श्रीरामस्तवः
भजेऽहं सदा राममिन्दीवराभं
भवारण्यदावानलाभाभिधानम् ।
भवानीहृदाभाचिदानन्दरूपं
भवाभावहेतुं भवादिप्रपन्नम् ॥ १॥
सुरानीकदुःखौघनाशैकहेतुं
नराकारदेहं निराकारमीड्यम् ।
परेशं परानन्दरूपं वरेण्यं
हरिं राममीशं भजे भारनाशम् ॥ २॥
प्रपन्नाखिलानन्ददोहं प्रसत्रं
प्रपन्नार्तिनिश्शेषनाशाभिधानम् ।
तपोयोगयोगीशभावादिभव्यं
कपीशादिमित्रं भजे राममित्रम् ॥ ३॥
सदा भोगभाजां सुदूरे विभान्तं
चिदानन्दकन्दं सदारामवेशम् ।
विदेहात्मजानन्दरूपं सुरेशं
महेशं नरेशानरामं प्रपद्ये ॥ ४॥
महायोगमायाविशेषानुयुक्त्या
सुराधीशलीलानराकारमूर्तेः ।
सदानन्दलीलाकथापूर्णकर्णाः
सदानन्दरूपा भवन्तीह लोके ॥ ५॥
अहम्मानपानाभिमत्तः प्रमत्तो
न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवत्पादपद्मप्रसादात्
त्रिलोकाधिपत्याभिमानो विनष्टः ॥ ६॥
स्फुरद्रत्नकेयूरहाराभिरामं
धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं
दुरावारपारं भजे राघवेशम् ॥ ७॥
सुराधीशनीलाभ्रनीलाङ्गकान्तिं
विराधादिरक्षोवधाल्लोकशान्तिम् ।
किरीटादिशोभं पुरारातिलाभं
भजे रामचन्द्रं रघूणामधीशम् ॥ ८॥
लसच्चन्द्रकोटिप्रकाशाधिपीठे
समासीनमेकं समाधाय सीताम् ।
स्फुरद्धेमवर्णां तटित्पुञ्जभासां
भजे रामचन्द्रं निवृत्तार्तितन्त्रम् ॥ ९॥
इति श्रीरामस्तवः सम्पूर्णः ।
Proofread by Aruna Narayanan