श्रीरामसहस्रनामस्तोत्रम् ६
॥ श्रीः ॥
ध्यानम् -
नवलनलिननीलं लोकलीलाललामं
मदनमधुरमूर्तिं रत्नसिंहासनस्थम् ।
विलुलितवनमालं सीतया शोभमानं
स्मितमुखमभिरामं नौमि राकेशरामम् ॥ १॥
प्रेमोत्फुल्लमुखारविन्दमधुपं केशावलीसुन्दरं
सर्वाङ्गे प्रियया प्रसूनरचनाश्रृङ्गारलीलामयम् ।
हस्ते पङ्कजपुष्पगुच्छलसितं विद्युल्लतावीक्षणं
वैदेहीसहितं प्रमोदविपिने रामं व्रजन्तं भजे ॥ २॥
अरविन्दमकरन्दमिलिन्दमूर्तिं
कन्दर्पदर्पदमनं कमनीयकान्तिम् ।
श्रीजानकीवदनचन्द्रचकोररूपं
साकेतनाथमजितं सततं नमामि ॥ ३॥
अथ श्रीरामसहस्रनामप्रारम्भः ।
ॐ लीलावतारिणं पूर्णं ब्रह्म ब्रह्मादिवन्दितम् ।
शान्तं सनातनं कान्तं वन्दे संसारकारणम् ॥ १॥
रामं रघुवरं श्यामं राघवेन्द्रं रमापतिम् ।
रसानन्दं रमानन्दं वन्दे मङ्गलमन्दिरम् ॥ २॥
रामचन्द्रं चिदानन्दं रम्यं राजीवलोचनम् ।
सीतापतिं गतिं गम्यं वन्दे विश्वात्मविग्रहम् ॥ ३॥
रामबीजं जगद्बीजं रामदेवं रमाद्भुतम् ।
रघुनाथं मनोनाथं वन्दे राकेशशीतलम् ॥ ४॥
कोमलं कमलाकान्तं कोशलेशं कृपामयम् ।
कल्याणं करुणागारं वन्दे कैवल्यदायकम् ॥ ५॥
काकुत्स्थं कमलेशं च कौशल्यानन्दनं हरिम् ।
केशवं देवदेवेशं वन्दे कन्दर्पसुन्दरम् ॥ ६॥
जगदीशं जगन्नाथं जगन्नाटकनायकम् ।
जगत्सम्पुटरत्नं च वन्दे ज्योतिर्मयं विभुम् ॥ ७॥
योगदं जगदाधारं जानकीशं जगत्पतिम् ।
जगद्गुरुं जगद्वन्द्यं वन्दे योगीन्द्रजीवनम् ॥ ८॥
लीलामनोहरं बालं कौशल्यानन्दवर्धनम् ।
चापल्यवैभवं वन्दे क्रीडाचातुर्यसुन्दरम् ॥ ९॥
ललितं लक्ष्मणानन्दं शत्रुघ्नभरताग्रजम् ।
किशोरं भक्तहृच्चौरं वन्दे लीलाविलक्षणम् ॥ १०॥
धनुर्धरं हयारूढं वीरेन्द्रं लक्ष्यसुन्दरम् ।
विद्युत्पुञ्जप्रभं प्राप्यं वन्दे वीथीविहारिणम् ॥ ११॥
कीर्तिमन्तं कलारम्यं मायेशं कौतुकालयम् ।
केलिशीलमतृप्तं च वन्देऽहं पितृलालितम् ॥ १२॥
चक्रवर्तिकुमारं च सर्वेशं छद्मरूपिणम् ।
विश्वाश्रयं श्रियःप्रेष्ठं वन्दे दशरथात्मजम् ॥ १३॥
विश्वामित्रं विशालाक्षं विश्वामित्रेण याचितम् ।
विद्याघरं महासौम्यं वन्दे मञ्जुलभाषिणम् ॥ १४॥
अचित्तं चित्रकारं च चतुर्व्यूहं चतुर्भुजम् ।
चारुवेषं चिदात्मानं वन्दे चिन्ताविमोचनम् ॥ १५॥
ताटकात्रासनं त्राणं त्रैलोक्येशं त्रिविक्रमम् ।
तत्त्वाद्भुतं च तत्त्वेशं वन्दे त्रैलोक्यतारकम् ॥ १६॥
यज्ञरक्षणदक्षं च यज्ञभोक्तारमव्ययम् ।
सुबाहुसूदनं वन्दे मारीचमतिमन्थनम् ॥ १७॥
तरुणं तारणे दक्षं पूज्यं पतितपावनम् ।
अहल्योद्धारकं देवं वन्दे दीनार्त्तिदारणम् ॥ १८॥
ज्योतिर्मूर्तिं जगन्मूर्तिं जाह्नवीजन्मदायकम् ।
अजेयं सर्वविज्ञेयं वन्दे राजेन्द्रनन्दनम् ॥ १९॥
सीतास्वयंवरे वन्द्यं श्रीमन्तं श्रीसुधाम्बुधिम् ।
विदेहस्य मनश्चौरं वन्दे माधुर्यमन्दिरम् ॥ २०॥
सीतापुष्पवने मुग्धं सीतासौन्दर्यमोहितम् ।
सीतामुग्धिकरं दिव्यं वन्दे सौन्दर्यसागरम् ॥ २१॥
सीताप्रेमसुधातृप्तं सीतासीतांशुशिल्पनम् ।
दिव्यानन्दवनं वन्दे दिव्यमाल्यरलङ्कृतम् ॥ २२
काकपक्षधरं धीरं मिथिलादर्शकं कलम् ।
शतानन्दशतानन्दं वन्दे दीप्ताङ्गशालिनम् ॥ २३॥
मोदमूलं मनोमूलं महामन्मथमन्मथम् ।
मनोज्ञं मनसातीतं वन्दे संसाररञ्जनम् ॥ २४॥
भर्त्तारं भुवनाधारं धनुर्यज्ञे धनुर्धरम् ।
पुरुषं पुण्डरीकाक्षं वन्दे पुण्यं पुरातनम् ॥ २५॥
ब्रह्माण्डपालकं श्रीदं श्रीशं वीर्यवतां वरम् ।
ब्रह्माण्डमण्डनं वन्दे चण्डकोदण्डखण्डनम् ॥ २६॥
किशोरललितं नित्यं नीलेन्दीवरसुन्दरम् ।
तेजोमयं तपःपुञ्जं वन्दे कौशेयवाससम् ॥ २७॥
जानकीहृदयोल्लासं जानकीप्राणवल्लभम् ।
जगद्वीरेन्द्रविख्यातं वन्दे वीरं जगज्जयम् ॥ २८॥
जानकीहृदये हारं जयमालाविभूषितम् ।
सीताप्रेमसुधामग्नं वन्दे सीतामनोहरम् ॥ २९॥
नवदूर्वादलश्यामं कामं नीलमणिप्रभम् ।
पीताम्बरधरं वन्दे वनमालाविभूषितम् ॥ ३०॥
बिम्बाधरं सुधासिक्तं नासामुक्तामनोहरम् ।
दिव्याकृतिरसं वन्दे दिव्यालङ्कारभूषितम् ॥ ३१॥
पुष्पहासं सरोजाक्षं कैशोरामृतवर्षिणम् ।
कैशोराद्भुतमाधुर्यं वन्दे लावण्यनिर्झरम् ॥ ३२॥
बिभ्रन्नूपुरपादाब्जं मञ्जयं भूषणसुन्दरम् ।
रूपामृतधनं भूपं वन्दे चन्दनचर्चितम् ॥ ३३॥
भूषणाद्भुतशृङ्गारं रत्नरागैश्च रञ्जितम् ।
किरीटिनं सुधाकण्ठं वन्दे कौस्तुभधारिणम् ॥ ३४॥
विदेहहृदयानन्दं विदेहमहिषीप्रियम् ।
रूपरत्नं रसाक्रान्तं वन्दे ज्ञानतरोः फलम् ॥ ३५॥
सुबोधं क्रोधहन्तारं जितक्रोधं बृहद्बलम् ।
जामदग्न्यजितं वन्दे विष्णुं पूर्णावतारिणम् ॥ ३६॥
जामातरं विदेहस्य विवाहे मण्डपस्थितम् ।
सीतया शोभितं वन्दे मधुरं जानकीवरम् ॥ ३७॥
कामेशं कमनीयं च कौसल्याप्रेमलालितम् ।
अयोध्याप्रकृतिप्राणं वन्दे भद्र भवार्दनम् ॥ ३८॥
सीतासुधानिधिं स्निग्धं शीतांशुसदृशाननम् ।
सीताविहारिणं विज्ञं वन्दे सीतासुकोमलम् ॥ ३९॥
छविमूलं क्षमामूलं क्षीरनीरेशवासिनम् ।
सूक्ष्मं वेदमयं वन्दे निर्मानं सर्वनिस्पृहम् ॥ ४०॥
सर्वसद्गुणसम्पन्नं चक्रवर्तिमनोहरम् ।
मायापतिं त्रपाशीलं वन्दे देवर्षिवन्दितम् ॥ ४१॥
भूमानं भवभूमानं देवाधारं दयानिधिम् ।
सर्वदैकरसं वन्दे कानने गमनोत्सुकम् ॥ ४२॥
विजनं विजितात्मानं सत्यानन्दं सदात्मकम् ।
जानकीरत्नवारीशं वन्दे सर्वजगत्प्रियम् ॥ ४३॥
सत्याश्रयं च सत्याप्तं सुयानं वंशभूषणम् ।
सत्येशं सरलं वन्दे धर्मोद्धारार्थतत्परम् ॥ ४४॥
धर्मप्राणं धराधारं धर्माङ्गं धर्मवत्सलम् ।
धर्मालयं धर्मरूपं वन्दे धर्मधुरन्धरम् ॥ ४५॥
प्रजानाथं महानाथं निश्चलं पितृवत्सलम् ।
निषादसुहृदं वन्दे सुमन्तसुमतिप्रदम् ॥ ४६॥
परेशं परमोदारं चरणोदकदायकम् ।
निषादनिबिडानन्दं वन्दे भक्तपराजितम् ॥ ४७॥
गतद्वन्द्वं मुकुन्दं च प्रतिज्ञापरिपालकम् ।
भारद्वाजप्रियं वन्दे वाग्मिवाल्मीकिवन्दितम् ॥ ४८॥
कमलाकोमलाङ्गं च वल्कलाम्बरधारिणम् ।
जटाजूटधरं वन्दे चित्रकूटाद्रिचारिणम् ॥ ४९॥
कन्दमूलाशिनं केशं वनेशं वनवासिनम् ।
दिव्यकेलिनिधिं वन्दे ज्योतिष्पारं परात्परम् ॥ ५०॥
बन्धुप्रेमाणवे मग्नं भावेशं भरताश्रयम् ।
प्रेमाकुलं धुवं वन्दे प्रजेशं पादुकाप्रदम् ॥ ५१॥
सत्यात्मकं समं सर्वं समाधारं समावृतम् ।
वैराग्यविग्रहं वन्दे तापघ्नं च तपोनिधिम् ॥ ५२॥
स्रग्विणं छविपर्जन्यं किरातानां सुखप्रदम् ।
प्रेमावतारिणं वन्दे सानुक्रोशास्मितेक्षणम् ॥ ५३॥
कानने रममाणं च मन्दाकिन्यां विहारिणम् ।
नित्योत्सवं नवं वन्दे वैदेहीरागरञ्जितम् ॥ ५४॥
पुष्पवत्सुकुमारं च पुष्पशृङ्गारकारिणम् ।
श्रमितं पुष्पभारेण वन्दे सीताविमोहनम् ॥ ५५॥
जयन्तस्य जयन्तं च जानकीप्रेमजीवनम् ।
वीररूपं जगद्भूपं वन्दे दुष्टविमर्दनम् ॥ ५६॥
अत्रिवन्द्यं बृहद्गर्भं ब्रह्मगर्भं प्रवर्तकम् ।
अनुसूयाप्रियं वन्दे दत्तात्रेयं सुरार्चितम् ॥ ५७॥
चिद्-घनं चिन्तनीयं च चन्द्रकोटिनिभाननम् ।
चित्रकूटपतिं वन्दे चैतन्यं चित्तकर्षणम् ॥ ५८॥
विराधवधकर्तारं शरभङ्ग गतिप्रदम् ।
विश्वेशनायकं वन्दे विश्वनाटकवैभवम् ॥ ५९॥
सुतीक्ष्णहृदयेशं च प्रेमाकाशविभाकरम् ।
प्रेममूर्तिं परं दिव्यं वन्दे प्रेमलताफलम् ॥ ६०॥
प्रेमार्णवं परात्मानं प्रेमरत्नपरीक्षकम् ।
प्रीतिकान्तं परं कान्तं वन्दे पुष्करलोचनम् ॥ ६१॥
अगस्त्यानन्ददातारं दिव्याङ्गं देवसुन्दरम् ।
कोदण्डमण्डितं वन्दे भक्तानामार्तिभञ्जनम् ॥ ६२॥
योगीन्द्रज्ञानदीपं च साकारं निर्गुणाश्रयम् ।
मुरारिं मोक्षदं वन्दे निर्लिप्तं दीप्ततेजसम् ॥ ६३॥
तत्त्वात्परं परं तत्त्वं दण्डकारण्यपावनम् ।
गृद्धराजप्रियं वन्दे दीनेशं दीनवत्सलम् ॥ ६४॥
सीतासुखं सुखासीनं सुमित्रानन्दनाग्रजम् ।
प्रमोददं प्रमापुञ्जं वन्दे पञ्चवटीस्थितम् ॥ ६५॥
रूपयौवनसम्पन्नं राक्षसीचित्तमोहनम् ।
शुद्धं सत्त्वन्निधिं वन्दे नीतिशास्त्रविशारदम् ॥ ६६॥
विदुषं वेदनिष्णातं पूर्वं कारणकारणम् ।
निष्कलङ्कं कृपालीनं वन्दे युक्तफलप्रदम् ॥ ६७॥
अनूपं श्रीवरं शूरं दुर्गमं दीप्तलोचनम् ।
त्रिशिरःत्रासनं वन्दे खरारिं दूषणारिकम् ॥ ६८॥
महाधीरं महावीरं प्रियाप्रेमानुरञ्जितम् ।
जानकीं हृदि धर्त्तारं वन्दे मायामहार्णवम् ॥ ६९॥
अनर्थनाशनं सार्थं समर्थं राक्षसान्तकम् ।
प्रेरकं परमाचिन्त्यं वन्दे पाखण्डखण्डनम् ॥ ७०॥
अधोक्षजं धराधीशं लोकलीलाविचक्षणम् ।
मृगयाकुशलं वन्दे मायामारीचमर्दनम् ॥ ७१॥
नाट्यशीलं क्रियाशीलं सुशीलं लोकलोचनम् ।
कारुण्यकोमलं वन्दे वैदेहीविरहाकुलम् ॥ ७२॥
निर्विकारं नराकारं निराकारं निरामयम् ।
निर्भयं निर्भरानन्दं वन्दे निस्सीमवैभवम् ॥ ७३॥
निष्क्रियं निलयं नेयं गूढं गौरीशवन्दितम् ।
अनुत्तमं महामार्गं वन्दे सर्वविमोहनम् ॥ ७४॥
रसवन्तं रसानन्तं वैदेहीगुणगायकम् ।
ध्यानमुग्धं प्रियाधीनं वन्दे मायामनोहरम् ॥ ७५॥
सत्यसन्धं स्मरातीतं सीतान्वेषणतत्परम् ।
महेष्वासं महागोप्यं वन्दे प्रेमप्रपूरितम् ॥ ७६॥
दयालुं च दयामूलं भक्ताङ्कं करुणार्णवम् ।
मञ्जुमुक्तिप्रदं वन्दे जटायोर्धामदायकम् ॥ ७७॥
बृहन्नियमं ब्रह्मण्यं कबन्धवधपण्डितम् ।
वन्दे विक्रमशालीनं क्रीडागारं कृतागमम् ॥ ७८॥
शबरीशर्वरीनाथं शबरीस्नेहसिञ्चितम् ।
प्रेमपुष्पमिलिन्दं च वन्दे प्रेमफलाशिनम् ॥ ७९॥
भक्तावासमनावासं भावं भक्तैकसङ्गिनम् ।
दासदर्शनदातारं वन्दे ब्रह्मर्षिदुर्लभम् ॥ ८०॥
दिनेशं दीनबन्धुं च दीननाथं दयामयम् ।
देवर्षिबोधदातारं वन्दे दासानुरक्षकम् ॥ ८१॥
प्रकाशं परमाकाशं पम्पासौन्दर्यदर्शकम् ।
सुग्रीवसुखदातारं वन्दे गम्भीरदर्शनम् ॥ ८२॥
शाश्वतं शान्तिभोक्तारं हृषीकेशं हृदिस्थितम् ।
विज्ञानविग्रहं वन्दे विश्वकञ्जविकाशकम् ॥ ८३॥
अञ्जनीनन्दनानन्दं निर्विकल्पं कलाभृतम् ।
नारायणं नरं वन्दे निधानं मुनिरूपिणम् ॥ ८४॥
सुग्रीवसुहृदं सुन्दं सुराधीशं शिशिप्रभम् ।
स्वालोकमव्ययालोकं वन्दे सर्वाशये स्थितम् ॥ ८५॥
निर्व्यलीकं प्रतीकं च सप्ततालविभेदकम् ।
क्षेप्तारं दुन्दुभेरस्थीनं वन्दे सत्यपराक्रमम् ॥ ८६॥
अगाधं परमाराध्यं बालिवारणदारणम् ।
भक्तपालं जगत्पालं वन्दे दर्पविमर्दनम् ॥ ८७॥
गर्वध्नं गरिमागारं गोतीतं ज्ञानदायकम् ।
गोपतिं गोगतिं वन्दे गोविन्दं गतिसत्तमम् ॥ ८८॥
तारप्रबोधकर्तारं ताराधिपनिभाननम् ।
सुग्रीवराज्यदातारं वन्दे सत्यभृतां वरम् ॥ ८९॥
प्रवर्षणे वसन्तं च लक्ष्मणे तत्त्वभाषिणम् ।
भक्तान्भजन्तमभ्रान्तं वन्दे श्रीस्मरणाकुलम् ॥ ९०॥
मूर्तिमन्तानुरागं च परोक्षे प्रीतिपालकम् ।
एकान्तप्रेमिणं वन्दे भक्तरक्षार्थचिन्तितम् ॥ ९१॥
सीतान्वेषणव्यग्रं च प्लवगाधिपशिक्षकम् ।
तेजस्समन्वितं वन्दे सर्वज्ञं सर्वबोधदम् ॥ ९२॥
अशोकं शोकनिर्वाणं वानरानीकदर्शकम् ।
मुद्रिकादायिनं वन्दे वायुपुत्रबलप्रदम् ॥ ९३॥
कामदं कल्पनातीतं महाकल्पं कलाधरम् ।
सम्पातिपक्षदातारं वन्दे सागरतारणम् ॥ ९४॥
अशोकवनिकामध्ये सीताध्याने विराजितम् ।
अचिन्त्यं चिन्त्यसौन्दर्यं वन्दे शक्तीश्वरीप्रियम् ॥ ९५॥
विक्रमं चाञ्जनेयस्य सम्भवं स्वप्नदर्शनम् ।
लङ्केशक्लेशदातारं वन्दे लङ्काविनाशनम् ॥ ९६॥
कृतज्ञं हनुमत्प्रेष्ठं दान्तं शान्तविलोचनम् ।
जगत्प्राणं जनानन्दं वन्दे योगीन्द्रपावनम् ॥ ९७॥
महारथिं महाबाहुं दुर्दर्शं दैत्यमर्दनम् ।
कोदण्डस्फालयन्तं च वन्दे लङ्काभयङ्करम् ॥ ९८॥
केशवन्दितपादाब्जं कपीनां नृत्यदर्शकम् ।
कपीनां नयनानन्दं वन्दे सौलभ्यसुन्दरम् ॥ ९९॥
सर्वसृष्टिसृजन्तं च सृष्टिकाननमालिनम् ।
कौशलेशकुमारं च वन्दे दीप्तकलेवरम् ॥ १००॥
अकारणकृपागारं शरण्यं प्रणपालकम् ।
विभीषणस्य विश्रामं वन्दे लङ्काप्रदायकम् ॥ १०१॥
सिन्धुशोषणशीलं च सिन्धुदर्पविमर्दनम् ।
निर्मलं निर्ममं वन्दे सागरेणाभिवन्दितम् ॥ १०२॥
सागरे सेतुकर्तारं सर्वयुद्धविशारदम् ।
सर्वदेवाधिदेवं च वन्दे शङ्करसंस्तुतम् ॥ १०३॥
सुवेलशिखरारूढं सुग्रीवेण सुशोभितम् ।
सौमित्रिसेवितं वन्दे वायुपुत्रेण सत्कृतम् ॥ १०४॥
धन्विनं लोकजेतारं सीतादर्शनकाङ्क्षिणम् ।
भयाय भयदं वन्दे भक्तमोहान्धभञ्जनम् ॥ १०५॥
अमोघास्त्रं भवावासं भक्तवाक्परिपालकम् ।
इक्ष्वाकुनन्दनं वन्दे राक्षसानीकनाशनम् ॥ १०६॥
दुर्जयं दुष्क्रमं दुर्गं दुर्धर्षं सुदुरासदम् ।
महादिव्यं महादित्यं वन्दे युद्धभयङ्करम् ॥ १०७॥
कुम्भकर्णनिहन्तारं जटामुकुटमण्डितम् ।
दुर्धरं दैत्यकालं च वन्दे दैत्यनिकन्दनम् ॥ १०८॥
लङ्केशस्य कृतान्तं च लङ्केशशिरकृन्तनम् ।
लङ्काध्वंसकरं वन्दे भीमं शस्त्रभृतां वरम् ॥ १०९॥
राघवेशं रथासीनं राक्षसाघौघनाशनम् ।
दिव्यायुधधरं वन्दे निर्द्वन्द्वं खलखण्डनम् ॥ ११०॥
घनरूपं घनानन्दं घनश्यामं घनद्युतिम् ।
घनालोकं घनच्छन्दं वन्दे घोरार्तिनाशनम् ॥ १११॥
दशग्रीवनिहन्तारं मायाङ्कं माययाद्भुतम् ।
अनादिनिधनं धन्यं वन्दे रावणदारणम् ॥ ११२॥
कालकालं महाकालं कालातीतं कलानिधिम् ।
कैवल्यनिलयं वन्दे श्रीकान्तं शार्ङ्गधारिणम् ॥ ११३॥
अनन्तं गुणगम्भीरं स्वच्छन्दं गर्वसूदनम् ।
सहासवदनं दैवं वन्दे देवनमस्कृतम् ॥ ११४॥
ज्ञानानन्दं चिरानन्दं पूर्णानन्दं महाप्लवम् ।
मोक्षतीर्थं महातीर्थं वन्दे रावणतारणम् ॥ ११५॥
दैत्यानामन्तकं वन्दे दैत्यान्तःकरणप्रियम् ।
सुदर्शनं सुधाहासं देवेशं नित्यसुन्दरम् ॥ ११६॥
र्स्वतन्त्रं स्वतन्त्रं च सीताप्रीतिपरीक्षकम् ।
सीताव्रतं सदाधीनं वन्दे सीतासुशोभितम् ॥ ११७॥
कल्पवृक्षं कलामूलं सर्वलोकमनोहरम् ।
हनुमद्धृदयाह्लादं वन्दे गन्धर्ववन्दितम् ॥ ११८॥
विभीषणाभिषेक्तारं कपिकौतुकदर्शकम् ।
भक्त्या ग्राह्यं सदानन्यं वन्दे लीलाविनोदिनम् ॥ ११९॥
व्रतिनो भरतभ्रातुर्दर्शनोत्सुकमानसम् ।
पुष्पके भ्राजमानं च वन्दे दुर्लभदर्शनम् ॥ १२०॥
पद्मनामं सुमेघामं नीरजाभं निरङ्कुशम् ।
हनुमत्प्रेषकं वन्दे मुनीन्द्रानन्दसागरम् ॥ १२१॥
अप्रमेयं मुनिध्येयं सत्त्वस्थं सिंहगामिनम् ।
तुमलं सङ्कुलं वन्दे विस्मयोत्फुल्ललोचनम् ॥ १२२॥
विमोदं विमदं वेदं कन्दं चन्द्रमिवोदितम् ।
वशिष्ठायनमन्तं च वन्दे धर्मशिखामणिम् ॥ १२३॥
तपोमयं तपोमूर्तिं तपस्विभ्रातृदर्शकम् ।
तमोहरं त्रिकावासं वन्दे प्रेमाश्रुलोचनम् ॥ १२४॥
सरोजसकुमारं च सर्वमात्रभिलालितम् ।
प्रीणयन्तं सखीन्वन्दे सर्वामात्यप्रजाप्रियम् ॥ १२५॥
चक्रवर्तिसुधाकीर्तिं चक्रवर्तिनृपेश्वरम् ।
अयोध्याधिपतिं वन्दे राज्यसिंहासने स्थितम् ॥ १२६॥
रमणीयं रसासक्तं किशोरीकान्तिरञ्जितम् ।
शृङ्गारसागरं वन्दे रत्नच्छत्रसुशोभितम् ॥ १२७॥
सिंहासने समासीनं कोटिसूर्यसमप्रभम् ।
रामामनोहरं हृष्टं वन्दे राघवनन्दनम् ॥ १२८॥
राज्यपालनदक्षं च ब्रह्मकोटिप्रजापतिम् ।
प्रेमयज्ञफलं वन्दे राजेन्द्रं राष्ट्ररञ्जनम् ॥ १२९॥
नित्यनाथं निलिम्पेशं नीतं नित्यविहारिणम् ।
निपुणं रत्नमभ्राङ्गं वन्दे कुञ्चितकुन्तलम् ॥ १३०॥
सरयूविहरन्तं च कृपालुं कुङ्कुमाङ्कितम् ।
सीतारूपवने भृङ्गं वन्दे प्रेमप्रफुल्लितम् ॥ १३१॥
पुष्पकन्दुकक्रीडन्तं पुष्पगुच्छविभूषितम् ।
प्राणाधारमणुं प्रेष्ठं वन्दे प्रेमप्रदीपकम् ॥ १३२॥
निकुञ्जललितं सङ्गं वसन्तं रागरञ्जितम् ।
मलीनहृदयाद्दूरं वन्दे मायासुधानिधिम् ॥ १३३॥
भक्ताक्षिनलिनालिन्दं भक्ताह्लादं रसात्मकम् ।
भृदेवं भुवनानन्दं वन्दे भूतिविभूषणम् ॥ १३४॥
ज्ञानं स्वच्छमभिव्यक्तं गीतातत्त्वोपदेशकम् ।
तारकं वारकं वन्दे श्रीसेव्यं सुकृतेः परम् ॥ १३५॥
सौगन्ध्यदं समाविष्टं संस्तुतं सनकादिभिः ।
रसालं ललनं वन्दे विनीतं प्रकृतेः परम् ॥ १३६॥
यज्ञेशं यज्ञकर्तारं यज्ञनारायणं युतम् ।
यशस्विनं यथापूर्वं वन्दे ब्रह्माण्डविग्रहम् ॥ १३७॥
भुशुण्डिमोहनं गण्यं गूढार्थं गरुडध्वजम् ।
मन्त्रकारं महामन्त्रं वन्दे मोहनिकृन्तनम् ॥ १३८॥
उग्रं समग्रमात्मज्ञं सङ्ग्राह्यं शक्तमग्रिमम् ।
अतन्द्रिकमतिक्रान्तं वन्दे वश्यं विकर्षणम् ॥ १३९॥
लक्ष्मीशं ललनालक्ष्यं लक्ष्मीलक्ष्मिविवर्धनम् ।
लक्ष्मीलक्षितमात्मीयं वन्दे लीलामहोदधिम् ॥ १४०॥
नानावतारधर्त्तारं नानासृष्टिप्रवर्तकम् ।
नटनारायणं वन्दे निरीहं नाट्यकारकम् ॥ १४१॥
मत्स्यं कूर्मं वराहं च नृसिंहं बटुवामनम् ।
भार्गवं राघवं कृष्णं वन्दे बुद्धं च कल्किनम् ॥ १४२॥
महाविष्णुं महाजिष्णुं सहिष्णुं सर्वतोमुखम् ।
महार्घं मार्मिकं वन्दे महारम्भं महाभवम् ॥ १४३॥
सखायं गोपबालानां गोपीशं राधिकाघनम् ।
रासेशं ललिताकान्तं वन्दे वंशीमनोहरम् ॥ १४४॥
श्रीमालं तुलसीमालं मानं श्रीहृदयालयम् ।
अवधेशं महाशेषं वन्दे शून्यं समापकम् ॥ १४५॥
अशेषं हृदयेशं च शक्रेशं शङ्करेश्वरम् ।
सर्वेश्वरं धरं वन्दे महामायेश्वरं वरम् ॥ १४६॥
अच्युतं भूमिकान्तं च भूरिनाथं विभाजकम् ।
वासुदेवं प्रलम्बारिं वन्दे हंसं हयेश्वरम् ॥ १४७॥
विराड्-रूपं विमुक्ताङ्कं बिश्रब्धं वासवानुजम् ।
संवेद्यं सक्षमं वन्दे समष्टिं सृष्टिस्रग्धरम् ॥ १४८॥
भक्तानां भक्तिमन्तं च भक्तानां नयनोत्सवम् ।
भक्तानुरक्तमव्यक्तं वन्दे भीष्मं मयापहम् ॥ १४९॥
प्रधानं पञ्चकं पथ्यं प्रश्रयं प्रेमप्रस्थितम् ।
प्रत्ययं प्रेमप्रच्छन्नं वन्दे प्रांशुं प्रलम्बनम् ॥ १५०॥
रसेशं रसिकाचार्यं रामानन्दं रमाकरम् ।
रञ्चकं रुचिरं वन्दे रूपकं रसितं रतम् ॥ १५१॥
परेशं परमायेशं पुराणं पुरुषोत्तमम् ।
पाटवं प्रणवं वन्दे पुण्यश्लोकं प्रतर्दनम् ॥ १५२॥
महत्तरं महत्तत्त्वं ज्वलन्तं जलशायिनम् ।
अखण्डं मण्डलं वन्दे प्रचण्डं चण्डविक्रमम् ॥ १५३॥
विशालं विशदं विश्वं विचित्रं विश्ववाञ्छितम् ।
विरक्तं विश्रुतं वृन्दं वन्दे व्यूहं वशीकरम् ॥ १५४॥
वैकुण्ठं विनयानन्दं माधवं माधवीश्वरम् ।
उमाधवेश्वरं वन्दे महापारं परीक्षितम् ॥ १५५॥
धातारं सुषमासारं सारङ्गं सात्वतां पतिम् ।
वरेण्यं वत्सलं वन्दे जगन्मूलं जनार्दनम् ॥ १५६॥
अनामयं समाकीर्णं स्वानन्दं स्वरसाश्रयम् ।
श्रीकरं श्रीधरं वन्दे श्रीवासं श्रीकरग्रहम् ॥ १५७॥
अमेयममृतत्वेशं विपाकं परमाक्षरम् ।
एकान्तवल्लभं वन्दे ज्योतीरूपमनुग्रहम् ॥ १५८॥
अनल्पं सत्यसङ्कल्पं निष्प्रपञ्चं चराचरम् ।
उपाधिरहितं वन्दे निग्रहं निखिलात्मकम् ॥ १५९॥
अद्भुतालयमादेयं सर्वातिगमतीन्द्रियम् ।
इन्दिरामन्दिरं वन्दे ब्रह्मज्योतिः सनातनम् ॥ १६०॥
लीलातनुं लताश्लिष्टं सुकुमारं कलस्वनम् ।
प्रीतिबद्धं विदग्धं च वन्दे दर्शनदायकम् ॥ १६१॥
अद्भुतं कर्मकर्तारं सर्वसामर्थ्यशालिनम् ।
व्यासादिवन्दितं वन्दे क्लेशसंस्कारनाशनम् ॥ १६२॥
श्रीनाथं सुरतेशं च सुवेशं वनमालिनम् ।
प्रणयेशं पणं वन्दे प्रवीणं वीक्षणायुधम् ॥ १६३॥
भवन्तं भावयन्तं च भ्रामयन्तं भ्रमात्परम् ।
उद्भवं प्रलयं वन्दे मुक्तमोक्षमनोरमम् ॥ १६४॥
॥ श्रीमुक्तमोक्षमनोरमाय नमः ॥
श्रीरामनामसाहस्रं दिव्यं लीलासमन्वितम् ।
यः पठेन्मधुरालापैः प्राप्नुयात्सर्ववाञ्छितम् ॥
श्रीजयरामदेवेन निर्मितं सुन्दरं स्तवम् ।
यः पठेत्कामनां त्यक्त्वा प्राप्नुयाद्रामदर्शनम् ॥
इति स्वामी श्रीजयरामदेवजी महाराजविरचितं श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Aman Raja Sood