श्रीरामकर्णामृतम् २

श्रीरामकर्णामृतम् २

दिशतु स कुशलं जिते दशास्ये विधिविहितस्तुतिवेदितस्वरूपः । उपदिशति शिवो नृणां यदीयं मनुमविमुक्तपुरे विमुक्तिहेतोः ॥ १॥ विहितविधिमपास्यता निषिद्धा- न्यपि चरताप्यकृताक्षनिग्रहेण । यदघमुपचितं मया यतिष्ये रघुवरसंस्मरणेन तन्निमार्ष्टुम् ॥ २॥ चिरपरिचितया मनो विकृष्टं दिशि दिशि वासनया न मे नियाम्यम् । इति कवनपथे तवार्य राम स्मरणविधावनघे करोम्युपायान् ॥ ३॥ प्रकृतिरिति सरस्वतीति लक्ष्मी- रिति गिरिजेति जगत्त्रयीति वा याम् । गदति मुनिगणः कवित्वसिद्ध्यै कथमपि तां कलये विदेहकन्याम् ॥ ४॥ मधुरभणितये पतिव्रतानां मकुटमणिं कलये महीकुमारीम् । पतिकृतरिपुपातनप्रतिज्ञा- दलनभयादहितेऽप्यदत्तशापाम् ॥ ५॥ हृदय विषयमेव सेवसे किं यदयमुदग्रविषोपमः क्रमेण । मदयति च निहन्ति च प्रकामं तदयनमेत्य गिरा भजस्व रामम् ॥ ६॥ रघुवरचरणारविन्दभक्ति- च्छलमकरन्दनिरन्तराभिषिक्ताः । वकुलपरिमला गिरो मदीयाः कविकुलकर्णरसायनानि सन्तु ॥ ७॥ भरतविदितपादुकाप्रभावं धरतनुजारमणीयनामधेयम् । करतलधृतकार्मुकं पुमांसं मरतकनीलशरीरमाश्रयामः ॥ ८॥ निटिलनयननिर्वृतिप्रदाख्यं कुटिलनिशाचरकुम्भिनां मृगेन्द्रम् । कटिलसदसिमम्बुदाभमेकं जटिलमुरीकृतचापबाणमीडे ॥ ९॥ निलयमखिलमङ्गलस्य रक्षो- बलयवसप्रबलानिलायितास्त्रम् । कलयति हृदयं विदेहकन्या वलयपदाङ्कितकन्धरं पुमांसम् ॥ १०॥ विमोहयति विष्टपत्रयजनान् गुणारोपण- क्षणत्रुटितचण्डिकारमणचापचण्डध्वनिं (ध्वनौ) । जयत्यसकृदुन्मिषत्पुलकयोरपेतत्रपं परपस्परनिरीक्षणं रघुवरक्षमाकन्ययोः ॥ ११॥ करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधे- र्निबन्धनमपीन्धन ? ? बन्धुतूणीशयम् । न कश्चिदपि दृश्यते जगति यस्य शक्तो जये स्मरप्रहितजानकीनयनपद्मवाणं विना ॥ १२॥ क एष दलदुत्पलद्युतिरुदारवेषोज्ज्वलः स्वयं विशति मे मनस्त्वरितमाः परिज्ञायते । स एष ननु जानकीकुचतटीपटीरद्रव- प्रसक्तरसवासनाघुमुघुमायमानः प्रभुः ॥ १३॥ भजे शरधनुर्धरं विकटचित्रकूटाटवी- चरं कमपि शङ्करप्रणयिनीप्रियाख्यं प्रभुम् । स्फुटं कलितकुङ्कुमा वदति यस्य वक्षस्तटी मृगेन्द्ररसितत्रसज्जनकजाहठालिङ्गनम् ॥ १४॥ चिराय विधुरस्य मे विषयघर्मघोरातपैः पयोदनिचयोदयप्रतिनिधिः किलेयं दशा । नराघमुषि राघवे यदधुना मनः प्रीयते समस्तसुरमस्तकप्रणतिकर्मणि ब्रह्मणि ॥ १५॥ कटीघटितवल्कलं घनलसज्जटामण्डलं करात्तशरकार्मुकं कमलपत्रमित्रेक्षणम् । तमालदलमेचकं धरणिकन्यकाकामुकं तरङ्गितकृपारसं तरणिवंशदीपं भजे ॥ १६॥ अचोदितकुलक्रमं पुनरपृष्टजातिक्रियं नयानयविचारणाविधुरमस्तशङ्काकणम् । उपेयुषि विभीषणे झटिति दत्तमस्याभयं मयेति समुदीरिता भगवतो गिरः पातु नः ॥ १७॥ कल्हाराम्बुजगन्धिमन्दपवने खेलन्मृगालङ्कृते कूजत्कोकिलबालचूतगहने कूले सरय्वाः शुभे । पश्यान्वेति शुकं शुकीति चिबुके गृह्णन् करेण प्रियां चित्ते भाति हि कोऽपि मे दशशिरोमत्तेभकण्ठीरवः ॥ १८॥ कूजत्केकिनि चित्रकूटकटके गोदावरीमेदुरे प्रत्यग्रप्रसवस्य केसरतरोः प्रच्छायशीते तले । कौशेयास्तरणे विदेहदुहितुः कुर्वाणमङ्के शिरो नीलाम्भोदनिभं भजे रघुकुलप्राचीनभाग्यं प्रभुम् ॥ १९॥ त्रस्तप्रस्थितहंसयूथमभितो नृत्यन्मयूरव्रजं वल्मीकान्तरसंप्रविष्टभुजगं पङ्क्तीभवच्चातकम् । पुष्प्यन्नीपसिलीन्ध्रकेतकजनस्थानाटवीमेयुषा कालिम्ना मम केनचित् कवचितं चेतो विराधद्विषः ॥ २०॥ संरम्भस्खलितोत्तरीयमवनिन्यस्ताग्रपादाम्बुजा- वुद्यम्य श्लथनीवि पुष्पनिचयं सङ्गृह्णतीं जानकीम् । पश्यन् पञ्चवटीवने मुहुरपि प्रच्छन्न एवान्तिके हस्तोपात्तधनुश्शरः स्फुरति मे चित्ते रघुग्रामणीः ॥ २१॥ निर्वृत्ते खरदूषणत्रिशिरसामुन्मा(मू)लनादाहवे वैदेही परिषस्वजे सपदि यं मूर्ता जयश्रीरिव । उन्मीलत्पुलकश्रमाम्भसि धनुर्न्यस्तैकहस्ताम्बुजे तस्मिन् सस्मितवक्त्रचन्द्रमसि मे देवे मनो धावति ॥ २२॥ पायात् पर्णकुटीगतो घनघटासिक्तावनीसौरभ- घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले । केकाकण्ठशिखण्डिताण्डवपदे खेलत्पुरोमारुते नन्दन् प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३॥ अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित- ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् । दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरे कन्दर्पादपि सुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४॥ चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्वणन्नूपुरं चञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् । कान्तव्याघ्रनखानुबन्धिकनकग्रैवेयकालङ्कृतं कौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५॥ दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहे गुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन् समौ जानुनी । दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलं पश्यन् बाणमृजुं न वेति हृदि मे वीरोऽयमारोहति ॥ २६॥ उन्मीलन्नवमञ्जरीपरिमलोदञ्चद्द्विरेफारवै- रारण्ये तुलसीवने मुखरितेऽदृश्यं शुकश्यामले । शश्वल्लीनमधीरदृग्वलयया शश्वद्गृहीतं बला- ज्जानक्या सह चित्रकूटकटके देवं मनो ध्यायति ॥ २७॥ सीतादत्तकराम्बुजं पदयुगश्लिष्यन्मणीपादुकं हर्षावेक्षिविहारबर्ह्यपसृताभ्यर्णं घटोध्न्या गवा । स्वामिन् देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणं साकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८॥ पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये बिभ्रतीं वामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् । पश्यन् कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनया मन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढः प्रभुः ॥ २९॥ शैलान्मत्तोऽवतरति करिर्ज्यास्वनैर्वारय त्वं सौमित्रे मा भवतु चकिता जानकीति प्रहिण्वन् । तज्ज्याघोषं मृगपतिरवं व्याहरन् वेपिताङ्ग्या गाढाश्लिष्टो जनकसुतया कौसलेयोऽवतान्नः ॥ ३०॥ हंसी मन्दं चरति हरिणी वीक्षते लोललोलं रस्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ । इत्याश्चर्याद्वनभुवि वधूं दर्शयन्तीं यदि त्वां पश्याम्येतैरलमिति वदन् पातु नः कौसलेयः ॥ ३१॥ देव त्वां रघुवीर नीरदनिभं सीतातटित्सङ्गतं कारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव । किं नृत्यन्ति न चातका इव परे किं वा न माद्यन्त्यतः स्वामिन् पालय पालयेत्यहमपि क्रोशामि मण्डूकवत् ॥ ३२॥ खेलत्केकिनि सञ्चरन् मृगशिशौ चूतस्फुरद्वल्कले नीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे । सीतां पुष्पसमित्कुशं हृतवतीं सम्भावयन्तं दृशा बद्धस्वस्तिकमेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३॥ संप्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिः संक्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् । मृष्टा नेह मनश्शिलेति विसृतां रत्नाङ्गुलीयश्रियं वैदेहीं प्रति दर्शयन् हृदि कृतव्याजो विभुः पातु नः ॥ ३४॥ श्लथकचभरान्नैतद्भूमौ निपातय सुन्दरी- त्युदितहसितं सव्रीडाया महीदुहितुर्दिशन् । वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकं१ दिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५॥ Footnote १. गर्भकः = शिरोवृतपुष्पगुञ्जा दलितदनुजाटोपे चापाधिरोपितसायके मरतकमणिच्छायादायाददायिमहोभरे । प्रणतजनताप्राणत्राणप्रवीणपराक्रमे स्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६॥ अविदितनतक्लेशानीशानपास्य दिशामहो सह परिहरत् कालीकेलीसखं मुरलीभृता । वनमृगपरीवारे वीरे वरेण्यधनुर्धरे कुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७॥ स्फटिकधवलान्मेघश्यामे गृहीतमृगानलात् धृतधनुरिषौ भूतेशानात् प्लवङ्गमसेविते । मतिरवतरत्यात्तव्याघ्राजिनाद्धृतवल्कले शिखरितनयानाथात् पृथ्वीसुतापरिणेतरि ॥ ३८॥ स्वच्छन्दं व्रजसुन्दरीजनविटाद्बद्धैकदारव्रते लीलावेणुलसत्करात् त्रिभुवनत्राणाय चापस्पृशि । चोराकृष्टवधूजनात् परिणतो कीटादिमुक्तिप्रदे व्यावृत्तं मम यादवाद्रघुपतौ चेतः स्वयं धावति ॥ ३१॥ कश्चिद्बालो मृत्तिकां भक्षयित्वा कश्चिद्वृद्धश्चूतमूले लुठित्वा । मां रक्षेच्चेन्मास्तु तद्यन्ममास्ते त्राता सीताकलिलोलो युवैकः ॥ ४०॥ अभिमतफलसिद्ध्यै ध्यातुमेकं सुराणां अनुसरति मनो मे यावदाबद्धमेकम् । अपहरति निरुन्धन्नन्तरा तावदेतत् कपिकुलपरिवारः कश्चिदम्भोदनीलः ॥ ४१॥ क्षणचलितनिरूढस्वर्णदीकर्णभूषे परिहृतमयकन्यापत्रलेखप्रसङ्गे । विरचितसुरसुभ्रूविभ्रमप्रातिभाव्ये कुतुकितमतिभव्ये क्वापि कालिम्रि चेतः ॥ ४२॥ कचभरनिटिलभ्रूकर्णदृङ्नासिकोष्ठ- स्तनजघननितम्बं पश्यदन्याङ्गनानाम् । मलिनयति मनश्चेन्मन्मथस्तावता किं विमलयितुमहल्यापावनोऽप्यस्ति वीरः ॥ ४३॥ नवकुवलयदामश्यामलः कोमलाङ्ग्या विरचितमधुरश्रीरेकया विद्युतेव । जलधर इव काले जृम्भमाणो मयूरं कुतुकयति मनो मे कोऽपि कोदण्डभूषः ॥ ४४॥ मनसि मम समिन्धे पुण्यभाजामवेक्ष्यः कपिसदसि मुनीनां चेतसास्वादनीयः । जनकनृपतिकन्यासस्पृहालिङ्गनार्हः श्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५॥ कुवलयदलनीलः कोऽपि रक्षोवधूनां कुचगिरिषु निपातं वाष्पवृष्टेर्विधाता । निखिलभुवनचेतोबर्हिनृत्तैकहेतुः शमयति मम तापं शार्ङ्गवानम्बुवाहः ॥ ४६॥ निगमशिखरिश‍ृङ्गान्नित्यमागत्य खेल- न्मुनिजनहृदरण्ये मोहसारङ्गमुक्ते । दशवदनगजेन्द्रे दर्शिताघातलीलो वशयति रघुसिंहो मानसं नः प्रसन्नः ॥ ४७॥ करयोः शरकार्मुकाभिरामं पदयोरश्मविवेककृप्तरागम् । कलितेषुधिमंसयोः प्रभुं तं करुणापूर्णमपाङ्गयोरुपासे ॥ ४८॥ अवलम्ब्य शरासमद्रिसारं गुणमाकृष्य धनध्वनिं विमुञ्चन् । विशिखानहितेषु रुक्मपुङ्खान् विहरत्याहवसीम्नि वीररामः ॥ ४९॥ चरमाङ्गनिबद्धचारुतूणं सुरमाङ्गल्यधुरीणचापबाणम् । अलिनीलमुपैति मानसं मे नलिनीनायकवंशभागधेयम् ॥ ५०॥ दृशि कारुणिकः करे धनुष्मान् कुशिकापत्यमखस्य रक्षिता यः । रजनीचरतूलचण्डवातो भजनीयो मम सोऽयमेक एव ॥ ५१॥ नवनीरदनीलमात्तचापं भवनीहाररविं श‍ृणोति लोकः । अवनीतनयासखं जगत्या स्तवनीयं मम दैवमेकमेव ॥ ५२॥ भरिता दयया दृशोः सुराणां परितापक्षतये गृहीतचापा । दुरितानि धुनोतु कापि लीला- च्छुरिता भूमिसुताकुचाङ्गरागैः ॥ ५३॥ सुरचारणसिद्धबद्धसेवः शरचापाभरणो नवाम्बुदश्रीः । अहिमांशुकुलार्णवेन्दुरेको महिमान्तःकरणे ममाविरस्तु ॥ ५४॥ धनुषा सह सायकं दधाने जनुषा भूषितचण्डरश्मिवंशे । कुचनम्रमहीसुतानुरक्ते क्वचन न्यस्तमिदं महिम्नि चेतः ॥ ५५॥ भयकम्पितसागरप्रशस्ते मयकन्यातनुमण्डनासहिष्णौ । नवगारुडरत्नभासुरे स्या- दवगाढं हृदयं क्वचित् प्रभौ मे ॥ ५६॥ निजनामरसज्ञनीलकण्ठं भजनाय प्लवगावृतोपकण्ठम् । बलयन्त्रितसिन्धुमन्तरेकं कलयन्नन्यमुपासितुं यते कम् ॥ ५७॥ विकटभ्रुकुटीन् विलोकतेऽरीन् विशिखान् मुञ्चति विग्रहान् बिभर्ति । अनुलिम्पति शोणितैर्धरित्रीं रणरङ्गे रघुपुङ्गवः समिन्धे (? ) ॥ ५८॥ स्मयमानमुखेन्दुरिन्द्रनील- द्युतिरम्भोजदलेक्षणो धनुष्मान् । तरलीकृतजानकीदृगन्त- स्तरुणः कश्चन मे मनो धिनोति(धुनोति) ॥ ५९॥ दलदुत्पलदामकोमलाङ्गी दशकण्ठायुरपायकालभङ्गी । मनसे मम रोचतेऽभिरूपा करुणा काचिदुपात्तबाणचापा ॥ ६०॥ मौलौ निधेहि मकुटं त्यज बर्हिगर्हं बाणं गृहाण धनुषा सह मुञ्च वेणुम् । शाखामृगैर्विहर सन्त्यज गोपबालान् रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१॥ कृष्णैकसूतरथकेतनभूतदूत आनूरुसारथिरथात्मजमित्रभूतः । पाणीश ? ? रथस्य शरासभूतः कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२॥ दृप्यद्दशाननकलत्रकठोरगर्भ- विभ्रंशविभ्रमपरिस्फुटसाहसेन । घण्टा विलुण्ठयतु नः कलुषं रवेण कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३॥ देवद्विषां विजयदेहभृतां शरण्यं कारुण्यभूषितकटाक्षमुदग्रचापम् । टङ्कत्रुटन्मरतकोपलरत्ननील- धाम स्मरामि धरणीतनयासहायम् ॥ ६४॥ आस्ते कृतान्त इति पापिषु दण्डधारी- त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः । रक्षिष्यतीति रघुनन्दनमेव साक्षा- द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५॥ तिष्ठन्तु दारुणतरा निरयाः सहस्रं तिष्ठन्तु घोरचरिता यमकिङ्करा वा । पापात्मनोऽपि नियतं परिपालनाय कोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६॥ लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः । दृष्टा वत्सलया दृशा रघुपतेः पुत्रा इव प्रत्यहं प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७॥ सौवर्णीमवसक्थिकामधिवसन् पार्श्वस्थपृथ्वीसुता हस्ताम्भोजयुगक्रमप्रसृतया जातिस्रजा दीर्घया । पाणिभ्यामपि वेष्टयन् कचभरं मौल्येकपार्श्वो चितं देवो मे हृदि भाति दत्तनयनो दृश्ये तदेकस्तने ॥ ६८॥ स्वप्नदृष्टं श्लोकान्तरं-- चापसंहितशरं चरमाङ्गे बद्धतूणमुपनीविकृपाणम् । वञ्चनामृगवधाय वनान्ते सञ्चरन्तमिममन्तरुपासे ॥ ६९॥ कोणपाधिपकदर्यितामरी- काङ्क्षितप्रणयिबाणकार्मुकम् । कञ्चन श्रुतिकरण्डमौक्तिकं कालिमानमवलोकयामहे ॥ ७०॥ जानकीस्तनतटैकपालिका- जातकुङ्कुमविभागपिञ्जरः । दृश्यते हृदि दयाधुरन्धरः कोऽपि कोसलकुलीनकुञ्जरः ॥ ७१॥ मामके हृदि महीकुमारिका कामकेलिकुतुकी नृपात्मजः । ? ? पदमस्त्रबन्धुरो नूतनोदयपयोदसुन्दरः ॥ ७२॥ चन्द्रशेखरशरासनच्छिदा चातुरीचणकरारविन्दया । स्वीकृतं मम सुरानुकूलया ? ? भ्रनीलया ॥ ७३॥ कौणपालिकदलीविषाणिना बाणचापपरिकर्मपाणिना । चण्डिकारमणचापखण्डने पण्डितेन मम मण्डितं मनः ॥ ७४॥ तुन्नकीर्णकुटिलक्षपाचरे कृत्रिमेतरगिरामगोचरे । धावते हि कुलदेवतेति मे चित्तमेवमिदमुत्तमे नृणाम् ॥ ७५॥ कालिकानिभरुचिः कनीयसा कान्तया च सह कल्पितासिका । कार्मुकाशुगलसत्कराम्बुजा काचिदस्ति करुणा गतिर्मम ॥ ७६॥ मामके मनसि धान्यमालिनी- भूषणासहभुजोष्मशालिनी । सा चकास्ति शरचापधारिणी भालुमालिकुलभाग्यधारिणी ॥ ७७॥ याति तेजसि मनः सनातने दूतभूषितकिरीटिकेतने । यामिनीचरचमूभयङ्करे जानकीनयनकेलिकिङ्करे ॥ ७८॥ चक्रमानुकृतगन्धसिन्धुरा सिन्धुराजकृतसेतुबन्धना । वासनाधृतशरासनाशुगा मेचका मनसि मे चकास्ति सा ॥ ७९॥ वानरक्षपितराक्षसव्रजं दीनरक्षणविचक्षणं प्रभुम् । श्रीमदग्र्यशरचापमेति मे जामदग्न्यमदनिग्रहं मनः ॥ ८०॥ कण्ठेकालशरासखण्डनचणं कल्याणनानागुणं कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् । पाणिद्वन्द्वगृहीतबाणधनुषं पाथोदनीलत्विषं पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१॥ कुवलयदलनीलश्रीभृतां भूकुमारी- कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् । दशमुखभुजतेजोदर्पतूलानिलानां दशरथसुकृतानां दासभावं भजामः ॥ ८२॥ करधृतशरचापः कान्तिमत्पङ्कजाक्षो निहितशरधिरंसे नीरदस्निग्धनीलः । वनमृगपरिवारो वन्दनीयो मुनीनां मदयति हृदयं मे मैथिलीप्राणनाथः ॥ ८३॥ मघवदुपलनीले मण्डलीकृत्य चापं मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् । रणधरणिरजोभिर्धूसरे वासरेश- प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८४॥ शुभगुणकलकण्ठस्तोममाकन्दशाखा- नियमिनिवहचेतोनीलकण्ठाभ्ररेखा । दशवदनवधूटीचक्रवाकीत्रियामा जनयति कुतुकं मे जानकीप्रेमसीमा ॥ ८५॥ तारुण्यदर्पतरलीकृतगोपकन्या दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् । काकुत्स्थवीर कमलानयनाभिरामं गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८६॥ कल्याणमावहतु दाशरथेः कटाक्षः शाखामृगे शतमखादपि सानुकम्पः । आभाति भूमितनयाधरबिम्बलोभ- सम्पातसङ्क्रमितलाक्ष इवारुणो यः ॥ ८७॥ (रामं सुन्दरतया महालक्ष्मीश्चकमे इति पुराणे कथानुसन्धेया।) स कश्चन गिरीन्द्रजासखशरासनव्रश्चको मनो हरति मामकं मरतकोपलश्यामलः । धनुश्शरलसत्करो धरणिकन्यकाप्रेमभू- र्धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८८॥ धन्या वयं धरणिकन्यकया सनाथे नाथे स्थिते जगति नः परिपालनाय । यश्शीलितो यतिभिरात्मनि निष्कलङ्के लङ्केश्वरं लवितुमाप मनुष्यरूपम् ॥ ८९॥ दीनानुकम्पि दिवसेश्वरवंशरत्नं कर्तृव्यपेतवचसां कथमप्युपेयम् । तापिञ्छनीलरुचि तामरसायताक्षं चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९०॥ आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् । पश्यामि हृदयकमले रामं दूर्वादलश्याम(ल)म् ॥ ९१॥ मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रमणिनीले । महिमनि महीकुमारीकुचकुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९२॥ जगदघहरप्रशंसे जनकसुतावलयपदविलसदंसे । निगमान्तनलिनहंसे रमते मम हृदयं रविकुलवतंसे ॥ ९३॥ सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् । कमपि दलितमयकन्यामङ्गलमालिङ्गति मनो मे ॥ ९४॥ विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् । निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५॥ गिरिशधनुस्तरुकरिणं गलितभृगुप्रवरगर्वसर्वस्वम् । कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९६॥ कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः । कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९७॥ कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् । करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९८॥ दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे । धृतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ ९९॥ निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे । रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १००॥ इति श्रीरामकर्णामृतं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakarnamritam 2
% File name             : rAmakarNAmRRitam2.itx
% itxtitle              : rAmakarNAmRitam 2 rAmashatakam 2 (dishatu sa kushalaM jite dashAsye)
% engtitle              : rAmakarNAmRRitam 2
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org