श्रीरामचन्द्रपञ्चकम्
(शार्दूलविक्रीडितवृत्तम्)
यस्मिन् सर्वमिदं विभाति वितथं मिथ्येन्द्रजालादिवत्
यन्नित्यं ह्युररीकृतं सुविमलं ब्रह्मादिभिर्देवतैः ।
यन्मौलीकृतमप्यहो गुनिगणैः सच्चित्सुखात्म्यं बृहत्
सोऽयं श्रीगुरुरामचन्द्र इति यो राराजते क्ष्मातले ॥ १॥
जीवानां हितदर्शनाय किल यो धर्मावतारोऽभवत्
सर्वत्यागपुरस्सरं जनहिते यो व्यापृतोऽभूत्सदा ।
सर्वस्यात्मनिवेदने भवति यद्रूपं स्वमूर्तं शिवं
सोऽयं श्रीगुरुरामचन्द्र इति यो राशजते क्ष्मातले ॥ २॥
सत्यं ज्ञानमनन्तमद्वयमहो यद्ब्रह्मरूपं स्फुटं
माया नास्ति न चेशजीवकलना यस्मिन्नभिन्नं तथा ।
लीलास्वीकृतविग्रहं नतजनत्राणाय चादर्शयन्
सोऽयं श्रीगुरुरामचन्द्र इति यो राशजते क्ष्मातले ॥ ३॥
योऽमूढोऽपिच मूढवत्खलु नटत्येवं श्रुतीच्छावदन्
सङगोनास्ति तथैव राग इति वा द्वेषादिकं यस्य नो ।
योऽविद्यावशजीविनां स्वविमलं रूपं करोति ध्रुवं
सोऽयं श्रीगुरुरामचन्द्र इति यो राराजते क्ष्मातले ॥ ४॥
हित्वाहङकृ तिमप्यहो पुनरिदं जीवेशबन्धादिकं
मायाशक्तिविभावितं जगदिदं चाप्नोति यन्मानवः ।
सच्चित्सौख्यमपारमद्वयपदं यद्ब्रह्म सर्वात्मकं
सोऽयं श्रीगुरुरामचन्द्र इति यो राराजते क्ष्मातले ॥ ५॥
य इदं पठति स्तोत्रं भक्त्या श्रीरामपञचकम् ।
भक्तिज्ञानविरक्त्याद्या लब्ध्वाऽसौ धन्यतामियात् ॥
इति श्रीरामचन्द्रपञ्चकं सम्पूर्णम ॥
Encoded and proofread by Sonali Upendra Dasare