोटिशो विस्तृताङ्गी ॥ ४३॥ साम्नामन्तेषु वाक्यैर्नवभिरभिहितं श्वेतकेतूपयुक्तैः पुंसामर्थं चतुर्थ दृढतरचिदचिद्ग्रन्थिभेदेन भान्तम् । एकं ब्रह्माद्वितीयं निरुपमपरमानन्दचैतन्यधन्यं सन्तं सत्तामनन्तं जनितजगदुपादानमात्मानमीडे ॥ ४४॥ साङ्गस्वाध्यायसिद्धौ विधिमतविधिना राधिताराधनीय श्रीमद्राम प्रसादात् तवविमलमनाः शुद्धसत्त्वः शरीरी । जानात्यङ्गीकृताभ्यामुपनिषदि गतौ तद्यथेत्यादिवाक्यैः कार्यत्वानित्यताभ्यां जगदिदमसुखं ब्रह्मसद्मा वसानम् ॥ ४५॥ यत्त्वक्षय्यादिशब्दादवगतमथवापामसोमेतिवाचा तत्त्वाभूतादिवाक्यानुमतमनशनं दीर्घकालस्थितत्वम् । इत्थं दोषानुषङ्गं विषयसमुदये पश्यतो मुख्यपुंसः स्वैरं स्वैरं विरक्तिर्भवति बलवती भुक्त्युपेक्षैकमूर्तिः ॥ ४६॥ शान्तो दान्तस्तितिक्षुस्तदनु च परमां मुक्तिमेवेहमानो विक्षेपा क्षुण्णचेताः श्रुतिशिखरमतारम्भविस्त्रम्भशाली । आपातज्ञातरूपं परिहृतनिखिलानर्थमानन्दसान्द्रं सत्यज्ञानाद्वितीयं विविदिषतितरां ब्रह्मजिज्ञासुवृत्तिः ॥ ४७॥ शुद्धिः श्रीयन्त्रजातामृतरसविषयस्नेहधाराभिषिक्ते सज्जिज्ञासानुवृत्त्या समुचित दशया सङ्गते चित्तपात्रे । हंसा यावत् कषायाम्बरनिहितकरं दर्शयन्ती न वेला तावन्नाभाति गर्भाश्रयतिमिरभरभ्रंशनज्ञानदीपः ॥ ४८॥ संन्यासं केचिदूचुः श्रवणविधिविनिश्चीयमाने विचारे नानाकर्मानुबन्धव्यपनयनमुखेनाङ्गतामाददानम् । इन्द्रादेः प्राग्भवीयं कथमपि निहितं चातुरैरेनमन्ये मन्यन्ते ज्ञानजन्मप्रतिभटदुरितध्वंसनेन प्रधानम् ॥ ४९॥ तस्मात् संन्यस्तकर्मा विधिवदपि शिखायज्ञसूत्रं विमुञ्चन् कौपीनाच्छादनार्थ वसनमशिथिलग्रन्थि शाणं वसानः । बिभ्राणो वेणुमेकं यदि मनसि रुचिर्भिक्षया कुक्षिपात्रं कुर्वाणः पूर्णमुच्चैर्विपिनमधिवसन्नीहते ब्रह्मचिन्ताम् ॥ ५०॥ न्यायाभासोत्तराणामपरमुनिगिरामन्तरे सन्दिहानः कृष्णद्वैपायनोक्त्या परिचितविषयैरन्यथासिद्धिशून्यैः । षड्भिस्तात्पर्यलिङ्गै रथमुपनिषदामन्वयं ब्रह्ममात्रं शुश्रूषुः सानुकम्पं गुरुमनुसरति श्रोत्रियं ब्रह्मनिष्ठम् ॥ ५१॥ भाषाग्रन्थात् स्वतो वा समुदयति सति ज्ञानमस्मादयोगं पक्षे प्राप्तं निरस्यन्नियमविधितया श्रावणं वाक्यमेके । जल्पन्त्यन्ये तु नेदं विधिरपि तु तथा ज्ञानमात्रार्थकत्वा त्तार्तोयीकं तु कश्चिद्विधिमनुमनुते वारयेद् यत्नमन्यम् ॥ ५२॥ अद्वैतात्मन्यशेषश्रुतिशिखरगतिं तत्परत्वेन बुद्ध्या निःशङ्कं मानमेकं मनसि च विमृशन्नत्र विज्ञोपदेशात् । श्रौतज्ञानानुकूलं तदपि गुरुकृपासिद्धसंस्कारशुद्धि भूयस्तं युक्तितोऽपि स्वयमनुमिनुते मेयशङ्कां विहन्तुम् ॥ ५३॥ रंहत्यंहीरितानां मुहुरिह कलयन्नेष गत्या गतीना मुत्क्रान्तिक्लेशगर्भाशयविविधदशादुःखसम्भेदभाजाम् । द्वेषावेशप्रगल्-भं विषयसुखपरिष्वङ्गवैमुख्यमाय न्नात्मध्यानं विधत्ते चिरमनुविरतं भाग्यवानादरेण ॥ ५४॥ धाराध्यानानुभावादपचितिमितवानन्यथा भावनायाः सम्प्रज्ञाते समाधौ नियमितहृदयः सम्यगासन्नयोगः । प्रत्यूहव्यूहभङ्गे श्रवणमुखभवत्संस्कृतिस्वान्ततोयं हन्ताद्वैतं महात्मा निगमपरिचितं पश्यति ब्रह्मतत्त्वम् ॥ ५५॥ नव्यापूर्वौ विरुन्धन् न परिणतपुराकर्मसन्दोहदाही प्रारब्धस्यानुरोधादणुविपुलतनूमूलमाया ममृद्नन् । भिन्दन्नज्ञानदोषावरणमयतमोदत्तसर्वज्ञभावो ब्रह्मालोके विधत्ते कतिपयसमयान् योगिनो गौणमुक्तिम् ॥ ५६॥ वृत्तिर्ब्रह्मावलम्बा सकलफलभुजेरन्ततो जायमाना मायोच्छित्त्या प्रधानं कलयति परमानन्दरूपापवर्गम् । पुंसो ब्रह्मत्वमेको वदति तदपरश्चेश्वरत्वेन सत्तां श्रीव्यासो मुक्तिमात्रे प्रथममपि परां तास्विदानीन्तनीषु ॥ ५७॥ इत्येवं ज्ञानमुदितं ब्रह्ममायावलम्बनम् । फलाढ्यं त्वत्स्वरूपं तत् सर्ववेदान्तवर्णितम् ॥ ५८॥ भवबन्धविनिर्मुक्तौ ज्ञानशक्तिस्तव प्रभो । अधिकं यश एवेदं वेदवेदान्तवर्णितम् ॥ ५९॥ ब्रह्मापि तव रामेन्दो महिमैव सनातनः । यस्मिन् प्रतिष्ठितो नित्यं कविभिश्चारु वर्ण्यसे ॥ ६०॥ भूयः शक्तिद्वयापेतस्त्वं पूर्णः पुरुषोत्तमः । सर्वां रसमयीं लीलां प्रवर्तयसि सन्ततम् ॥ ६१॥ अयं वापि तव श्लोको गीयते व्रजमण्डले । सहजानन्दिनीयुक्तस्त्वं यत्रैव विराजसे ॥ ६२॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पूर्वखण्डे षड्गुणोपाख्याने यशोव्याख्यानं नाम चतुर्नवतितमोऽध्यायः ॥ ९४॥

श्रीव्याख्यानम्

ब्रह्मोवाच । अथ श्रियं प्रवक्ष्यामि रामस्य श्रीपतेर्द्विज । यया संशोभितं नित्यं रघुराजनिकेतनम् ॥ १॥ पुरग्रामव्रजारण्यदेशवेषावलम्बिनी । श्रीविग्रहावलम्बा श्रीर्बहुधैवानुवर्ण्यते ॥ २॥ पुरं तदुत्तुङ्गविशालसौध शिरः प्रविन्यस्तसुवर्णकुम्भम् । प्रत्युप्तरत्नोद्भवया स्वभासा नक्षत्रलोकं पिदधद्विभाति ॥ ३॥ प्रासादतुङ्गवलभीविविधोपक्लृप्त वातायनौघविवरान्तरनिर्गतानाम् । यच्चित्रशालमणिरत्नमयूखभासां सन्दोह आक्रमति राजपथं समन्तात् ॥ ४॥ गावो हरिन्मणिविशेषसमूहक्लृप्त निर्यूहदीवितिषु च तृणसम्भ्रमेण । उद्ग्रीविकां किमपि कुर्वत इत्युदीक्ष्य नृत्यन्ति कौतुकवशेन हि यत्र बालाः ॥ ५॥ स्त्रीणां विलासभवनेषु मनोजकेलि सङ्ग्रामसन्त्रुटितमौक्तिकरत्नवृन्दैः । कीर्णैरुषः सुगृहमार्जनिकानिरस्तैराढ्या भवन्ति कणभिक्षजुषोऽपि यत्र ॥ ६॥ सायं प्रदीप्तशुभदीपमनोहरेषु सानन्दसर्वमनुजेषु निकेतनेषु । श्रीःपर्यटत्यविरतं भृशमात्मवत्ता मन्वेषयन्त्यखिलपौरजनेषु यत्र ॥ ७॥ मञ्जीरमञ्जुलनिनादविशेषवत्यः काञ्चिज्झणज्झणितकौतुकितस्वचित्ताः । क्रीडन्ति यत्र कमला इव पद्महस्ता द्वारेषु मुग्धहृदया हरिणीदृशो वै ॥ ८॥ श्रीरामचन्द्रविपुलोर्जितकीर्तिगाथा दैनन्दिनानुचरितानि मनोहराणि । गायन्त्य उन्नततरेषु निकेतनेषु सम्मोहयन्ति सुदृशोऽप्सरसां मनांसि ॥ ९॥ श्रीः सञ्चरत्यविरतं प्रतिसद्म यत्र रत्नाङ्घ्रिपूरसविशेषरवानुलक्ष्या । छायावशादनुमिता करपङ्कजस्य छत्रस्रुतैर्मणिगणैरवनौ किरन्ती ॥ १०॥ आनन्दवान् दशरथो नृपतिः कुमार कीर्तिव्रजं कथयतां विदुषां गणेभ्यः । शश्वद्ददाति मणिहेमविभूषणानि रत्नानि पूरयति तानि गृहाणि लक्ष्मीः ॥ ११॥ श्रीजानकी विरचयत्यनिशं सपर्या साध्वीगणेन सह यत्र वसिष्ठपत्न्याः । स्वच्छैरलङ्कृतिभरैर्वसनाङ्गरागै र्मन्दारमाल्यनिवहैः शुभभोजनैश्च ॥ १२॥ ता आशिषः प्रतिपदं विदधत्यमुष्यै साकेतलक्ष्मि बहुभाग्यवती भवेति । आदाय याः स्ववसनाञ्चलरोपणेन भूयः पदोः पतति सा प्रसभं सतीनाम् ॥ १३॥ सीतास्वयंवरकथां निमिचन्द्रलक्ष्मीं श्रीरामचन्द्रभृगुवर्यरणप्रसक्तिम् । तद्वीर्यसंहरणिकामुपवीणयन्ति यत्रोत्सुकेषु पुरवासिषु किन्नरेन्द्राः ॥ १४॥ धर्मध्वजाः किमपि यत्र जयन्ति पौरा येषां गृहेषु सकृदेव धनाभिलाषात् । द्वाराणि नान्यधनिनां मुहुरुव्रजन्ति पूर्णाशिषामुपगता निजजन्म यावत् ॥ १५॥ चित्रोपक्लृप्त रचनारुचिरेषु यत्र प्रासादश‍ृङ्गसदनेषु सुखस्थितानाम् । नानाविधद्युतिमतां विहगोत्तमानां वर्णभ्रमो भवति चित्रनिरीक्षणानाम् ॥ १६॥ रत्नाङ्गणेषु धनिनां तिमिराकुलासु रात्रीषु यत्र निहिताः शुभदीपलेखाः । मन्दीभवन्ति किरणैरधिकप्रकाशै रभ्युद्गतैस्तलत ऊर्ध्वगतैर्नभोऽन्तम् ॥ १७॥ कल्पद्रुमैः परिवृतेषु च निष्कुटेषु गुञ्जन्ति यत्र सततं समदा मिलिन्दाः । एकीभवन्ति ललितेन कलस्वरास्ते मन्दोपनादितमनोहरवल्लकीभिः ॥ १८॥ यत्रापणेषु वणिजां बहुलाभभाजां मूर्ताः स्थिता नवनवा निधयो नवापि । दृश्यन्त इत्युदितमासु निशम्य यक्षा यक्षाधिपश्च वचनात्सहसोपयान्ति ॥ १९॥ स्वप्नेऽपि नाधिरिह वासवतामुदेति व्याधिर्न च श्रुतिपथं क्वचिदभ्युपैति । श्रीरामचन्द्रमुखचन्द्रनिरीक्षणेन नित्योत्सवानि दिवसानि नॄणां प्रयान्ति ॥ २०॥ कम्पः केतुषु निम्नगत्वमुदके दौर्बल्यमश्वानने दुःखं द्वेषिकुले हिरण्यविरहः स्तोमेषु तुष्टात्मनाम् । विश्लेषप्रभवा रुजश्च रजनौ नो मानुषेष्वस्ति तत् तस्मिन् भर्तरि यौवराज्यपदवीमध्यासमाने श्रियः ॥ २१॥ देशान्तरात् कविजना धनलिप्सयामु मभ्येत्य यावदुपयन्ति सभानिषण्णम् । तावत्कुटुम्बजनदूत मुखादुदन्तं श‍ृण्वन्ति सद्मनि महामणिहेमवृष्टेः ॥ २२॥ येष्वद्रिगर्भविवरेषु कदापि नैव दृष्टा खनिः कनकरूपमहाधनानाम् । तेष्वेव ताः खलु निरीक्ष्य बभूव नॄणा माश्चर्यमभ्यधिक्रमुद्रितराजभागाः ॥ भूमावनुप्तमपि धान्यमुदाविरासीत् सूर्यातपं प्रतिनिरोद्धमभूत्पयोदः । उप्तं च तावदभवत् फलपाकशालि यावद्गृहीतुमलसाः कृषिका बभूवुः ॥ २४॥ देशोऽखिलः कनकरत्नविराजिभूषा सन्दोहवद्भिरनिशोत्सवमङ्गलाढ्यैः । नारीगणैर्नरगणैः शुशुभे विशेषात् स्वर्गो यथा ससुखपीतसुधैः सुरौधैः ॥ २५॥ राजा स्वयं दशरथः सुखसम्पदाढ्यो रामो निदेशमनुतिष्ठति तस्य नित्यम् । कार्यं च सर्वमनुतिष्ठति लक्ष्मणादि भ्रातृत्रयं किमपरं सुखमीदृगस्ति ॥ २६॥ लोकत्रयी दशरथस्य परां समृद्धि मुद्वीक्ष्य पुत्रधनदारविशेषजुष्टाम् । प्रत्येकमात्मसदनेषु समोदमूचे श्रीरामचन्द्रगुणगानविशेषहृष्टा ॥ २७॥ लोका ऊचुः । जानीथ तद्दशरथस्य नृपेश्वरस्य पूर्वप्रभूतमतुलं सुकृतं विशिष्टम् । यद्देवदानवरणे विषमे सुराणां साहाय्यमाचरितमस्य भुजद्वयेन ॥ २८॥ के के न निर्भयपदं समवाप्य देवा दैत्यव्रजं जितवते रघुपुङ्गवाय । अस्मै न वै दशरथाय शुभाशिषोऽदु र्यासामयं समभवद्भविको विपाकः ॥ २९॥ सङ्ग्रामभूमिगत एष दुरासदानां देवद्विषां भुजबलेन बलं जहार । वन्दीः स्वयं दिविषदां खलु मोचयित्वा तासां शुभाशिषमुवाह बहुप्रकाराम् ॥ ३०॥ इत्याद्युपप्लवगणात् सततं प्रजाः स्वाः संरक्षणं स्वयमसौ नृपतिश्चकार । एतास्तदेनमतुलाधिकसत्फलाभि राशीर्भिरेधयितुमुत्कलिकामबिभ्रत् ॥ ३१॥ स्वेष्वाश्रमेषु मुनयो दितिजैर्द्विषद्भि रुद्वेजितास्तपसि विघ्नहता बभूवुः । तानेव सुस्थहृदयानकरोन्नरेन्द्रः प्रायुञ्जताविरतमत्र शुभाशिषस्ते ॥ ३२॥ साध्यो निजव्रतविलोपभयात् सशोका दैत्येषु यौवनधरेषु विवृद्धिमत्सु । एतस्य विक्रमगुणैरभवन् विशोका स्ता आशिषः समपुषन्निह दुष्टजैत्रे ॥ ३३॥ येऽन्ये तपस्विन उदीर्णमुनिव्रता वै गार्हस्थ्यधर्मनिरता निहिताग्निहोत्राः । स्वास्थ्यं चकार नृप एष स तेषु योग क्षेमादिसम्भृतिभिरुद्यदुदारवृत्तः ॥ ३४॥ मर्त्या मृगा अपि खगाः पशवस्तथान्ये दीना गवादय उदीत भयाः परेभ्यः । तेषामसौ सुविपुलाभयदानदक्षः स्वस्वक्रियाकुशलताकरणो नरेन्द्रः ॥ ३५॥ ते सर्व एव नृपतेरुदयप्रकर्षं वाञ्छन्त आशिषमजस्रमुदीरयन्ति । तस्यैतदेवमुदितं फलमुद्विभाति यद्रामचन्द्रसदृशास्तनया जयन्ति ॥ ३६॥ रामो जगज्जनविलक्षणवृत्तशील स्तादृक् च लक्ष्मण उदारगुणाम्बुराशिः । अन्यौ तथैव भरतोऽपि च शत्रुसूदः सर्वेऽप्युदारचरिता भरिता गुणौघैः ॥ ३७॥ जीवन्तु ते चिरममी नृपतेरुदारै रत्युन्नतैर्भवविलक्षणभागधेयैः । कल्याणकोटिसुकृतार्जनसम्भवानां साकेतपत्तनजुषां च निजप्रजानाम् ॥ ३८॥ एतैः सुपुण्य चरितैस्त्रिदशापगा च । त्रैलोक्यपावनसमृद्धविशिष्टशीलैः । सर्वे जनाः सुकृतिनः खलु सम्बभूवुः श्रीमन्मुखेन्दुपरिदर्शनभूरिभाग्याः ॥ ३९॥ श्रीराघवेन्द्रचरितामृतपूर्णधारा नित्यावगाहसुविशुद्धमनो वपुष्काः । साकेतवासिन इमे मनुजाः स्वभाग्यै र्धन्या इति त्रिभुवनं परिशोभयन्ति ॥ ४०॥ भूमण्डलस्य खलु कीर्तिरसावयोध्या यत्रास्ति पुण्यचरितः पुरुषः पुराणः । अंशैश्चनि (तु) र्भि रभितो भुवनं समस्त मुद्दीपयन् दिवसनायकवंशदीपः ॥ ४१॥ हंहो वयं खलु निजानि निकेतनानि हित्वा वसाम रघुनाथपुरीमुपेत्य । यत्रेन्दिराप्रतिगृहं परिबम्भ्रमीति हस्तारविन्दरुचिभिर्भुवि रञ्जयन्ती ॥ ४२॥ किं वर्णनीयमथ वक्त्रसहस्रकेण साकेतवासिजनतालिकपट्ट भाग्यम् । त्रैलोक्यमेव खलु भाग्यसमृद्धिमद्य च्छ्री रामचन्द्रजनुषा शुभसम्भृतेन ॥ ४३॥ या श्रीः स्वयं वसति सुस्थिरभावमाप्ता वैकुण्ठसद्मनि समस्तगुणैरुपेता । सा स्वात्मनो दयितमेनमिहावतीर्ण विज्ञाय तिष्ठति रघूत्तमराजधान्याम् ॥ ४४॥ येष्वाशयेषु पयसां न कदापि पद्मा स्तेष्वत्र पद्म कुलसम्पदभूतपूर्वा । मुक्ताफलानि च भवन्ति वृहत्तमानि केलिं तथा विदधते खलु राजहंसाः ॥ ४५॥ इन्द्रालयेऽपि न तथा सुविभाति शोभा न ब्रह्मसद्मनि न वा खलु भोगवत्याम् । साकेतवासजुषि नीचतरेऽपि वर्णे यादृक् बभूव नरकिन्नरवीक्षणीया ॥ ४६॥ धिक् तस्य जन्म विधिसृष्टिमुपेत्य येन स्वप्नेऽपि नैव समवापितमक्षिमार्गम् । साकेतनामनगरं सरयूतरङ्ग संशीलितानिलसमागमपूतलोकम् ॥ ४७॥ सैवाद्भुता पुलिनभूः सरयूतटिन्याः पानीयपुष्टदृढमूलमहावनाढ्या । नो वासवस्य नगरी हरिचन्दनाद्यै र्वाञ्छानुरूपफलितैः परितः परीता ॥ ४८॥ किं पारमेष्ठ्यपदवीं समुपेत्य कार्यं धन्यैव सा तृणजनिः सरयूतटान्ते । यस्यां दुरापमपि तत्सुलभं शिशुत्वे क्रीडद्रघूत्तमकुमारपदारविन्दम् ॥ ४९॥ प्राज्यं स्वर्लोकराज्यं सुरवरवनिता पाणिपद्मोपगूढ प्रोदञ्चच्चामरान्दोलनगतसुरतस्वेदखेदं विहाय । श्रीमत्साकेतपुर्याः परिसरसरयूसंसरत्तुङ्गवीची नीचीभूतैकदूर्वादलमहिमदशामात्मनः कामयामः ॥ ५०॥ धन्या सा मल्लिवल्ली किमपि दिविषदामप्यलभ्यैस्तपोभि र्भूयो भाग्यैरयोध्यापुरगतसरयूसैकतान्ते प्ररूढा । यस्याः पुष्पावलीभिर्विरचितमतुलं मण्डनं मैथिलीस्वै रङ्गैर्नित्यं विभर्ति प्रियतमनयनानन्दसन्दोहदात्री ॥ ५१॥ धन्यास्ते राजहंसाः सुविशदसरयूतोयसंसारशीलाः येषां लोलाञ्चितानि स्वयमनुकुरुते मैथिलेन्द्रस्य पुत्री । ये वास्याः पादपद्माभरणमणिगणक्वाणमाकर्ण्य तुष्टा स्तादृक्शिक्षावशेन स्वयमपि दधते मञ्जुलालापलीलाम् ॥ ५२॥ धन्यास्तेऽमी मयूराः सुरुचिरसरयूकूलकुञ्जे वसन्तो नीलां प्रावृड्घनालीमपि निजमनसा सन्त्यनादृत्य तुष्टाः । येषां चक्षुः प्रमोदं विरचयति सदा कोऽपि रामाभिधानः पीयूषाम्भोद उच्चैर्जनकनृपसुताविद्युदालिङ्गिताङ्गः ॥ ५३॥ धन्यास्ते चञ्चरीका विकसितसरयूकूलकुञ्जद्रुमाणां येषां चित्तस्य नाभूत् सुरतरुकुसुमामोद आनन्दहेतुः । क्रीडार्थं सङ्गताभ्यां प्रतिसमयसुखं मैथिलीराघवाभ्यां येषां घ्राणानि नित्यं निजतनुविलसत्सौरभैः सम्भृतानि ॥ ५४॥ इति श्रियं वर्णयतामयोध्यापुर्यास्तदावासिजनैकलभ्याम् । मनांसि तेषां मुमुहुः समन्ताल्लोकत्रयस्थानजुषां जनानाम् ॥ ५५॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पूर्वखण्डे षड्गुणोपाख्याने श्रीव्याख्यानं नाम पञ्चनवतितमोऽध्यायः ॥ ९५॥

ज्ञानव्याख्यानम्

ब्रह्मोवाच । आख्याता रामचन्द्रस्य कीर्तिर्वेदोपवर्णिता । अथ ज्ञानं प्रवक्ष्यामि साक्षाद्ब्रह्मनिदर्शनम् ॥ १॥ अलौकिकानुभावेन ज्ञात्वा परमपूरुषम् । रामचन्द्रं मुनिगणाः उपजग्मुः ससम्भ्रमम् ॥ २॥ राज्यसंहासनासीने नृपाणां महतां गुरौ । देवे दशरथे सर्वे मुनयः समुपाययुः ॥ ३॥ कश्यपोऽत्रिर्वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा भृगुरोजस्वी दुर्वासा गर्ग एव च ॥ ४॥ कौण्डिन्यश्च्यवनो योगी विश्वामित्रोऽथ देवलः । शाङ्ख्यायनस्तथा शङ्खो लिखितः कण्व एव च ॥ ५॥ अगस्त्यश्चासितो विष्णुः शर्कराक्षो दृढव्रतः । वामदेवः शुकः शान्तः सुतीक्ष्णश्च पराशरः ॥ ६॥ विदो वत्सो जामदग्न्यो जमदग्निस्तपोनिधिः । सुकलश्च भरद्वाजो मुद्गलो धौम्य एव च ॥ ७॥ सुवर्चाः सौविदः पैलः शातनिः शाकटायनः । सङ्कराक्षः शमीकश्च ऋष्यश‍ृङ्गो महामुनिः ॥ ८॥ कणादः कपिलो व्यासो गौतमश्च पतञ्जलिः । जैमिनिः पिप्पलादश्च शाण्डिल्यो मुनिपुङ्गवः ॥ ९॥ वरतन्तुर्वरेण्यश्च नारदाद्याः सुरर्षयः । ब्रह्मर्षयस्तथा सर्वे दिव्यज्ञानविलोचनाः ॥ १०॥ वशिष्ठमग्रतः कृत्वा सर्व एव समाययुः । तेषामासनपाद्यादिविधिभिर्नतकन्धरः ॥ ११॥ सपर्या महतीं चक्रे राघवो धर्मवित्तमः । पूर्वं दशरथं सर्वे उपसन्ना मुनीश्वराः ॥ १२॥ ततः कौतूहलाक्रान्ता रामं ददृशुरद्भुतम् । ते रामेणाद्भुतां पूजां कृत्वा समभिवादिताः ॥ १३॥ सहर्षं च ततः पृष्टाः शुद्धान्तं नृपतौ गते । महता सम्भ्रमेणैव जातहर्षाः पुराविदः ॥ १४॥ श्रीराम उवाच । उन्नतं नः पितुर्भाग्यं रघुवंशस्य सर्वशः । आतिथ्यं यस्य गृह्णन्ति ज्ञाननेत्रा भवादृशाः ॥ १५॥ योगिनो वेदवेदान्तविदो निर्धूतकल्मषाः । विश्वस्य गुरवः साक्षान्मौनव्रतपरायणाः ॥ १६॥ पुराविदो विधिज्ञाश्च ज्ञानविज्ञानदृष्टयः । ब्रह्मादीनां दिविषदां पूजनीयाः समन्ततः ॥ १७॥ यूयं वेदविदः सर्वे स्मृतिभिर्धर्मवर्तकाः । सङ्गता यस्य सदनं स धन्यो गृहवान् नरः ॥ १८॥ जगतः कुशलार्थाय तीर्थानां करणाय च । परिभ्रमथ मेदिन्यां पूज्यो देशः स सर्वदा ॥ १९॥ यत्र तिष्ठन्ति कार्येण मुहूर्तमपि योगिनः । परावरविदः साक्षाद्योगिनो ब्रह्मदर्शिनः ॥ २०॥ कच्चिद् वः कुशलं दिव्येष्वाश्रमेषु तपस्विनः । धर्मकर्मैकहेतूनां जलादीनां सुपुष्कलम् ॥ २१॥ कच्चिद् वः प्राकृतैर्लोकैः कामलोभेन सङ्गतैः । एकान्तिकासनसदां नोपप्लावित आश्रमः ॥ २२॥ कच्चिद् वस्तपसामौग्र्यं प्रविलोक्यासहिष्णुना । इन्द्रेण नेर्येते विघ्नो रम्भादीनां प्रदर्शनैः ॥ २३॥ कच्चिद् वो यजनाद्यासु क्रियासु बहुलासु च । अशान्तेन समीरेण वने नोद्विज्यते मनः ॥ २४॥ कच्चिद् वः स्वाश्रमवरेष्वारण्यैर्वारणादिभिः । न भज्यन्ते न पीड्यन्ते तरवो धर्मसिक्तकाः ॥ २५॥ कच्चिद् वः स्वाश्रमवरेष्वविप्रस्तपसो बलात् । साधर्म्य समुपाश्रित्य विषादादि करोति न ॥ २६॥ कच्चिद् वः कुशलिन्यस्ताः कामधेनुसमत्विषः । अग्निहोत्रादिसौकर्यसाधिकाः किल धेनवः ॥ २७॥ कच्चित्तासामपत्येषूपद्रुतेष्वितरैर्मृगैः । तपस्तेजःस्वभावेन युष्माकं नाभवद्रुषा ॥ २८॥ जनानां कुशलं येभ्यः शान्तिश्च क्रूरचेतसाम् । तेषां वः कृतिनामेतदपृछ्यमपि पृच्छ्यते ॥ २९॥ यतोऽहमादेशकरो युष्माकं ब्रह्मदर्शिनाम् । वाञ्छाम्यनुग्रहं शश्वत् किञ्चिदाज्ञाविशेषतः ॥ ३०॥ यदाज्ञापयथ प्रेष्यं शश्वदाज्ञाकरं च माम् । तत्करोमि मुनीशानाः सकृद्वचनमात्रतः ॥ ३१॥ भवतां हि तपोविघ्नो विघ्नो भुवनसम्पदाम् । अतस्तिष्ठथ सौख्येन आश्रमेषु मुनीश्वराः ॥ ३२॥ एषोऽस्माकं पिता देवो भवतामेव सिद्धिजाम् । राज्यश्रियमुपाश्रित्य शक्तो भुवनरक्षणे ॥ ३३॥ इति श्रीरामचन्द्रस्य निशम्याभ्युदितं वचः । वक्तुं सर्वे मुनोशाना वशिष्ठं समचोदयन् ॥ ३४॥ तेषामिङ्गितमाज्ञाय वशिष्ठो ज्ञानलोचनः । उवाच वचसा रामं तोषयन् विदुषांवरः ॥ ३५॥ श्रीवशिष्ठ उवाच । वर्वर्ति सर्वतो वार्तं त्रैलोक्यस्यैव सुव्रत । विशेषतस्तापसानामस्माकं त्वयि राजति ॥ ३६॥ पिता तव जगद्रक्षादक्षिणो धर्मवित्तमः । उन्मार्गगामिनां नॄणां नित्यं दण्डयिता बलात् ॥ ३७॥ यूयं हि राघवाः साक्षाद्धर्मरक्षाविचक्षणाः । मान्धातृसगरादीनां लोके प्रोद्दीप्यते यशः ॥ ३८॥ तेषां वंशे भवान् जातो रघुवंशैकभूषणः । जगतां तनुषे तोषं मुनीनां नो विशेषतः ॥ ३९॥ अप्येकः सम्भ्रमो ह्येषां योगिनां ज्ञानचक्षुषाम् । भवन्तमिह विज्ञाय ह्यवतीर्ण परात्परम् ॥ ४०॥ केनचित् कालकल्पेन पौलस्त्येन महौजसा । रक्षांसि सुसमृद्धत्वं प्रापितानि विशेषतः ॥ ४१॥ अतस्तेषां विनाशाय कालरूपी दुरासदः । अवतीर्णोऽस्यमेयात्मन् साक्षाद्रामेति यो भवान् ॥ ४२॥ इतिविज्ञाय मुनयः सर्वे त्वां समुपागताः । अवाप्तुमतुलं ज्ञानं कर्मोपास्तिफलात्मकम् ॥ ४३॥ अनेकैरद्भुतैर्लिङ्गैर्भवान् ब्रह्मैव केवलम् । तत्पदं परमं सूक्ष्ममव्यक्तात् परतः स्थितम् ॥ ४४॥ इति सामान्यतो ज्ञात्वा मुनयस्त्वामुपागताः । सर्वोपनिषदां गुह्यं सारमर्थं विवेचितुम् ॥ ४५॥ यथाधिकारं सकलैर्भवानाश्रीयसे प्रभो । धर्मार्थिनस्त्वां धर्मार्थं सन्ततं पर्युपासते ॥ ४६॥ अर्थार्थिनस्तथार्थाय कामाय च तदर्थिनः । मुक्त्यर्थिनो जनाः शश्वन्मुक्त्यै त्वामेव संश्रिताः ॥ ४७॥ तेषां वयं रामचन्द्र भवबन्धविमुक्तये । आपन्नाः शरणं शश्वदितिप्राप्ताः स्म योगिनः ॥ ४८॥ ज्ञानिनां यल्लयस्थानं सन्ततं ब्रह्मदर्शनम् । तद्भवान् विदितो राम किमुपेक्ष्योऽस्यतः परम् ॥ ४९॥ स्वात्ममायामुपाश्रित्य मोहयन् जगतो दृशम् । परं ब्रह्म सुखाकारं सुखाकारेण राजसे ॥ ५०॥ इति विज्ञाय मुनयस्त्वां लिङ्गैरेव तादृशैः । भवन्तं शरणं प्राप्ता यथेच्छसि तथा कुरु ॥ ५१॥ श्रीराम उवाच । किमेष व्यवसायो वः समभून्मुनिपुङ्गवाः । यदेतादृश्यभूद् बुद्धिः क्वापि नैतादृशी भवेत् ॥ ५२॥ व्रजन्ति यत्कर्मभिराप्तकामा स्तथा परोपासनया च यत्तत् । ज्ञानेन साक्षात्क्रियते भवादृशै रात्मस्थितं ज्योतिरनन्तबोद्ध्यम् ॥ ५३॥ स्वानन्दसम्पत्समुपैति यस्मिन् विश्वं समस्तं विनिमीलयन्ती । योगेन तद्वो हृदये प्रकाशं ब्रह्माभिधं ज्योतिरनन्तमेकम् ॥ ५४॥ अजस्रमुन्मीलितयोगदृष्टि प्रव्यक्तमव्यक्तपरं महस्तत् । उपास्यते विश्वगुरोर्विशेषाद जस्रमेव प्रयतैरमीभिः ॥ ५५॥ अतः परं किं नु परं प्रमृग्यते तत्त्वम्पदौत्कण्ठयधियोऽत्र सङ्गताः । न ज्ञानतोऽन्यत्किमपीह साधनं तद्वो लभन्ते दृशिमात्रतो जनाः ॥ ५६॥ न योगतोऽन्यः खलु कोऽपि यत्नः स चास्ति वः शिष्यसुशिष्यशिष्यगः । किमन्यदादातुमुपागता वै मदीयमागारमुदारवृत्ताः ॥ ५७॥ ब्रह्मोवाच । सर्वेषां मुनिमुख्यानां मतमादाय तत्क्षणे । जिज्ञासामनुनिर्णीय वशिष्ठः प्रत्युवाच तम् ॥ ५८॥ वशिष्ठ उवाच । सत्यमात्थ प्रभो राम नूनं तादृशमेव तत् । ब्रह्मणो दर्शनं नाम योगादिभिरवाप्यते ॥ ५९॥ ततश्चापि परं तत्त्वं वयं विविदिषामहे । प्राह विश्लेषवेलायां व्रजदेवीषु यद्भवान् ॥ ६०॥ देव्यो हि ता व्रजभुवस्तव रूपराशेः सौन्दर्यसारमकरन्दभरप्रमत्ताः । ईषद्वियोगमपि सोढुमशक्नुवन्त्य स्तत्त्वं तदेव परिचीय चिरेण तस्थुः ॥ ६१॥ शय्यासनादिषु कदापि निमेषमात्र मन्तर्धिमेत्य हृदि कल्पसमं विजज्ञुः । ता एव गोपसुदृशः कथमन्यथा त्वां पारेपरार्द्धगुणराशिमृतेऽधितस्थुः ॥ ६२॥ एतद्धि तत्त्वदुपदिष्टसुसूक्ष्मतत्त्व ज्ञानप्रभावजनितामलभावभाजाम् । तासां मनस्त्वनुमिमीमहि सर्वकाम स्वानन्दसम्पदमृतं परिपोयमानम् ॥ ६३॥ मन्यामहे रघुकिशोर तदेव तत्त्वं यद्विप्रयोगशमनं व्रजसुन्दरीणाम् । तन्नः प्रवक्तुमुचितोऽसि दयाविशेषा देकं ततं यदखिलात्मतयागमेषु ॥ ६४॥ इत्युदीरितमाकर्ण्य मुनीनामूर्द्धरेतसाम् । जिज्ञासावेदिनो वाक्यं वशिष्ठस्य महामतेः ॥ ६५॥ उवाच प्रहसन् रामो वीक्ष्य तान् मुनिसत्तमान् । सन्ततं स्पृहयालून् वै कर्मज्ञानातिगां दशाम् ॥ ६६॥ श्रीराम उवाच । प्रमोदवननारीणामुपदिष्टं मया तु किम् । सहजप्रेमभावेन वशीचक्रुरिमा हि माम् ॥ ६७॥ उपदेष्टव्यमेतासु किचिन्नैवोपपद्यते । एता हि फलसीमानं भजन्ते दशया स्वया ॥ ६८॥ पुष्टः प्रेमा जयति सुदृशां श्रीप्रमोदाटवीषु स्वानन्दाब्धेरुदितममृतं यद्धि संस्वाद्यमानम् । तद्वश्योऽहं क्वचिदपि न ता मङ्क्षु विस्मर्तुमीहे प्राणान् यद्वत्सततमुदितश्चेतसा धारयामि ॥ ६९॥ विरहं वोढुमेतासां नैव शक्तिः कदाचन । इत्यहं नित्यलीलास्थो रमामि स्वजनैः सह ॥ ७०॥ अयं हि दुर्लभो भावो यत्प्रेमा मत्स्वरूपगः । ज्ञानस्य च पराकाष्ठा ब्रह्मतत्त्वावबोधनम् ॥ ७१॥ ब्रह्मतत्त्वस्य सा सीमा यत्तदानन्दनिर्भरः । आनन्दनिर्भरास्यैषा सीमा यत्प्रेम तादृशम् ॥ ७२॥ प्राचीना मुनयोऽनेके ब्रह्मतत्त्वं परं ययुः । एके तेषां दधुः प्रेम मत्कृपादृष्टिवीक्षिताः ॥ ७३॥ सुदुर्लभतमो यस्मात्तादृशो भाव आन्तरः । तस्मादेवैष विरलो मदिच्छामनुरुद्ध्य हि ॥ ७४॥ मद्गोचरश्रवणकीर्तनसेवनादौ यावन्न जायत इहास्य मनः प्रवृत्तिः । प्रेम्णः फला न खलु तावदुदेति साध्वी एकैव सर्वविषयेषु विरक्तिहेतुः ॥ ७५॥ कोऽप्येष रक्तिमगुणः समुदेत्य पूर्व चिद्व्योम यत्समनुरञ्जितमच्छमेव । प्रेमाभिधः स मम पूर्णकृपानुलभ्य स्तं ब्रह्मतत्त्वमनुगच्छति नांशतोऽपि ॥ ७६॥ इतिवस्तत्त्वमुदितं ज्ञानसारं परामृतम् । उपदेशमृते लभ्यं निजाशक्यैकमात्रतः ॥ ७७॥ ब्रह्मोवाच । इत्युक्त्वा भगवान् रामो मुनीनामनुकम्पया । प्रकाशयामास रूपं प्रमोदवनकुञ्जगम् ॥ ७८॥ शुद्धश्यामावदातं वपुषि परिलसत्कञ्जकिञ्जल्कवस्त्रं श्रीमत्पद्मारुणाक्षं सुविलुलदलकश्रीविराजत्कपोलम् । कैशोरभ्राजिवेषं मधुरिमजलधिप्रेमपीयूषवर्यै र्दिक्प्रान्तश्रीविलासैर्मदनविटपिनं स्त्रीषु सिञ्चन्तमन्तः ॥ ७९॥ दोर्भ्यां वंशीं वहन्तं वदनसरसिजा मोदिनीं राजहंसीं बिम्बोष्ठस्निग्धकान्त्या प्रमुदवनवधूमानसं रञ्जयन्तं सम्मुष्णन्तं त्रिभङ्गीललितसुवपुषा लोचनानि प्रियाणाम् । रामं प्रेमाभिरामं ददृशुरनवधि श्रीमदानन्दमूर्तिम् ॥ ८०॥ केचिद्ददृशुरेवैनं बालवेषेण भूषितम् । नवनीतकरं रामं माङ्गल्याविराजितम् ॥ ८१॥ लम्बमानालकभ्राजदाननाम्बुजसुन्दरम् । मञ्जीरचरणाम्भोजं बिभ्रतं कटिमेखलाम् ॥ ८२॥ स्वर्णप्रत्युप्तशार्दूलनखराजितवक्षसम् । अव्यक्तकलया वाण्या मोदयन्तं स्वमातरम् ॥ ८३॥ केचिद् ददृशुरानन्दरूपिणं राममद्भुतम् । कैशोरवेषमधुरप्रसन्नमुखमञ्जुलम् ॥ ८४॥ प्रमोदवनकुञ्जान्तर्निविष्टं प्रियया सह । सर्वसौन्दर्यसदनं रक्षयन्तं स्वकाश्च गाः ॥ ८५॥ श्रीराजवेशमुदितं मोदयन्तं वधूजनान् । कदम्बकुसुमैर्युक्तां वनमालां सुविभ्रतम् ॥ ८६॥ अङ्गुलीयमणिद्योतच्छुरिताधरवंशिकम् । नानाकेलिपरीहासैर्गोपैर्मण्डितपार्श्वकम् ॥ ८७॥ केचिद् ददृशुरुद्भूतराजसम्पत्तिभूषितम् । सिंहासनसमासीनं साकेतपुरमध्यगम् ॥ ८८॥ कौस्तुभोद्भासितग्रीवं मूर्तिमद्भिर्महायुधैः । उपासितं महाकीर्ति योगमुद्राधरं विभुम् ॥ ८९॥ उदारगुणपाथोधिं षडैश्वर्यविभूषितम् । उन्नसं कम्बुकण्ठाढ्यं महामुकुटमण्डितम् ॥ ९०॥ नृत्यद्विद्याधरीवृन्दसभामण्डपमध्यगम् । प्रणतानेकभूपालं प्रसादसुमुखं प्रभुम् ॥ ९१॥ दासीकृतद्विषद्वृन्द नीराजितपदद्वयम् । शिरोमुकुटरत्नांशुमञ्जरीभिः समन्ततः ॥ ९२॥ किङ्कुर्वाणैरनेकाब्धिद्वीपदेश्यैर्नराधिपैः । कृतदास्यरसावासं करुणादृष्टिवर्षिणम् ॥ ९३॥ केचिदात्मतया रामं ददृशुर्योगभावितम् । केचिद् ददृशुरैश्वर्यात् साकेताधिपतिं प्रभुम् ॥ ९४॥ केचिद् ददृशुरौत्क्ण्ठ्यात् सर्वेषां बन्धुवत्स्थितम् । ज्ञानमुद्राधरं धीरं योगिनां हृदयङ्गमम् ॥ ९५॥ यो यथाभावसम्पन्नस्तद्वत्तेन निरीक्षितः । अथैनं तुष्टुवुः सर्वे योगिनः शुद्धबुद्धयः ॥ ९६॥ पुलकाञ्चितवर्ष्माणः सर्व एव मुदान्विताः । बद्धाञ्जलिपुटाः स्थित्वा सर्वेऽद्भुतरसाकुलाः ॥ ९७७॥ मुनयः ऊचुः । नमस्ते ब्रह्मरूपाय पूर्णाय च महात्मने । सच्चिदानन्दरूपाय निजलावण्यभास्वते ॥ ९८॥ अशेषगुणसन्दोहभूषिताय कृपालवे । नानाविधलसल्लीलारसरञ्जितवर्ष्मणे ॥ ९९॥ हेमसिंहासनस्थाय त्रैलोक्यमपि शासते । स्वशक्तिभिः समेताय पुरुषाय महात्मने ॥ १००॥ विश्वसर्गादिकेलीभिर्ब्रह्मादीनां नियोगिने । धौरेयाय श्रिताशेषधर्मपालनशक्तये ॥ १०१॥ परे ऊचुः । नमो रसिकवर्याय कुञ्जभूमिसुकेलये । मुक्ताहारपरीताय परिपूर्णरसात्मने ॥ १०१॥ सर्वोद्धारप्रयत्नाय निजलीलारसात्मने । सर्वविश्रान्तिरूपाय श्रीमद्रामाय ते नमः ॥ १०२॥ अपरे ऊचुः । आविर्भाव्याखिलान् जीवान् कृत्वा च विविधाः स्थितीः । कुर्वते विविधाः केलीः पुरुषाग्र्याय ते नमः ॥ १०३॥ अनवद्याखिलानन्दकल्याणगुणमूर्तये । प्रपन्नकल्पवृक्षाय नमस्ते राघवेन्दवे ॥ १०४॥ अन्ये ऊचुः । अनाद्यनन्तरूपाय निर्गुणाय स्वरूपतः । सच्चिदानन्दरूपाय नमः कैवल्यमूर्तये ॥ १०५॥ वर्जिताशेषरूपाय कल्पनारहिताय च । विश्वारामाय रामाय स्वात्मने ब्रह्मणे नमः ॥ १०६॥ इतरे ऊचुः । विश्वतः पाणिपादाय विश्वतोऽक्षिमुखात्मने । विश्वरूपस्वरूपाय परस्मै ते नमो नमः ॥ १०७॥ अथापि ममतावर्तमग्नोद्धारचिकीर्षया । अङ्गीकृतावताराय तारकब्रह्मणे नमः ॥ १०८॥ ब्रह्मोवाच । इत्येवमेष निभृतं मुनिभिः समस्तै रभ्यर्चितः प्रणतपालनपादपद्मः । सद्यः प्रसादसुमुखो भगवानशेषान् योगीश्वरान् समभिपूज्य शनैरुवाच ॥ १०९॥ श्रीराम उवाच । यद्वस्तपः परिणतं सुचिरेण धीरा स्तेनेदृशी समभवन्मतिरात्मनीना । ज्ञातो यया खलु भवद्भिरहं विशेषान् मायां वितत्य च निजावरिकां स्थितोऽपि ॥ ११०॥ जातोऽधुना सुचिरचीर्णतपोविपाको युष्माकमुत्तमदृशां मम भावभाजाम् । मन्नित्यकेलिविषयां समवाप्य दृष्टिं यूयं रमध्वमतुलप्रमुदाभ्युपेताः ॥ ९११॥ येषां सर्वतपः सिद्धिप्रत्यूहहरणक्षमः । अहं स्थिततमश्चित्ते तेषां चिन्ता न कापि हि ॥ ११२॥ धन्याःस्थ यूयं समभावमेन मवाप्य नित्यं तपसि प्रतिष्ठाः । पूर्ण फलं वः समजायतोच्चै रतः परं तिष्ठत मत्स्वरूपे ॥ ११३॥ ज्ञानं परं ब्रह्मनिदर्शनं य त्प्रपञ्चनिष्ठामतिवर्तमानम् । तस्यापि पूर्ण फलमेतदेव मपिस्थितिर्यद्भवतां प्रयाता ॥ ११४॥ ब्रह्मभावमतिक्रम्य मद्भावं समुपाश्रिताः । विचरन्तु भवन्तो वै परानन्दपदं गताः ॥ ११५॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पूर्वखण्डे षड्गुणोपाख्याने ज्ञानव्याख्यानं नाम षण्णवतितमोऽध्यायः ॥ ९६॥

वैराग्यव्याख्यानम्

ब्रह्मोवाच । एष ज्ञानगुणः प्रोक्तो भगं यत्परमात्मनः । अथ वक्ष्यामि वैराग्यं श‍ृणुष्वावहितो द्विज ॥ १॥ एकमेव हि वैराग्यं श्रीरामस्य गुणात्मकम् । ज्ञानिनां योगिनां चैव वृत्तिभिर्बहुधा ततम् ॥ २॥ आत्मारामस्य रामस्य स्वानन्दैककलाजुषः । ब्रह्मानन्दावधिः सर्वोऽप्यानन्दो नोपरोधकः ॥ ३॥ भुञ्जन्ते योगिनः सर्वे रामानन्दमनेकधा । रामस्वात्मानन्दभोगेऽप्युदासीनवदास्थितः ॥ ४॥ आब्रह्मभुवनाद्यावान् भोग आनन्दगोचरः । सोऽस्य तुच्छवदाभाति पूर्णस्वानन्दरूपिणः ॥ ५॥ एतावद्योगिनोऽप्यस्ति ज्ञानिनश्च विरक्तता । श्रीरामे तु विशेषो यत् स्वानन्देऽपिविरक्तिमान् ॥ ६॥ यथावह्नेर्न सन्तापः सन्तापैकस्वभाविनः । जलस्य न यथा शैत्यं शैत्यमात्रस्वभाविनः ॥ ७॥ तथानन्दस्वरूपस्य रामस्य परमात्मनः । नानन्दो येन रक्तिः स्यात् क्वाप्यस्य परमेशितुः ॥ ८॥ ईशितव्यैर्यथा जीवै रमते रामचन्द्रमाः । तथा न तेषु संरक्ति राप्तकामस्य दृश्यते ॥ ९॥ परब्रह्मस्वरूपस्य पूर्णानन्दपयोनिधेः । इयमेवास्य सततं ह्याप्तकामस्य कामना ॥ १०॥ अथास्य बहुधा वक्ष्ये वैराग्यं नाम सद्गुणम् । यच्छ्रुत्वा योगिनोऽप्याशु विरक्तं जायते मनः ॥ ११॥ ऋषिभिर्बहुधाप्रोक्तं वाल्मीकिप्रमुखैश्च यत् । वैराग्यं रामचन्द्रस्य तत् ते वक्ष्यामि भूरिशः ॥ १२॥ ब्रह्मानन्दमतिक्रम्य प्रेमानन्दवती प्रिया । सा प्रिया कौशिकी नित्यं तां मुञ्चन् नैव बाधितः ॥ १३॥ सुधासुमधुरैर्नित्यं मनःसन्तापहारिभिः । आलापैर्या वशीचक्रे तां मुञ्चन् नैव बाधितः ॥ १४॥ खञ्जरीटकुरङ्गालिचकोरमदहारिभिः । वश्यकृद्रक्तरङ्गैर्या ताम्मुञ्चन्नैव बाधितः ॥ १५॥ राकानिशाकरोद्योतपराभवसमूर्जितैः । राजितैर्मन्दहासैर्या तां मुञ्चन् नैव बाधितः ॥ १६॥ अलकावलिसंवीतैर्मधुरस्मितराजितैः । मुखचन्द्रांशुभिर्भाति तां मुञ्चन्नैव बाधितः ॥ १७॥ भृकुटीकुटिलोभिश्चञ्चलापाङ्गवीक्षितैः । अनन्यप्रेमपात्रं या तां मुञ्चन् नैव बाधितः ॥ १८॥ विम्बीफलारुणद्योतैर्विद्रुमाभैर्मनोहरैः । याधरांशुभिरुद्भाति तां मुञ्चन् नैव बाधितः ॥ १९॥ त्रैलोक्यजयिनो नित्यं पञ्चेषोर्जयहेतवे । यस्याः कम्बुसमः कण्ठस्तां मुञ्चन् नैव बाधितः ॥ २०॥ यस्याः सिन्दूरपूरेण भूषितो मौक्तिकाचितः । नित्यमुद्भाति सीमन्तस्तां मुञ्चन्नैव बाधितः ॥ २१॥ यस्याः सोमन्तरत्नेन निर्जितो मङ्गलग्रहः । करैररुणयत्याशास्तां मुञ्चन्नैव बाधितः ॥ २२॥ पीयूषमधुराम्भोदमसृणः काममोदनः । यस्याः प्रोद्भाति धम्मिलस्तां मुञ्चन्नैव बाधितः ॥ २३॥ यस्याः वेणी समुद्भाति श‍ृङ्गाररसराजिवत् । रक्तसूत्रेण ग्रथिता तां मुञ्चन् नैव बाधितः ॥ २४॥ आदर्श इव कामस्य समुद्भासितदीधितिः । मुखचन्द्रस्तुतो यस्यास्तां मुञ्चन्नैव बाधितः ॥ २५॥ यस्याः सुधासरोद्भूतमृणालसदृशौ भुजौ । राजेते हस्तपद्माभ्यां तां मुञ्चन् नैव बाधितः ॥ २६॥ यस्याः करौ पारिजातलुलत्पल्लवशोभितौ । नैवापगच्छतश्चित्तात् तां मुञ्चन् नैव बाधितः ॥ २७॥ यस्याः कनककुम्भाभ्यां कुचाभ्यामुरसः प्रभा । चेतोऽवसायितुं शक्ता तां मुञ्चन् नैव बाधितः ॥ २८॥ यस्याः सुसूक्ष्ममुदरं रोमराजिविराजितम् । समुद्भातितरां चित्ते तां मुञ्चन् नैव बाधितः ॥ २९॥ यस्याः परमगम्भीरं पीयूषसरसोपमम् । नाभिस्थलं समुद्भाति तां मुञ्चन् नैव बाधितः ॥ ३०॥ यस्यास्त्रिवलिशोभाभिः सुधास्त्रोतांसि सन्ततम् । निर्मीयन्ते विचित्राणि तां मुञ्चन् नैव बाधितः ॥ ३१॥ यस्याः काञ्चीसनाथाभ्यां नितम्बाभ्यां सुशोभितम् । मध्यस्थलं समुद्भाति तां मुञ्चन् नैव बाधितः ॥ ३२॥ कदलीकाण्डसदृशे जितशुण्डासमुच्छ्रये । भ्राजेते जघने यस्यास्तां मुञ्चन् नैव बाधितः ॥ ३३॥ ताम्बूलसम्पुटाकारं यस्याः जानु मनोभुवः । नित्यं मादयते चित्तं तां मुञ्चन् नैव बाधितः ॥ ३४॥ सुजातपद्मपत्रस्थरक्तिमश्रीहरौ पदौ । यस्याः नित्यं सुशोभेते तां मुञ्चन् नैव बाधितः ॥ ३५॥ यस्या गतिः सुमधुरा मरालकुलगञ्जिनी । मनो वशयितुं शक्ता तां मुञ्चन् नैव बाधितः ॥ ३६॥ यस्या विग्रहलावण्यं रतिरम्भादिनिर्जयि । चमत्करोति हृदयं तां मुञ्चन् नैव बाधितः ॥ ३७॥ भ्रमयन्ती करे पद्मं मन्दमन्दं च गच्छति । विलासवाटिका मध्ये तां मुञ्चन् नैव बाधितः ॥ ३८॥ रक्तवस्त्रपरीधाना प्रवाललतिकेव या । अकालसन्ध्यां कुरुते तां मुञ्चन् नैव बाधितः ॥ ३९॥ प्रमोदविपिने क्रीडामध्ये कौतुककारिणी । अग्रणीः सर्वयूथेषु तां मुञ्चन् नैव बाधितः ॥ ४०॥ तडिल्लतेव शुशुभे युवतीगणमध्यगा । या प्रमोदारण्यवीथ्यां तां मुञ्चन् नैव बाधितः ॥ ४१॥ यस्याः कामविलासेन सहजानन्दिनी स्वयम् । अमर्ष कुरुते चित्तं तां मुञ्चन् नैव बाधितः ॥ ४२॥ कदाचिद् या स्वयङ्कृत्वा मण्डितां स्ववपुर्लताम् । मानं जहार कृष्णायास्तां मुञ्चन् नैव बाधितः ॥ ४३॥ अहो अत्यद्भुतं यस्यां सौभाग्यं सुविशेषतः । स्वयं संवर्धितमभूत् तां मुञ्चन् नैव बाधितः ॥ ४४॥ अशेषललनामौलीभूता गुणवती तु या । आनन्दमातनोद् भूरि तां मुञ्चन् नैव बाधितः ॥ ४५॥ नित्यं रासविलासादौ विस्फुरन्ती सदैव या । ततान मुदमत्यर्थं तां मुञ्चन् नैव बाधितः ॥ ४६॥ जनकस्य गृहे या च सखीनामग्रणीः स्वयम् । मनोनुगा श्रीजानक्यास्तां मुञ्चन् नैव बाधितः ॥ ४७॥ एकान्ते च समासाद्य प्रियमानन्दरूपिणम् । चकार सहजाकार्य तां मुञ्चन् नैव बाधितः ॥ ४८॥ ज्ञात्वापि सहजा यस्याः कौटिल्यं दूत्यमेवच । मुखदाक्षिण्यसंरुद्धा न किञ्चिद् वदति स्वयम् ॥ ४९॥ तेनैव रमते साधु धूर्ता प्रियमनोरमा । एकान्ते च समासाद्य तां मुञ्चन् नैव बाधितः ॥ ५०॥ भुशुण्ड उवाच । कदा खलु मुमोचासौ कौशिकीं दुस्त्यजामपि । एतन्मम विशेषेण विरञ्चे विस्तराद्वद ॥ ५१॥ श्रीरामचन्द्रचरितं भरितं गुणौघैः पीयूषमेव मम कर्णपुटद्वयस्य । त्वद्वक्त्रचन्द्रगलितं पिबतां सुराणां नो तृप्तिरुद्भवति तद्वद पद्मयोने ॥ ५२॥ ब्रह्मोवाच । इदमाख्यानमतुलं भुशुण्ड श्रूयतां त्वया । रहस्यं रामचन्द्रस्य देवस्य सुमहात्मनः ॥ ५३॥ यदा गर्भमभूद्देव्याः सीतायाः श्रीशसङ्गतः । तदास्वयमुवाचैनां क्रीडाकारणमानुषः ॥ ५४॥ श्रीराम उवाच । कश्चित् तवाभिलाषोऽस्ति जनकेन्द्रस्य नन्दिनि । तमहं पूरयिष्यामि मय्याज्ञापय भामिनि ॥ ५५॥ इत्युक्ता प्रभुणा देवी जानकी चारुलोचना । उवाच मधुरं वाक्यमीषत्स्मितमनोहरा ॥ ५६॥ न किञ्चिद् दुर्लभं नाथ त्रैलोक्यस्थेषु वस्तुषु । यद्यदिच्छामि मनसा तत् सर्वं संस्थितं पुरः ॥ ५७॥ एकस्तु मेऽभिलाषोऽस्ति हृदये बलवत्तरः । अरण्ययात्रासमये मिलिता या मुनिस्त्रियः ॥ ५८॥ मुनीनां कन्यकाश्चैव तापस्यो वनवासिनीः । तासां वस्त्राणि भूषाश्च भोगांश्च विविधान् विभो ॥ ५९॥ दातुं मया प्रतिज्ञातास्तासामाश्रमवेश्मसु । मण्डनानि विचित्राणि करिष्यामीतिनिश्चितम् ॥ ६०॥ तासां कुमारिकाणां च कुमाराणां च योगिनाम् । अहमुद्वाहकार्येषु सम्पदं कर्तुमुत्सुका ॥ ६१॥ दरिद्रा वनवासिन्यस्तापस्यो मुक्तभोगकाः । तासां भोगं प्रदास्यामि भुक्तिभूषाम्बरादिभिः ॥ ६२॥ इतिसङ्कल्पितं चित्ते पूर्वमेव मया प्रभो । तं पूरयाभिलाषं में गर्भवत्या विशेषतः ॥ ६३॥ एवं नीत्वा कानिचिद्वासराणि तासां रम्येष्वाश्रमेषूपगत्य । आशीः पूजां तापसीनां गृहीत्वा भूयो यास्यामीश ते राजधानीम् ॥ ६४॥ इति श्रुत्वा प्रियावाक्यं रामो विरहकातरः । कष्टेन तामादिदेश तथेति रहसि स्थितः ॥ ६५॥ ततः परेद्युः प्रभुणा प्रियायाः कर्तुं पूर्णं तं नियताभिलाषम् । उक्तो भ्राता लक्ष्मणः प्रेषणाय पुण्यस्थानेष्वाश्रमेषु प्रियायाः ॥ ६६॥ श्रीराम उवाच । गच्छ लक्ष्मण पारे त्वं सरय्वाः पुण्यवत्सु वै । तापसीनामाश्रमेषु गृहीत्वा जनकात्मजाम् ॥ ६७॥ तापसानां पूजनाय गच्छत्येषा तु भामिनी । अस्याः सङ्कल्पितं चित्ते पूरणीयं विशेषतः ॥ ६८॥ नीयन्तां वस्त्रभूषान्नसम्भाराः शकटस्थिताः । अन्ये च विविधा भोगाः कर्पूरघुसृणादयः ॥ ६९॥ भूरिचन्दनसम्भाराः स्थाप्यन्तां शकटादिषु । जनकेन्द्रसुता देवी यदाज्ञायपति स्वयम् ॥ ७०॥ तत्सर्वं भ्रियतां भूरि तापसीनां सुखावहम् । ताः सर्वाः शश्वदामन्त्र्य देवी पूजयतु स्वयम् ॥ ७१॥ तासामाश्रमदेशेषु यात्वेषा पूजनोत्सुका । दम्पतींस्तान् समापूज्य भवत्वाप्तमनोरथा ॥ ७२॥ इत्याज्ञा विद्यते भ्रातर्जानक्यास्तत्तथास्तुवै । भवानिदं साधयतु प्रजावत्या मनोरथम् ॥ ७३॥ एषा हि वनवासान्तस्तापसीस्तपसिस्थिताः । तत्कन्यकाः कुमारीश्च नित्यं भोगविवर्जितान् ॥ ७४॥ वीक्ष्य जाता सकरुणा तेन सङ्कल्पितं हृदि । एताः सम्पूजयिष्यामि प्राप्तराज्ये प्रभावहम् ॥ ७५॥ ततस्तु त्वरितं कार्यं चिन्ताभिलषितं व्रतम् । गर्भवत्या मनः कामः पूरणीयो विशेषतः ॥ ७६॥ अन्यथा तु कृते भ्रातर्भाविनी सन्ततिः स्त्रियाः । यावज्जन्माभिलाषेण ग्रस्ता स्यान्नात्र संशयः ॥ ७७॥ तत्रैनां खलु संस्थाप्य दासदासीसखीजनैः । तूर्णमागम्यतां भ्रातर्मत्पार्श्वे प्रीतिपूर्वकम् ॥ ७८॥ ब्रह्मोवाच । इति भ्रातुर्निदेशेन लक्ष्मणो विहिताञ्जलिः । मूर्द्ध्ना तदाज्ञामादाय तस्थौ गन्तुं तदाश्रमान् ॥ ७९॥ तदैव त्वरितं वीरो लक्ष्मणः प्राणवत्प्रभोः । सम्पाद्याखिलसामग्रीः शकटैर्भारवाहकैः ॥ ८०॥ अक्षय्यपटभूषान्ननानाभोगरसादिभिः । सम्भृत्य शकटांस्तूर्णं नानोपायनराशिभिः ॥ ८१॥ गृहीत्वा भ्रातृजायां तां मणिकाञ्चनमण्डिते । स्थितां महारथे देवीमनयत् तापसीगृहान् ॥ ८२॥ सरय्वाः अपरे पारे उटजाश्रममण्डले । संस्थाप्य मुनिपत्नीनां पार्श्वे जनकनन्दिनीम् ॥ ८३॥ उवाच लक्ष्मणो भूयः सिद्धकामां प्रजावतीम् । लक्ष्मण उवाच । अत्र त्वं तापसीनां वै कुरु पूजां दिने दिने ॥ ८४॥ ययाभिलषितैरर्थैः पटभूषासनादिभिः । भोगैश्च विविधै रत्नैरक्षय्यैर्भूरिसम्भृतैः ॥ ८५॥ तव सङ्कल्पसिद्ध्यर्थं प्रभुणा प्रतिपादितैः । अलभ्यैरपि सामर्थ्यात् सञ्चितैर्भूरिवस्तुभिः ॥ ८६॥ अनुज्ञां देहि मे देवि गच्छाम्यार्यस्य सन्निधौ । कृतकार्यां पुनस्त्वां हि नेष्यामि नगरीं प्रति ॥ ८७॥ ब्रह्मोवाच । ततश्चाज्ञापितो देव्या जानक्या लक्ष्मणः स्वयम् । नत्वा तस्याः पदाम्भोजे ह्यभिवाद्य मुनीश्वरान् ॥ ८८॥ तापसीश्च प्रणम्यासौ ताभ्यो देवीं प्रदर्श्य च । रथेन तूर्णवेगेन आजगाम पुरीं प्रति ॥ ८९॥ सा तत्र पुण्येषु तपोवनानां रम्येषु चैवाश्रममण्डलेषु । सुच्छाय पुण्यद्रुमशोभितेषु कुरङ्गपोतैः परिशीलितेषु ॥ ९०॥ अनेकशाखामृगसेवितेषु कूजद्विहङ्गव्रजनादितेषु । सुशीतलैः सारवतोयसङ्गान्मन्दानिलैः सन्ततसेवितेषु ॥ ९२॥ स्वाध्यायमुच्चैः पठतां मुनीनां घोषेण रात्रिन्दिवमावृतेषु । नादेन शश्वच्छुकसारिकानां वेदाक्षरोल्लापव्रतान्वितेषु ॥ ९२॥ निरन्तरं वर्तितदीर्घसंस्थै र्महामखैः सत्रगणैश्च मुख्यैः । सौम्यैस्त्रिकर्माकुलॠत्विगादि र्गणैः कृतः स्वस्वगतक्रियेषु ॥ ९३॥ सा री समुच्चारितये यजामहे (?) श्रौषट्वषड्वौषडादिस्वरेषु । महेन्द्रमामन्त्रयतां मुनीनां सुब्रह्मण्यं स्वरितोच्चैः स्वरेषु ॥ ९४॥ स्वच्छस्फुरत्पुष्करिणीजलान्तः समुल्लसत्पद्मसमूहसौरभैः । सुगन्धिताशेषसरित्तटेषु हुताज्यगन्धैश्च समन्ततो वै ॥ ९५॥ मनोहरैः फलितैः पुष्पवद्भिः सपल्लवच्छायततैरनोकहैः । मुनीन्द्रकन्याकरसिक्तबाहैः समन्ततो वीतपयन्तकेषु ॥ ९६॥ इतस्ततो वीक्ष्यमाणा सखीभिः साकं सुरुच्या परितः पर्यटन्ती । राजेन्द्रपुत्री हृदये प्रसन्ना बभूव भूयः समवाप तुष्टिम् ॥ ९७॥ सा सङ्गता तापसीभिः समन्तात् सम्मानिता संस्तुता पूजिता च । श्रीरामपत्नी मुमुदे विशेषात् कृतातिथ्या तद्दिने ताभिरेव ॥ ९८॥ ऊचुश्चैनां मुनिदाराः समन्ता दातिथ्यान्ते स्वागतादीन् विधाय । भत्क्या नतां राजराजेन्द्रपत्नीं सत्कृत्य चात्यन्तमनोज्ञया गिरा ॥ ९९॥ मुनिदारा ऊचुः । अहो अतीव धन्यासि जनकेन्द्रस्य नन्दिनि । अत्युदारचरित्रासि विश्वतः पावनैर्गुणैः ॥ १००॥ तवैव पातिव्रत्येन सुभगाः सकला वयम् । मण्डितं भुवनं सर्वं स्त्रीकुलं च विशेषतः ॥ १०१॥ चिरं जीवतु ते स्वामी शश्वद्दशरथात्मजः । तव सौभाग्यपुण्येन विश्वभूषणकारिणा ॥ १०२॥ अवाप्नुहि परां लक्ष्मीं त्वं च लक्ष्मी रघोः कुले । रघोर्निमेश्च वंशस्य भूषारूपासि जानकि ॥ १०३॥ अतिसम्यक् कृतं देवि भवत्या भव्यरूपया । आश्रमान् समुपेयुष्या वय सर्वाः कृतार्थिताः ॥ १०४॥ कस्य न स्पृहणीयासि वृत्तेन च गुणेन च । सफले नयने तस्या या त्वां देवि विलोकयेत् ॥ १०५॥ अहो अत्यद्भुततमं शीलं ते वरवर्णिनि । पतिव्रतानां सर्वासां शोलनीयमिदं सदा ॥ १०६॥ पत्या साकं यदा दृष्टा पुरा वननिषेवणे । तदावधि महोत्कण्ठा वर्द्धतेऽस्माकमुत्तमे ॥ १०७॥ चिराद् दृष्टासि भाग्येन देवि त्वं नो विलोचनैः । अद्य नः सफलं जन्म त्वत्समागममोदतः ॥ १०८॥ तापस्योऽपि वयं नाम त्वया देवि वशीकृताः । निःस्पृहा सकले लोके त्वामेकां स्पृहयामहे ॥ १०९॥ तव पुष्यकथाश्चित्रा विश्वतः पावयन्ति नः । तापसीरपि चात्यर्थ तव पत्युर्महात्मनः ॥ ११०॥ युवयोः पुण्यवृत्तेन वेदगीतेन जानकि । पूतं पावयितव्यं च त्रैलोक्यमपि चाखिलम् ॥ १११॥ यथा पुनाति त्रैलोक्ये विष्णुपादोद्भवा सरित् । सदैव युवयोः पुण्यलोकामृततरङ्गिणी ॥ ११२॥ निगूढं चरितं देवि भवत्या विश्वपावनम् । यस्य कर्णपथं नैति तस्य जन्म निरर्थकम् ॥ ११३॥ दिष्ट्या हतः स पापोऽद्य तव पत्या महात्मना । जगद्विद्रावणकरो रावणस्तपसोर्जितः ॥ ११४॥ तव शीलेन वृत्तेन हतः स हि खलाग्रणीः । जगद्दुरितरूपात्मा रावणः सकुटुम्बकः ॥ ११५॥ अद्य देवि प्रजाः सर्वा मोदन्ते सुकृतैस्तव । विदधत्याशिषः पूर्णास्ताभिस्त्वं सुखिनी भव ॥ ११६॥ सुराङ्गनाभिस्त्रिदशापगाया स्तीरेषु कल्पद्रुमसंवृतेषु । पुण्यानि रुच्याणि गिरां फलानि गीयन्त उच्चैर्ननु ते यशांसि ॥ ११७॥ पुण्येषु तीर्थेषु च तापसानां शुभाश्रमेषु त्वरितस्वरेण । गायन्त्य उच्चैर्मुनिकन्यकास्त्वां तुष्यन्ति कीर्तिव्रजशुद्धमूर्तिम् ॥ ११८॥ अत्युद्धारगुणा लक्ष्मीर्यथा वैकुण्ठवासिनी । तथात्वमनवद्याङ्गि साकेतपुरवासिनी ॥ ११९॥ अथात्र नः सुपुण्येष्वाश्रमेषु विनोदिनी । यावद्गर्भप्रसवनं चिरं तिष्ठ पतिव्रते ॥ १२०॥ गर्भिणीनां खलु मनो वनश्रीदर्शनोत्सुकम् । इह स्थित्वा प्रजायेथाः सन्ततिं वीर्यवत्तराम् ॥ १२१॥ वीरसूर्भव भाग्येन रघुवंशदिवामणेः । तया त्वं प्रजया देवि नृपं सन्तोषय ध्रुवम् ॥ १२२॥ यथा दशरथो राजा रामाद्यैः पुत्रवत्तमः । तया श्रीरामचन्द्रोऽपि भूयाद्वै पुत्रवत्तमः ॥ १२३॥ रघोः कुलस्वभावोऽयं वर्णितो विदुषां गणैः । लुम्पन्ति कीर्ति पूर्वेषां जाता जाता गुणोत्तराः ॥ १२४॥ इति ताभिस्तुता देवी वचनैः सत्यसुन्दरैः । प्रत्युवाच विशालाक्षी स्मयमानमुखाम्बुजा ॥ १२५॥ श्रीजानक्युवाच । इयं हि भवतीनां वै तपसः सिद्धिरद्भुता । यन्नः शुभफलोदर्कं सर्वलोकविलक्षणः ॥ १२६॥ अस्माकमेतदेवोच्चैर्धनं राज्यपदस्पृशाम् । भवतीनां तापसीनां यत्तपः समुपार्जितम् ॥ १२७॥ वयं गार्हस्थ्यचिन्ताभिः सन्ततं क्लिष्टमानसाः । तत्रापि भवतीनां वै दर्शनं सुकृतं परम् ॥ १२८॥ एतच्च परमं पुण्यं भवतीभिर्निरूपितम् । स्वाश्रितानां यदस्माकमुत्कर्षोऽस्ति स एव वः ॥ १२९॥ वृथा जनुर्याति गृहस्थितानां गार्हस्थ्यचिन्तापरिशीलनेन । तत्रापि यस्मिन् भवतीषु सङ्गः स एव काल सुकृतेन पूर्णः ॥ १३०॥ क्व न सदा गृह्यकृत्याकुलानां युष्माभिः स्यात्तापसीभिः प्रसङ्गः । तपोनुरागेण तृणीकृतोच्चै र्महेन्द्रलक्ष्मीः सुखसम्पदाभिः ॥ १३१॥ इति विज्ञाय तापस्यो युष्माकं दर्शनं मया । प्रार्थितं स्वामिने गत्वा पुण्यमाश्रममण्डलीम् ॥ १३२॥ एतद् दुर्लभमस्माकं भवतीनां विलोकनम् । सर्वसार्थसमेतानां साक्षादिव तपः श्रियाम् ॥ १३३॥ भाग्येन दर्शनं याता भवत्यः पुण्यमूर्तयः । द्रष्टुं योग्याः क्व नोऽस्माकं साक्षादिव तपः श्रियः ॥ १३४॥ इति ताः परितः स्तुत्वा मुनीनां धर्मचारिणीः । जानकी तोषयामास व्यक्तं सूनृतया गिरा ॥ १३५॥ अन्योन्यं ताभिरालप्य राघवेन्द्रकुलेन्दिरा । पूजयामासविधिवदुपचारैरुदाहृतैः ॥ १३६॥ आसनैर्भूषणैवस्त्रैर्मणिकाञ्चनराजिभिः । महार्हाभिश्च मालाभिर्हारावलिभिरुच्चकैः ॥ १३७॥ स्वयं च परिधानार्हैः सुगन्धाम्बरभूषणैः । देश्यैः सुजातिसम्पन्नैरानीतैः पत्युराज्ञया ॥ १३८॥ तासामाश्रमसद्मानि छादितानि समन्ततः । वासोभिः कान्तिसम्पन्नैः काञ्चनोद्योतशालिभिः ॥ १३६॥ तोरणानि निबद्धानि द्वारेष्वाश्रमसद्मनाम् । मणिकाञ्चनमालाभिरुद्गतामलकान्तिभिः ॥ १४०॥ उटजेषु मुनीन्द्राणां रोपिता विपुलध्वजाः । फलिता इव रत्नौघैः पर्णशालाः समन्ततः ॥ १४१॥ वलिभिर्धूपदीपैश्च रत्नकुम्भैः फलान्वितैः । पूर्णैर्विशुद्धतोयेन शातकौम्भाम्बरावृतैः ॥ १४२॥ पञ्चरत्नाभ्युपेतैश्च सकाञ्चनशरावकैः । कदलीस्तम्भरोपैश्च लसत्पल्लववल्लिभिः ॥ १४३॥ रचितैः पर्णशालायां द्वारेषु विपुलाः श्रियः । अमरावती भोगवती वासीदाश्रममण्डली ॥ १४४॥ सर्वतः कान्तिसम्पन्ना सर्वतो भोग संयुता । राघवेन्द्रपुरश्रीश्च तत्राविरभवत्तदा ॥ १४५॥ भोजिता परमान्नेन मुनयो मुनिकन्यकाः । मुनीनां धर्मपत्न्यश्च तथा तेषां कुमारकाः ॥ १४६॥ तथान्तेवासिनस्तेषां पटभूषणसत्कृताः । भोजिता विविधै रत्नैः स्वादुसन्तुष्टिकारकैः ॥ १४७॥ उटजावलिमार्गेषु घुसृणैश्चन्दनैस्तथा । कर्पूरैरप्यगुरुभिस्तथा मृगमदादिभिः ॥ १४८॥ द्रवीकृतैरभूत् सेको मूलेष्वाश्रमशाखिनाम् । इतस्ततः सौरभौघैर्व्यापिताः सकला दिशः ॥ १४९॥ मृगाः शाखामृगाश्चैव येऽन्येऽत्राश्रमवासिनः । शुकसारीप्रभृतयस्तथैवोच्चावचां खगाः ॥ १५०॥ भोजिता विविधैरन्नैः पशवः पक्षिणतस्था । धेनवश्च विशेषेण मुनीनां होमसाधनाः ॥ १५१॥ अलङ्कृताः शुभैर्वस्त्रैर्भूषणैर्मणिकाञ्चनैः । भोजिता विपुलैरन्नैः सवत्सा विपुलौधसः ॥ १५२॥ वत्साश्च वत्सतर्यश्च वृषाश्च शुभदर्शनाः । पूजिता गन्धमाल्याद्यैः पटकाञ्चनभूषणैः ॥ १५३॥ भोजिताश्च विशेषेण मिष्टान्नयवसादिभिः । श‍ृङ्गाण्यलङ्कृतान्युच्चैः पुष्पमालाकदम्बकैः ॥ १५४॥ इत्थं प्रतिदिनं तत्र तासामाश्रममण्डले । पूजां विदधती देवी न्यवसज्जनकात्मजा ॥ १५५॥ धर्मार्जनपरा देवी तापसीनां तपोवने । सानुरागमना जाता त्यक्तग्रामजनस्थितिः ॥ १५६॥ तासां पुत्रेषु पुत्रीषु स्निग्धचित्ता हरेर्वधूः । चलितुं नाशकत् तस्मात् स्थानाद्राजेन्द्रकन्यका ॥ १५७॥ तपस्विनां सम्पठतां स्वाध्यायं श्रुतिसुन्दरम् । कुर्वतां ब्रह्मकर्माणि यजतां प्रतिवासरम् ॥ १५८॥ अनवद्यां स्थितिं वीक्ष्य प्रसन्नाजानकी वने । स्वच्छतोयेषु पुण्येषु तीर्थेषु च तपस्विनाम् ॥ १५९॥ स्नान्ती प्रतिदिनं देवी पूजयन्ती च तापसीः । बहूनि वासराण्यत्र निवसन्ती निनाय सा ॥ १६०॥ कुटुम्बवत्तापसीनां मण्डलेषु निवासिनी । तासां हृदयरागस्य पात्रमत्र बभूव सा ॥ १६१॥ प्रियस्य विरहेऽप्येषा तपस्विवनवासतः । अनुद्विग्नमना देवी चिरमाप सुनिर्वृतिम् ॥ १६२॥ रामोऽप्यस्या मनोवृत्तिमाश्रमेषु तपस्विनाम् । सुप्रसन्नतमां वीक्ष्य प्रेषयामास नानुजम् ॥ १६३॥ कानिचिद्दिवसान्युच्चैस्तत्रैव वसतु प्रिया । इति न प्रेषयामास नेतुं लक्ष्मणमीश्वरः ॥ १६४॥ कदाचिदनवदद्याङ्गी तिष्ठन्ती सा तपोवने । कस्याश्चिदपि तापस्या मुखाच्छुश्राव जल्पितम् ॥ १६५॥ अहो राघववर्येण रामचन्द्रेण जानकि । ननु त्वं सम्परित्यक्ता यतो नाकारयत्यसौ ॥ १६६॥ एवं हि श्रूयते शब्दो नित्यं साकेतवासिनाम् । रावणस्य गृहे वासात् त्यक्ता रामेण जानकी ॥ १६७॥ सभास्थितेन प्रभुणा पृष्टः कोऽपि विदूषकः । इत्युवाच प्रभुं धृष्टो जनतामुखजल्पितम् ॥ १६८॥ असाधु साधु वा लोकः किं नो वदति संसृतौ । इतिपृष्टो मुहुर्देवं प्रत्युवाच विदूषकः ॥ १६९॥ सर्वं खलु भवद्वृत्तं लोकः साध्विति जल्पति । एकमेव चरित्रं ते मन्यतेऽनुचितं जनः ॥ १७०॥ अतः परं जगत्यस्मिन् दुष्टामपि निजां स्त्रियम् । नकोऽपि त्यक्ष्यति जनो रामं कृत्वा निदर्शनम् ॥ १७१॥ परपुरुषकरेण स्पृष्टगात्रा निजांसं मदनशरवशेनारोप्य नीता निकेतम् । अपिबहुदिवसौघं तत्र सा जातवासा जनकनृपतिपुत्री स्वामिना सङ्गृहीता ॥ १७२॥ इतिस्त्रीणामसाध्वीनां भविष्यत्यवलम्बनम् । भर्त्रा चेत्त्यज्यते तर्हि वदेद्रामं निदर्शनम् ॥ १७३॥ उपस्थितोऽयं जगति महान् धर्मस्य विप्लवः । स्त्रीणां स्वातन्त्र्यकरणे मूलमन्त्र इवोद्गतः ॥ १७४॥ इति जल्पति लोकोऽयं द्वारि द्वारि गृहे गृहे । साकूतं सोपहासं च तेन क्लिश्यन्ति साधवः ॥ १७५॥ इत्थं जजल्प रामेण मुहुः पृष्ठो विदूषकः । तच्छ्रुत्वा रघुवीरस्य प्रियात्यागोन्मुखं मनः ॥ १७६॥ इतितस्याः समाकर्ण्य वाक्यं जनकनन्दिनी । निश्चिकाय स्वमानेतुमनागमनकारणम् ॥ १७७॥ अतिसन्तप्तहृदया देवी प्रियचरित्रके । जाता व्याकुलचित्ता सा रुदन्ती करुणायुतम् ॥ १७८॥ अहो किमेतत् प्रभुणा निरागसि कृतं मयि । स्वप्नेऽपि नानुपश्यामि व्यभिचारमहं क्वचित् ॥ १७९॥ अप्युक्तं वीतिहोत्रेण साक्षाद्भगवता स्वयम् । सर्वैरपि सुरैस्तद्वद् गिरा च व्योमसंस्थया ॥ १८०॥ तथा समस्तैर्मुनिभिस्तदा शपथपूर्वकम् । अहं च भगवत्यग्नौ साक्षाद्वैश्वानरेऽऽर्चिषि ॥ १८१॥ शोधयित्वा स्वमात्मानं निर्गता वीतकल्मषा । सर्वं विस्मृतवानेष प्रभुरद्य रघूत्तमः ॥ १८२॥ अहो असह्यं हृदयस्य जातं प्रियस्य वृत्तं किमिदं ह्यकस्मात् । येनाहमद्धा मदसून् विहाय प्रवेष्टुमर्हा ननु पावकान्तः ॥ १८३॥ किं नु कुर्वे गर्भवती प्रविशेयं शुचौ कथम् । कथं वा जीवितं तावद्धारयिष्याम्यहं खलु ॥ १८४॥ स सर्वं कर्तुमर्होऽस्ति देवः श्रीरघुनन्दनः । नाहं किमपि वै कर्तुं शक्ता दुर्दैववश्यगा ॥ १८५॥ स तादृक्प्रणयस्तस्य तानि वृत्तानि ते गुणाः । सर्वमेकपदे जातं मयि दुर्दैवमीदृशम् ॥ १८६॥ अथवा पुरुषा नाम स्वभावेनैव निष्ठुराः । भवन्तीति स्फुटं मन्ये जानकी विधिना हता ॥ १८७॥ इत्यादि विलपन्त्येषा तत्क्षणाज्जातदुर्गतिः । वाल्मीकिना समाश्वस्ता रुदती साश्रुलोचना ॥ १८८॥ वाल्मीकिरुवाच । मा रोदीः करुणं वत्से जनकेन्द्रस्य नन्दिनि । प्रभुरेष स्वयं रामो वृत्तं जानाति तावकम् ॥ १८९॥ न विजानाति लोकोऽयं दुर्दान्तो दैववञ्चितः । रामस्तु केवलं लोकमुपासीनोऽस्ति सम्प्रति ॥ १९०॥ न कदापि च देवेशो भवतीं त्यक्ष्यति प्रियाम् । अलं विलप्य करुणं भवत्या स्थीयतां सुखम् ॥ १९१॥ इदं तपोवनं नाम मम तापससेवितम् । प्रशान्तश्वापदाकीर्णमत्र तिष्ठ चिरं सति ॥ १९२॥ लोकस्य लोक एवायं परिच्छेत्स्यति संशयम् । रामस्तु केवलं देवि निर्लेपः पद्मपत्रवत् ॥ १९३॥ युवामेव विजानीथो युवयोर्महिमोत्करम् । स रामः श्रीपतिः साक्षात्त्वं श्रीस्तस्याङ्कभूषणे ॥ १९४॥ परं ब्रह्म स्वयं रामस्त्वं तदानन्दिनी प्रिया । शक्तिः प्रमोदविपिने सहजेति श्रुता तु या ॥ १९५॥ वृन्दावने तथा राधा त्वमेव परिगीयसे । वैकुण्ठे च स्वयं लक्ष्मीर्जानकी जनकालये ॥ १९६॥ को विजानाति देवि त्वां चरमेण स्वचक्षुषा । ब्रह्मादीनामपि दृशां गोचरत्वं न गच्छति ॥ १९७॥ महिमा युवयोर्नित्यं वेदेन खलु गीयते । प्राकृतः किल लोकोऽयं किञ्जानाति शिवात्मिकाम् ॥ १९८॥ भवतीं नामरूपाभ्यां पावयन्तीं जगत्त्रयम् । कोटितीर्थसमश्लोकां श्रीरामस्य परां प्रियाम् ॥ १९९॥ इत्येवं तां सुसत्कृत्य मुनिर्वल्मीकसम्भवः । निजाश्रमपदे नीत्वा लोकलक्ष्मीमवासयत् ॥ २००॥ एतस्मिन्नन्तरे लीला कौशिको नाम तत्सखी । सीताविरहितं रामं रहःस्थाने समाययौ ॥ २०१॥ चन्द्रानना चारुचकोरनेत्रा कस्तूरिकाबिन्दुविराजिभाला । सीमन्तरत्नद्युतिभिः समन्ता द्दिशः समस्ताः परिरोचयन्ती ॥ २०२॥ मरालगत्या श्रितपादपद्मा मज्जीरनादैर्जितहंसनादा । पादाङ्गुली भूषणचारुचाटुकैः कलक्वणैर्लक्षितमन्दयाना ॥ २०३॥ शोणाम्बरोल्लासिनितम्बविम्ब द्युतिस्फुरच्चञ्चल कामचक्रा । सुवर्णरम्भातरुकाण्डजङ्घा करीन्द्रशुण्डाविजितोरुकान्तिः ॥ २०४॥ अथोवाच महायोगी रामः परमनिःस्पृहः । कौशिकीं तप्तहेमाङ्गीमेकान्ते सुसमागताम् ॥ २१८॥ श्रीराम उवाच । किमर्थं कौशिकि प्राप्ता मत्सकाशमिहाधुना । रहस्यहं तपोनिष्ठस्त्यक्तसर्वपरिग्रहः ॥ २१९॥ कौशिक्युवाच । इदानीं पुण्डरीकाक्ष रहितः प्रियया भवान् । अतोऽहं त्वां रमयितुं प्राप्तास्मि रहसि स्थितम् ॥ २२०॥ श्रीराम उवाच । मत्प्रिया जानकी साक्षाद्रतिकोटिमनोहरा । सैव चेन्मां परित्यज्य मुनीनामाश्रमं गता ॥ २२१॥ कान्या मम मनो हर्तुं समर्थास्ति जगत्त्रये । एकपत्नीव्रतधरो नाहमन्यत्र लोलुपः ॥ २२२॥ तदाज्ञावशगो भूत्वा तया सह सुसङ्गताम् । कदाचित्त्वां रमितवान् यथान्या गोपकन्यकाः ॥ २२३॥ सहजाज्ञावशेनाहं रतवान् व्रजमण्डले । सहजा जानकी चेति रूपमेकं द्विधावपुः ॥ २२४॥ ब्रह्मोवाच । विज्ञापयन्तीमपि तां कौशिकीं जानकीसखीम् । नोररीकृतवान् रामो महायोगेश्वरो रहः ॥ २२५॥ ततः सा विमुखीभूय भग्नमाना सुदुर्मनाः । जानकीमेव समगात्तापसीनां समीपगाम् ॥ २२६॥ अन्याश्च सकलाः सख्यः सीतायाः पद्मलोचनाः । कमलेशीप्रभूतयः प्रियेण सहसोज्झिताः ॥ २२७॥ सीताविरहतप्तेन योगं समधितिष्ठता । भग्नमाना हतधियः सीतामेव समाययुः ॥ २२८॥ ताः सर्वाः सङ्गता वीक्ष्य तत्रापि जनकात्मजा । सीता भग्नदशा वीक्ष्य प्रोवाच वचनं सती ॥ २२९॥ किमर्थं भग्नमानाः स्थःसख्यः सर्वा विनिन्दिताः । केनापि वञ्चिताः किन्नु भग्नमानीकृताश्च वः ॥ २३०॥ सख्य ऊचुः । प्रभुः कमलपत्राक्षो देवो दशरथात्मजः । तथैव विरहोद्रेकान्नास्मानादिद्रिये सखि ॥ २३१॥ वयं सर्वास्तं समेता रहस्यं तपस्यन्तं योगमुद्रां वहन्तम् । अनेकधा चक्रममोहनं सखि स्वभावलोलैर्नयनैर्विलोक्य ॥ २३२॥ स वै धोरस्त्वां विना नेतरस्यां स्वप्नेऽपि नासक्तमना मनागपि । अनादृतानामिति तेन पत्या गतो मानस्त्वत्सखीनामतो नः ॥ २३३॥ अतः सर्वाः दुर्मनसो बभूवु स्त्वत्सन्निधानं प्राप्तवत्यःस्म तस्मात् । यथात्वमत्राश्रममण्डलेव सस्येवं तथा वयमप्दावसामः ॥ २३४॥ तीव्रेण तपसा नित्यं कर्षयन्त्यो निजं वपुः । श्रीरामचन्द्रचरणध्यानधारासुधाप्लुताः ॥ २३५॥ नेष्यामः कतिचिदहानि ते समीपे तिष्ठन्त्यः वरमतमात्मयोगनिष्ठाः । सायुज्यं पुनरथ राघवेण गत्वा देहान्ते परमपदं व्रजाम शीघ्रम् ॥ २३६॥ इति ताः कृतसङ्कल्पाः सीतासन्निधितोषिताः । अचीकरंस्तपस्तीव्रं कौशिकीप्रमुखाः स्त्रियः ॥ २३७॥ इदमग्रे प्रवक्ष्यामि विशेषेण तवाग्रतः । वैराग्यस्य प्रसङ्गेन किञ्चिदुक्तं मया द्विजः ॥ २३८॥ इति वैराग्यनामासौ भगः श्री रामचन्द्रगः । तुभ्यं भुशुण्ड कथितमुपलक्षणमात्रतः ॥ २३९॥ योऽतिप्रियतमो दान्तो लक्ष्मणः कृतलक्षणः । यं विना न क्वचित्तस्थौ तं त्यजन्नैव बाधितः ॥ २४०॥ यस्यानुग्रह मिच्छन्ति नित्यं श्रीरामसेवकाः । सखायमात्मनः साक्षात्तं त्यजन्नैव बाधितः ॥ २४१॥ येन सार्द्धं समावात्सीदरण्येऽपि प्रियान्वितः । विनीतमात्मनो भक्तं तं त्यजन्नैव बाधितः ॥ २४२॥ यः साक्षादात्मना तुल्यः प्रियो भ्राता सुहृत्तमः । लक्ष्मणः परमोदारस्तं त्यजन्नैव बाधितः ॥ २४३॥ एकान्ते यत्र सहजा जानकी वा स्वसन्निधौ । तत्रापि यस्य सम्पर्कस्तं त्यजन् नैव बाधितः ॥ २४४॥ आज्ञावशो निजसुहृत् ह।खा साहाय्यपण्डितः । यो लक्ष्मणः प्रियोऽत्यन्तं तं त्यजन् नैव बाधितः ॥ २४५॥ विनीतो वनवासेऽपि ? द्वादशवार्षिकम् । आज्ञानुरोधात् कृतवान् तं त्यजन् नैव बाधितः ॥ २४६॥ सर्वकार्येषु कुशलो धर्मात्मा प्राणसम्मितः । अनुजश्चैव मित्रं च तं त्यजन् नैव बाधितः ॥ २४७॥ वनेषु पर्णशालादिसर्वकार्यविधानकृत् । अनुजश्चैव शिष्यश्च त्यं त्यजन् नैव बाधितः ॥ २४८॥ अनुग्रहस्य प्रेम्णश्च य एकः पात्रतां गतः । स्थितश्च निकटे नित्यं तं त्यजन् नैव बाधितः ॥ २४९॥ यस्य क्षणवियोगे तु युगं कल्पायते दिनम् । पटान्तरेऽप्यमुक्तश्च तं त्यजन् नैव बाधितः ॥ २५०॥ येन सार्द्धं विहृतवान् गृहेषु च वनेषु च । अनेकविधलीलाभिस्तं त्यजन् नैव बाधितः ॥ २५१॥ हे लक्ष्मण सखे भ्रातः प्रियमित्रेतिचाब्रवीत् । यं नित्यमात्मदयितं तं त्यजन् नैव बाधितः ॥ २५२॥ यस्यानर्घ्यतमोदारगुणसन्तुष्टमानसः । वनेऽपि सुखितोऽवात्सीत् तं त्यजन् नैव बाधितः ॥ २५३॥ यस्य बाहुबलेनासौ हतवान् राक्षसीं चमूम् । महाबलां महाघोरां तं त्यजन् नैव बाधितः ॥ २५४॥ येनैव निहतो वाणैरिन्द्रजित्समरोद्धतः । सर्वदेवौघविजयी तं त्यजन् नैव बाधितः ॥ २५५॥ यस्य वीर्यबलेनासौ प्रबलं राक्षसेश्वरम् । न किञ्चिद् गणयामास तं त्यजन् नैव बाधितः ॥ २५६॥ यस्यानुभावमखिलं लौकिकं वाप्यलौकिकम् । स्वयं वेत्ति प्रभुर्नान्यस्तं त्यजन् नैव बाधितः ॥ २५७॥ यस्य सौन्दर्यसारेण स्वयमेव वशीकृतः । आत्मसौन्दर्यतुल्येन तं त्यजन् नैव बाधितः ॥ २५८॥ आबाल्याच्छीलितो यस्य सङ्गः परमसौख्यदः । नेत्रसन्तृप्तिजननः तं त्यजन् नैव बाधितः ॥ २५९॥ अयं चास्य भगो नित्यं महावैराग्यशब्दितः । सम्प्रोक्तो बहुधा तुभ्यं भगवान् येन कीर्तितः ॥ २६०॥ इत्थं ते षड्गुणाः प्रोक्ताः रामस्य सुमहात्मनः । श्रुत्वैतान् सर्वमाहात्म्यज्ञाता भवति भक्तिमान् ॥ २६१॥ माहात्म्यज्ञानमङ्गं हि भक्तेः श्रारामगोचरम् । अतस्ते बहुधा ख्याता माहात्म्यज्ञप्तये गुणाः ॥ २६२॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पूर्वखण्डे षड्गुणाख्याने वैराग्यव्याख्यानं नाम सप्तनवतितमोऽध्यायः ॥ ९७॥ ShaDguNAni - aishvaryaguNa vIryaguNa yashoguNa shrIHguNa jnAnaguNa vairAgyaguNa . Encoded and proofread by Vishal Pandey
% Text title            : Rama Shadguna Upakhyana Varnanam Description of Six Qualities of Shriram
% File name             : rAmaShaDguNopAkhyAnavarNanam.itx
% itxtitle              : rAmaShaDguNopAkhyAnavarNanamH (bhushuNDirAmAyaNAntargatam)
% engtitle              : rAmaShaDguNopAkhyAnavarNanam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishal Pandey
% Proofread by          : Vishal Pandey
% Description/comments  : bhushuNDirAmAyaNam | pUrvakhaNDa | adhyAya 92-97||
% Indexextra            : (Scans 1, 2)
% Latest update         : August 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org