नारदेन कृता श्रीरामस्तुतिः
श्रीनारद उवाच ।
श्रीरामं मुनिविश्रामं जनसद्धामं हृदयारामं
सीतारञ्जनसत्यसनातनराजारामं घनश्यामम् ।
नारीमस्तुतकालिन्दीनतनिद्राग्रार्थितभूपालं
रामं त्वां शिरसा सततं प्रणमामिच्छेदितसत्तालम् ॥ ८८॥
नानाराक्षसहन्तारं शरधारं जनताधारं
वालीमर्दनसागरबन्धननानाकौतुककर्तारम् ।
पौरानन्ददनारीतोषककस्तूरीयुतसद्भालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ८९॥
श्रीकान्तं जगतीकान्तं स्तुतसद्भक्तं बहुमद्भक्तं
सद्भक्तहृदयेप्सितपूरकपद्माक्षं नृपजाकान्तम् ।
पृथ्वीजापतिविश्वामित्रसुविद्यादर्शितसच्छीलं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९०॥
सीतारञ्जितविश्वेशं धरपृथ्वीशं सुरलोकेशं
ग्रावोद्धारणरावणमर्दनतद्भ्राताकृतलङ्केशम् ।
किष्किन्धाकृतसुग्रीवं प्लवगवृन्दाधिपसत्पालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९१॥
श्रीनाथं जगतां नाथं जगतीनाथं नृपतीनाथं
भूदेवासुरनिर्जरपन्नगगन्धर्वादिकसन्नाथम् ।
कोदण्डधृततूणीरान्वितसङ्ग्रामे कृतभूपालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९२॥
रामेशं जगतामीशं जम्बुद्वीपेशन्नतलोकेशं
वाल्मीकीकृतसंस्तवहर्षितसीतालालितवागीशम् ।
पृथ्वीशंहृतभूभारन्नतयोगीन्द्रं जगतीपालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९३॥
चिद्रूपं जितसद्भूपं नतसद्दिक्पं नतसद्भूपं
सप्तद्वीपजवर्षजकामिनिसन्नीराजितपृथ्वीपम् ।
नानापार्थिवनानोपायनसम्यक्तोषितसद्भूपं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९४॥
संसेव्यं मुनिभिर्गेयं कविभिः स्तव्यं हृदि सन्धार्यं
नानापण्डिततर्कपुराणजवाक्यादिकृतसत्काव्यम् ।
साकेतस्थितकौसल्यासुतगन्धाद्यङ्कितसद्भालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९५॥
भूपालं घनसन्नीलं नृपसद्भालं कलिसङ्कालं
सीताजानिवरोत्पललोचनमन्त्रीमोचिततत्कालम् ।
श्रीसीताकृतपद्मास्वादनसम्यक्शिक्षिततत्कालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९६॥
हे राजन् नवभिः श्लोकैर्भुवि पापघ्नं नवकं रम्यं
मे बुद्ध्या कृतमुत्तमनूतनमेतद्राघव मर्त्यानाम् ।
स्त्रीपौत्रान्नादिकक्षेमप्रदमस्मत्सद्वरदश्चालं
रामं त्वां शिरसा सततं प्रणमामि च्छेदितसत्तालम् ॥ ९७॥
श्रीरामदास उवाच ।
एवं स्तुत्वा रमानाथं राघवं भक्तवत्सलम् ।
प्रणम्याज्ञां प्रभोः प्राप्य प्रययौ नारदो मुदा ॥ ९८॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मीकीये राज्यकाण्डे उत्तरार्धे सीतया तुलसीपत्रसन्धिर्नाम
द्वाविशाध्यायान्तर्गता नारदेन कृता श्रीरामस्तुतिः समाप्ता ।
Proofread by PSA Easwaran