रामप्रार्थना
भक्तास्ते धनमिति मया श्रुतं श्रुतेर्ननु राम
अतस्त्रातुमन्त्रानिशं यक्षीभूतं नाम ॥ दोहाछन्दः ।
राम रघूत्तम रावणकाल ! मयि प्रणते करुणां कुरु रङ्के
धर्मधनः सदयोऽसि समुद्धर मुञ्च न गामिह दुस्तरपङ्के
त्वां प्रणताप्तमृते जनमापदि पातुमलं जगतीश्वर कं के
त्वद्यशसा जित आधिमितो विधुरित्यपरेऽप्यहमेव न शङ्के
-इदं सवयाछन्दः
इति श्रीरामनन्दनमयूरेश्वरकृता रामप्रार्थना समाप्ता ।
Proofread by Rajesh Thyagarajan