श्रीरामचन्द्रस्तोत्रम्
%४०
श्री रामचन्द्रः सहितास्ततन्द्रः ॐ कारवच्योऽवतु मां सुभद्रः ।
रा जाधिराजोऽखिललोकभर्ता न तावनात्तव्रत आधिहर्ता ॥ १॥
म हामहिम्ने परमार्थधाम्ने मो हान्तकायाद्य नमोऽस्तु भूम्ने ।
ज गद्धितायात्तसुविग्रहाय भ क्तेष्टदायाहितनिग्रहाय ॥ २॥
य ज्ञेश्वरायाखिलधर्मगोप्त्रे ग तिप्रदायासुरदुष्टहन्त्रे ।
रा म प्रसीदाखिलतापहारिन् व रेण्य कारुण्यनिधेऽपहारिन् ॥ ३॥
म मापराधानखिलान्क्षमस्व ते जोमय श्रीश विभो दयस्व ।
ज न्मादिहेतोः कृतभूरिमन्तोर् द त्ताभय त्वं परमा गतिर्मे ॥ ४॥
य मादियोगं न च यागमाप त्ता पघ्न जाने विहितार्थभोगम् ।
ज गन्निवासेश्वर मामवाद्य त्रे धाद्यतापान् हर मे भवाद्य ॥ ५॥
य शःप्रपूर्णं श्रवणं कुरुष्व या याद्गतिं येन खलोऽपि सद्यः ।
रा गादिविद्धोऽपि तमर्पयाद्य य तीश सत्सङ्गमजानवद्य ॥ ६॥
म हाघकर्ता हि तवेक्षणेन यायाद्विमुकिन्त परमक्षणेन ।
सीतापते तेऽस्तु नमः प्रसीद प्रसीदरामाखिलद प्रसीद ॥ ७॥
कौसल्यालसदालवालजनितः सीतालतालिङ्गितः
सिक्तः पङ्क्तिरथेन सोदरमहाशाखाभिरभ्युन्नतः ।
रक्षस्तीक्ष्णनिदाघपाटनपटुच्छायाश्रितानन्दकृ-
द्युष्मद्वाञ्छितसत्फलानि फलतु श्रीरामकल्पद्रुमः ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीरामचन्द्रस्तोत्रं सम्पूर्णम् ।