हनुमत्कृतं श्रीरामस्तोत्रम्
कोन्वीश ते पादरसोबभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथाऽपि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणादृते ॥ १॥
त्वमेव साक्षात्परमः स्वतन्त्र-
स्त्वमेव साक्षादखिलोरुशक्तिः ।
त्वमेव चागण्यगुणार्णवः सदा
रमाविरिञ्चादिभिरप्यशेषैः ॥ २॥
समेत्य सर्वेऽपि सदा वदन्तो-
ऽप्यनन्तकालाच्च न वै समाप्नुयुः ।
गुणांस्त्वदीयान् परिपूर्णसौख्य-
ज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः ॥ ३॥
यस्ते कथासेवक एव सर्वदा सदा
रतिस्त्वय्यचलैकभक्तिः ।
स जीवमानो न परः कथञ्चित्
तज्जीवनं मेऽस्त्वधिकं समस्तात् ॥ ४॥
प्रवर्धतां भक्तिरलं क्षणे क्षणे
त्वयीश मे ह्रासविवर्जिता सदा ।
अनुग्रहस्ते मयि चैवमेव
निरूपधौ तौ मम सर्वकामः ॥ ५॥
इतीरितस्तस्य ददौ स तद्द्वयं
पदं विधातुः सकलैश्च शोभनम् ।
समाश्लिषच्चैनमथार्द्रया धिया
यथोचितं सर्वजनानपूजयत् ॥ ६॥
॥ इति श्रीहनुमत्कृतं श्रीरामस्तोत्रं सम्पूर्णम् ॥