श्रीरामचिन्तामणिप्रश्नः

श्रीरामचिन्तामणिप्रश्नः

॥ श्रीः ॥ अकारे पुत्रलाभाय सर्वलाभस्तथैव च । सर्वलाभसमृद्धिश्च सन्तानफलमुत्तमम् ॥ १॥ आकारे पलितासिद्धिः पलितं पतिशोभनम् । सर्वकार्यसमृद्धिं च आकारेण शुभं भवेत् ॥ २॥ इकारे शोकतापं च योगेभ्यो(मित्र)बान्धवः । सर्वकार्य विनाशं च वृत्तिहानिर्भविष्यति ॥ ३॥ ईकारे पुत्रलाभं च तथा ऐश्वर्यमेव च । प्रमाणसर्वसिद्धिस्तु सौख्यं वापि ध्रुवं भवेत् ॥ ४॥ उकारे सर्वसिद्धिस्तु शोभनं शीघ्रमेव च । आयुष्यं च जयं सौख्यं उकारे शोभनं भवेत् ॥ ५॥ ऊकारे शोकसन्तापं कलहं प्रतिशिष्यति । दुःखप्राप्तिमहाकार्या ऊकारे वानिशं भवेत् ॥ ६॥ ऋकारे च शुभं नित्यं शुभावस्य च सम्पदः । चित्तानन्दं कार्यसिद्धिः शुभं भवति निश्चयः ॥ ७॥ ॠकारे हृदयक्लेशमर्थहानिश्च जायते । सर्वकार्यविनाशाय मनस्तापं च विभ्रमम् ॥ ८॥ (विभ्रमः) ऌकारे पुत्रलाभश्च भ्रात्रा च परिणं गमः । अतिशीघ्रं शुभञ्चैव सर्वलाभो भविष्यति ॥ ९॥ ॡकारे जनचित्तं च महाव्याधिर्भविष्यति । सर्वकार्यविनाशाय अर्थहानिश्च जायते ॥ १०॥ एकारे दृश्यते लाभं द्रव्यलाभं भविष्यति । कल्याणं पुत्रलाभं च आरोग्यं सुखमेव च ॥ ११॥ ऐकारेण विनाशः च पुत्रेण च विरोधनम् । अन्यस्थ चिन्तितं कार्यं सर्वमेव भविष्यति ॥ १२॥ ओकारेऽर्थप्राप्तिश्च अर्थलाभं भविष्यति । मनोवाञ्छितकल्याणं पुत्रमित्रसमागमम् ॥ १३॥ औकारे अरिनाशश्च दुःखं कलहमेव च । प्रारम्भेषु च कल्याणं तत्सर्वं निष्फलं भवेत् ॥ १४॥ अंकारे सम्पदं बुद्धिस्सुखं सन्तोषमेव च । अर्थं च रूपिणं योगिसेवयैव न संशयः । १५॥ अःकारेणैव कार्याणि कलहं दुःखमेव च । विनाशं च मनस्तापं पुत्रहानिश्च जायते ॥ १६॥ ककारे विजयं राज्यं पुत्रलाभं शुभावहम् । सर्वकार्याणि सिद्धिं च ककारे विनिवेशयेत् ॥ १७॥ खकारे बहुदुःखाय धर्महानिस्तथैव च । सर्वरोगमवाप्नोति दारिद्र्यं च पुनः पुनः ॥ १८॥ गकारे शोभनं कार्यं सर्वकार्यं बलाबलम् । पुत्रलाभं भवेत्तस्य सर्वान् कामानवाप्नुयात् ॥ १९॥ घकारे दृश्यते बोधं कार्यसिद्धिं च जायते । सर्वकार्यशुभं राज्यं कल्याणं नो च निश्चयम् ॥ २०॥ ङकारे धनसम्पत्तिमर्प्यते धनमेव च । बन्धनं अवमानं च कार्यहानिर्भविष्यति ॥ २१॥ चकारे विजयं राज्यं शुभं सम्पत्सुशोभनम् । अर्थलाभं महासौख्यं पुत्रलाभं च जायते ॥ २२॥ छकारे जयसंयुक्तं राजसी परिभाविका । सौभाग्यं सुखमायुष्यं लोकपूजास्वभावकम् ॥ २३॥ जकारे स्वसृलाभाय शोकरोगं भविष्यति । पितरं चावमानेन जायते कलहं भवेत् ॥ २४॥ झकारे दृश्यते लाभं सर्वं स परिपूर्णता । दीर्घायुः पुत्रलाभं च आरोग्यं क्षेममेव च ॥ २५॥ ञकारे शोकक्लेशं च आधिर्व्याधिर्भविष्यति । बहुदुःखमनस्तापं जायते नात्र संशयः ॥ २६॥ टकारे दृश्यते लाभं बन्धुश्चैव समागमम् । धनधान्यसमृद्धिं च सुखं भवति निश्चयम् ॥ २७॥ ठकारे पूर्णकुम्भं च शोभनं च भविष्यति । आरोग्यमर्थलाभं च पुत्रवृद्धिं च जायते ॥ २८॥ डकारे दृश्यते लाभं दीर्घमायुष्यवर्धनम् । निर्विघ्नक्षेममायुष्यं सुखं भवति निश्चयम् ॥ २९॥ ढकारे सर्वसौख्यं च आरोग्यं शोभनं तथा । प्रयाणे सर्वकार्यं स्युः यदि शत्रुजयं तथा ॥ ३०॥ णकारेण फलं नित्यं आयुर्वृद्धिं च जायते । सर्वकामानवाप्नोति सुखं भवति निश्चयम् ॥ ३१॥ तकारे दीर्घमायुष्यं क्षेमं च सुतदारिकम् । आरोग्यं अर्थलाभं च पुत्रवृद्धिं च जायते ॥ ३२॥ थकारे नास्ति बुद्धिं च चिद्दुःखं तथैव च । नश्यन्ति सर्वकार्याणि कार्यसिद्धिर्भविष्यति ॥ ३३॥ दकारे विजयं राज्यं धनलाभं तथैव च । पुत्रक्षेमं च कार्याणि सिद्धिर्भवति निश्चयः ॥ ३४॥ धकारे धनधान्यं च सर्वलाभं तथैव च । पुत्रलाभं च योग्यं च धकारैको विनिर्दिशेत् ॥ ३५॥ नकारे अर्थहीनं च आयुर्हानिं च जायते । चित्तरोगमवाप्नोति नात्र श्रीः विनिर्दिशेत् ॥ ३६॥ पकारे दृश्यते सर्वं धनहानिं च जायते । व्याकुलं सर्वदुःखं च सर्वं सुखविनाशनम् ॥ ३७॥ फकारे किञ्चित् सौभाग्यं बन्धुश्चैव समागमम् । पितृप्रियं च कार्याणि सर्वं शीघ्रफलप्रदम् ॥ ३८॥ बकारे नास्तिलाभाय अर्थहानिं च जायते । मनोव्याधिं च कल्याणि मनोव्याधिं च निष्फलम् ॥ ३९॥ भकारे दृश्यते भद्रं बन्धूजन समागमम् । सर्वकार्याणि सिध्यन्ति बृहत्कार्यं भविष्यति ॥ ४०॥ (बृहत्कार्यं वतीभुवि) मकारे दुःखसन्तापं रोगहानिश्च जायते । गमने बन्धुनाशाय चिन्तयेव भविष्यति ॥ ४१॥ यकारे तु फलं वित्तं दृश्यते यस्व तत्फलम् । फलं च लभते दृश्यते वा - - सुसम्पदा ॥ ४२॥ रकारे व्याहते पीडा न कार्यसफलं भवेत् । पुत्रहानिर्भवेन्नित्यं द्रव्यहानिं च जायते ॥ ४३॥ लकारे दृश्यते पूर्वयद्दुःखज समागमम् । महद्भिश्चैव कार्याणि दृश्यते अस्य सम्पदा ॥ ४४॥ वकारे शुभदं कार्यं प्राप्यते भद्रमन्त्रकः । राजतं (त्वथ)वा शुभ्रं दीर्घायुष्यसिद्धिदम् ॥ ४५॥ शकारे शयनं यानं वस्तुवाहनमेव च । राज्यं शुद्धान्न सङ्काशं शुभं चैव भविष्यति ॥ ४६॥ षकारे सर्वकार्याणि धनधान्यं तथैव च । कुलं च सर्वकार्याणि दृश्यते सर्वपारगैः ॥ ४७॥ सकारेऽत्र पणं चैव श्रवणं च प्रभावतम् । वस्तुलाभं विवाहं च पुत्रलाभं च जायते ॥ ४८॥ हकारे ध्यानमाप्नोति वित्तसम्प्राप्यवाहनम् । आरोग्यं व्याधिनाशाय लभते नात्र संशयः ॥ ४९॥ ळकारे अर्थहानिं च आयुर्दुःखानि जायते । चित्तरोगमवाप्नोति ळकारे नो विनिर्दिशेत् ॥ ५०॥ ॥ इति श्रीरामचिन्तामणिप्रश्नशास्त्रं समाप्तम् ॥ Notes: Here are 50 verses each starting with a letter in Sanskrit alphabets. It is an anonymous Jyotiṣa work published in The Journal of the Thanjavur Sarasvati Mahal Library, volume 47. RamachintamaniPrashna looks to be similar to Rama Ajnaa Prashna of Goswami Tulsidas. In this method, the querent thinks of a Prashna (question) and he selects a particular alphabet from probably a grid or similar, after praying to Lord Rama. For each alphabet, a chaupai is somehow determined from Ramacharitamanas. The RamaChintamaniPrashna looks similar. The querent will possibly identify an alphabet and the specific couplet from this text will give the answer andor direction.  Additionl information in Tamil is available in the referenced link. Encoded and proofread by Meera Iyer
% Text title            : Ramachintamani Prashnah
% File name             : rAmachintAmaNiprashnaH.itx
% itxtitle              : rAmachintAmaNiprashnaH
% engtitle              : rAmachintAmaNiprashnaH
% Category              : raama, rAma
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Meera Iyer
% Proofread by          : Meera Iyer
% Indexextra            : (Scan)
% Latest update         : October 28, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org