श्रीरामस्तोत्रम् १४
श्रीरामः शरणं समस्तजगतां रामं विना का गतिः
रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः ।
रामात्त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे
रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः ॥ १॥
चित्रकूटालयं राममिन्दिरानन्दमन्दिरम् ।
वन्दे च परमानन्दं भक्तानामभयप्रदम् ॥ २॥
ब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधकाः ।
नमामि देवं चिद्रूपं विशुद्धं परमं भजे ॥ ३॥
(वाल्मिकीरामायणमाहात्म्ये प्रथमाध्यायान्तर्गतम् ।)
वाल्मिकीरामायणमाहात्म्य । अध्याय १/१-३॥
vAlmikIrAmAyaNamAhAtmya . adhyAya 1/1-3..
Proofread by PSA Easwaran