श्रीरामसप्तर्षिस्तोत्रम्
काश्यपः --
नित्यं किं धावसि चलविषयाननुभवितुं सुखलेशाभासानुरुतरदुःखानति- दुःसहानत्यन्तायासानंहोमूलानुग्रभयङ्कररौरवादिनारकगतिहेतूनेतानपि परिहर सीतापतिमाशु परिचरेशं भो चेतः श्रीरामं भज शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं भज शरणम् ॥ १॥
अत्रिः --
बहुविधपापवशादिह नानायोनिषु जन्ममृतिर्यो देही दैवादुत्तममानुषपूरुष विप्रदेहविद्यासम्पन्नोऽपि ब्रह्मणि परमे विमुखो दुःखी दुर्विषयैषी नश्यति तृणकबलस्वीकरणे काले पशुरिव रोमन्थं कुर्वन् भो चेतः श्रीरामं भज शरणम् ।
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं भज शरणम् ॥ २॥
भरद्वाजः--
उपर्युपरि मनोरथजालं विद्वानपि कामयते यतते पुत्रमित्रकलत्रादिषु निर्वेदं नैति कामकामी विद्यासम्पत्कुलधनसौभगयौवनगर्वपर्वताधिरूढो मूढः पश्चादन्धे तमसि पतेदवशोऽन्योऽन्धुमिव भो चेतः श्रीरामं भज शरणं भज रघुरामं शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं भज शरणम् ॥ ३॥
विश्वामित्रः --
अरिषड्वर्गं जहि तृष्णामपि मायाविलसितमिदमिति बुद्ध्वा दुर्जनसङ्गतिमतिदूरीकुरु सज्जनमाश्रय भो परधनपरदाराभिरतिं त्यज पारलौकिकं धर्मं परिचिनु पद्मापतिपदपद्मं सेव(य)(स्व) बन्धविमुक्त्यै भो चेतः श्रीरामं भज शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं भज शरणम् ॥ ४॥
गौतमः --
᳚कर्णाकर्णय वैदेहीवरवर्णनीयगुणवन्दितचरितं नयनालोकय नयननलिनमुखसुन्दरेन्दुबिम्बं मस्तक संस्तुतमहिमानं नम कस्तूरीनिकराकारं हस्तयुगार्चय हरिपदममलं ह्यवनीपालमिनकुलरत्नं भो चेतः श्रीरामं भज शरणं भज रघुरामं शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं भज शरणम् ॥ ५॥
जमदग्निः --
परापवादं परिहर जिह्वे पारुष्यं चानृतमपि मा वद सङ्कीर्तय केशव नारायण दामोदर कृष्ण नरहरे वैकुण्ठाधिप लक्ष्मीवल्लभ बुधजनमानसमन्दिर सीतानायक दशरथनन्दन इति सततं भो चेतः श्रीरामं भज शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं भज शरणम् ॥ ६॥
वसिष्टः --
नित्यानन्दं सत्यमनन्तं ब्रह्म परात्परमव्ययममलं नित्यं शुद्धं बुद्धं शाश्वतमप्रमेयमनाद्यन्तं सर्वासामुपनिषदामर्थोऽयं श्रीरामः सीतापतिरिति चतुराननशिवहैमवतीजपसर्वस्वं मन्त्रं भो चेतः श्रीरामं भज शरणं भज रघुरामं शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकरमरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं भज शरणम् ॥ ७॥
एवं स्तुत्वा रामचन्द्रं मुनीन्द्राः
प्रत्येकं ते भक्तिनम्रास्तदानीम् ।
आपन्नार्तिध्वान्तभानुं प्रपन्ना-
स्तूष्णीमासन् रामपादैकनिष्ठाः ॥ ८॥
इति श्रीरामसप्तर्षिस्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan