रामस्तुतिः ९

रामस्तुतिः ९

(*) (औपच्छन्दसिकं वृत्तम्) रघुनाथ! । दयां कुरु प्रपन्ने मयि दीनेऽलसमेनमद्य मुञ्च । सदयः सदयस्त्वमेव(१) किं ते मुनिगीतं न यशः श्रुतं पवित्रम् ॥ १॥ असदन्तकराः शराः खरास्ते यमदण्डात्सततं सतां सहायाः । किमदो विमदो न यन्मनोभूरतनुः शर्वदृगम्निना कृतोऽपि ॥ २॥ ग्रसते त्वदिषुर्द्विषं न राहुः स तथेदुं कवयो नरेश्वराहुः । जहि रोषमरिं सतामलं का सरुषो हन्त धियोऽपि राम! लङ्का ॥ ३॥ यदि वानरसख्यमेवमीड्यं किमु वक्तव्यमहा नरैस्तदेभिः । अधिसंसृतिसिन्धु(२) सेतुमेकं कुरु भोः(३) ! किं स्वकृते कृतेन तेन ? ॥ ४॥ विरहे न पितापि सांस्वितो यो विलपमेव मृतस्वदेकचित्तः । भहमज्ञतमस्तमद्य याचे तृणवत्यक्तसदङ्गनानुजं(४) त्वाम् ॥ ५॥ न हि तन्न हितं नतैर्यदीश! । स्मृतमेकं खलु सावकं पदाब्जम् । अमरैर्भ्रमरैरिवातिलुब्धैः परिपीतं मुनिभिश्च राजहंसैः ॥ ६॥ न फलं विषयाः फलं तु दास्यं तव जन्तोवरमत्र जीवनस्य । तदृते न दृतेरिवास्य(५) राम! क्षणमप्युच्छसितं सतां प्रशस्यम् ॥ ७॥ दुरितोदधितो दरप्रयत्नान्मुनिदारान्दयया(६) यदुज्जहार । पदपद्मरजस्तवास्तु तन्मे नतरक्षाविकलं(७) कलङ्कनुत्यै ॥ ८॥ विषयप्लवगैश्वलस्वभावैः(८) सह सख्यं गतमेनमारमतुल्यं । रहितं प्रिययापि शुद्धवृत्या बत सत्या व्यसनेऽव मां नृपाल(म्?) ॥ ९॥ वितरस्वमृतं(९) करैरनेकैर्न जडात्मानमहं भजेऽपि तप्तः । अमृतं तव नाम पातुमीहे यदभूच्छूलभृतोऽपि तापशान्त्यैः ॥ १०॥ बहवः सवितुः कुले प्रसूतास्त्वमलं तेभ्य उतापि गोत्रकर्तुः(१०) द्विकरोऽप्यकरोः समूलमेको जगतां तापतमःक्षयं स्वयं यत् ॥ ११॥ सुधियो युधि योधमूर्धरत्नं विकिरन्तं विशिखानरिष्वसुघ्नान् । करुणं तरुणं पुराणमाहुर्नरमीशं कथमुग्रमक्रुधं त्वां ? ॥ १२॥ परिपालय मामनाथमार्तं भवरोगेण नेसोढवेदनेन(११) सुखयत्युदितश्चकोरमिन्दुः कमलं भानुरथो मयूरमब्दः(१२) ॥ १३॥ तव(१३) भक्तजनेन मत्सदृक्षाः शुचिनोदारतरेण निस्तुलेन । विपदोऽत्र समुद्धृताः प्रभूताः किमदो राघव! विस्मृतोऽहमेकः ? ॥ १४॥ आहिषूग्रमरं(१४) गरं तमस्ते न परोत्कर्षसहाः सुराः समस्ते । भुवने परिदर्शितः समस्ते समनुक्रोशभरः प्रभो! नमस्ते ॥ १५॥ कृपया नृप! । याः स्वधाम नीता विरहं सोढुमनिष्टुराः प्रजास्ताः । अयि भो! मयि मोगलालसे तस्कठिनत्वं त्वयि वा किमत्र युक्तं ? ॥ १६॥ यशसा विमलेन सन्मतेनापि च गीतेन मुनीश्वरेण तेन । कथमार्यमुखात्तदातोदृऽहं(१५) परिपीतेन न पावितोऽस्मि पापः ? ॥ १७॥ कलिना प्रबलेन राहुणेदोरिव तेजो यशसस्तवापि पीतम् । कथमेवमहं ब्रवीम्यशङ्कं बुधशिष्योऽपि च सत्स्वदो विगीतम्? ॥ १८॥ यशसाप्यचिकित्स्य एक आहोस्विदहं निस्तुल एवमेव दोषी । न सतां मतमेतदप्यसारं विषहेद्धाम तमो न गाढमार्कम् ॥ १९॥ कुरु यत्सदृशं व्रतस्य लोके यशसश्चापि सुविश्रुतस्य तस्य । किमतोऽधिकमेष दीनबन्धो ! गतिमन्धो गहने न वेत्ति दीनः ॥ २०॥ शमनं न हि पश्यति प्रभो! । त्वां शमनं(१६) तं लभते जनः प्रपन्नः । असकृच्छ्रुतमिस्थमार्यवक्त्रात्सदसि स्वादुवचः सतां सुधातः ॥ २१॥ अनवद्यगुणार्य राम! । भोः ! किं बहुनोक्तेन पदोपकण्ठमेत्य । स्वदृशः सदृशः प्रभो! भवेद्यः कृपणे त्वं मयि तं कुरु प्रसादम् ॥ २२॥ नमदुद्धरणं सुदुष्करं ते मृतमुज्जीवयतः शिशुं द्विजातेः । दृषदप्यतिसुन्दरी कृतैव प्रभुणा किं न वचः श्रुतं शुनोऽपि ॥ २३॥ वशमारतमिङ्गितज्ञमाज्ञाकरमप्याकुलयन्ति(१८) मामनाथम् । अनयं जनयन्ति राम! कामप्रमुखा हन्त कथं भवत्पुरेऽपि ॥ २४॥ न जने भजनेऽलसः प्रमादत्यिपटुर्वेत्यघरग्वरं(१९) मयीश ! । न हि तैरहितैरयं न बद्धः कथमेवं सति किङ्करः करोतु ॥ २५॥ द्विषता दशकन्धरेण रुद्धा पुरि शुद्धा दयितापि सा तदानीं । भवतो भजनं किमीश! चक्रे स च नक्रेण वशीकृतः करीन्द्रः ॥ २६॥ चरणस्मरणं सदा न दासस्तव कर्तुं क्षम उत्सुकोऽप्यभाग्यः । सुतनप्तृमुखानुवर्तिना यन्मनसान्तर्वत यन्त्रितोऽस्वतन्त्रः ॥ २७॥ स्मरणं शरणं ममेति युष्मच्चरणाब्जस्य न चान्यदस्ति जाने । बहिरन्तरपि द्विषविरुद्धोऽप्यहमार्तोऽर्तिहरं क्वचिरस्मरामि ॥ २८॥ द्विरदे चिरदेवनाभितप्तेऽत्युचितश्चेत्करुणाकटाक्षपातः । पद एव स शत्रुणा गृहीतः प्रबलैः षड्भिरयं तु सर्वतोऽपि ॥ २९॥ बहुवारमहं द्विषद्भिरसह पातित एव गर्भगर्ते । श‍ृणु देव ! तदेव कृच्छूमाप्तोऽमितकल्पानधुनापि तत्र वर्ते ॥ ३०॥ द्विषतोऽप्यनुजे कृतः प्रपोऽथ च सुग्रीववलीमुखे प्रसादः । दरसादरसात्वया(२०) तथा मय्यपि दीने स सदार्य ! कार्य एव ॥ ३१॥ रिपुभिः कृतगञ्जनं जनं कः कृपणं स्वं शरणं भियाप्तमार्यः । सदयः परिपालयेन शक्तः स्वनुरक्तः सुकृते नये यशोर्थी ॥ ३२॥ कुपितोऽसि किमागसा न साधुः कृतमन्तौ प्रणते जनेऽप्रसन्नः । नमनादितरन्निसर्गसिद्ध किमिवार्येश! न पापिनामसन्नः ॥ ३३॥ शरदा वरदाधिराज! । कृस्नः पयसो वार्यत एव मङ्क्षु पङ्कः । तव तूदितया दृशाऽतमस्कः क्रियते चन्द्रिकयेव सर्वरङ्कः ॥ ३४॥ पिवतोऽखिलतापपापहन्त्री तव कीर्तिर्द्रुतमेव सत्सुधातः । अपि चेशशिरोधिदेवतातः श्रुतमुच्चैरिति हन्त सत्सुधातः ॥ ३५॥ जहि(२१) मामहिमावहं विभो! । मां जनमेवंविधमन्यमप्यवह्यं । भयसा हि विना सुवर्णहेतोर्न गुणः स्पर्शमणेः प्रसिद्धिमेति ॥ ३६॥ सुकृतं न किमस्य पङ्कमग्नामबला गां विपदः समुद्दिधीर्षोः । मृतिभीतमरिं तृणास्यमाजी(२२) जयिनस्त्वादृश एव पालयन्ति ॥ ३७॥ करुणावरुणालय ! । प्रभो! स्यान्मम किं स्वर्गसदां (२३) जडेन तेन । तरुणा तरुणार्कतप्तमूर्तेः सरसाल्पेन गजस्य वा भवेत्किम् ॥ ३८॥ शिलया कपिभिर्निशाचरेण द्विजराजेन महेश्वरेण सेव्यः । स्वमितीश! भवन्तमाश्रितोहं ससुरा मुक्तिमितास्त्वयैव देव्यः ॥ ३९॥ सहितं प्रियया श्रियात्तमूर्त्या महितं भूपमुनीन्द्रदेववृन्दैः । रहितं विगुणैः सदा(२४) गुणाढयं स्वहितं राम कमन्यमाश्रयामि ॥ ४०॥ अयि! । तं श्रित एष इन्दिराया दयितं त्वामहमाद्यमीश्वराणां । मयि तन्त्र इहाप्यशर्महासं शयितं तर्तुमधाठिधमद्य विश्वम् ॥ ४१॥ मनसि स्मृतिरस्तु तापहन्त्री वदने नाम भवामयौषधं च । श्रवसी च वशीकरोतु कीर्तिस्तव सीतादयितेति मे मनीषा ॥ ४२॥ वरदेश्वर! । देव ! देहि दास्यं दयया दर्शय पादपद्ममाशु । अयनं नयनं विपक्षमपातं(२५) तव गोर्वत्सवदेव पश्यतीश! ॥ ४३॥ स्पृशता दृषदं पदेन युक्तं दयितां भूमिभुवं सदा हृदा ते । बत बाहुयुगेन धन्व(२६) चैणं कुत आप्तं कठिनस्वमार्यदृग्भ्याम् ॥ ४४॥ न जनं व्यजनं प्रियागृहीतं सरसोशीरसरोजपत्रक्लप्तं । सुखयत्यतितापतप्तमाप्तोत्तम ते नाम यथा कथोपनीतम् ॥ ४५॥ सततं यदि दीनबन्धुरेतद्बहु ते सम्मतमात्मनाम राम! । अयि! किं मयि किङ्करेऽपि दीने करुणां कर्तुमियान्कृतो विलम्बः ॥ ४६॥ नवतामरसेन मृगपोतस्तृषितो राम! । यथा व्यथाहरेण । भवताऽमरसेव्यपादुकेन स्वगुणैस्तोषकरैर्वशीकृतोऽहम् ॥ ४७॥ तव नाम भवदृते(२७) सुदूरादपि चेत्कर्णमुपैति सज्जनेन । उदितं मुदितं करोति चेतो दयिताया इव वाचिकें(२८) प्रियस्य ॥ ४८॥ धनिनः सुखिनस्तवैव नाम्ना परतः प्राकृततो धनादनित्यात् । धनिका न निकाममोदपात्रं जठराद्विभ्यति ये स्वकादपीश! ॥ ४९॥ भवतो भवतोषदेन नाम्ना भिदुरेणामृतगर्वपर्वतस्य । भवतोऽभव(२९) तोकमात्मनोऽहरिव मोच्यः स्वहितेच्छुनाहमज्ञः ॥ ५०॥ तव सद्भिपासकैरुदारैः सदयैराप्ततमैरुपेक्षितः किं । न(३०) विनश्यदुपेक्ष्यमस्य कार्यं त्विति यत्सा खलु पत्युरत्युपास्तिः ॥ ५१॥ रहसीश निपीयते(३१) प्रसादामृतमाकण्ठमिता मुदं हि सन्तः । वितरन्ति न मह्यमीषदेते बत कुक्षिम्भरिरीतिमाद्रियन्ते ॥ ५२॥ सकृपाः कथमार्तमस्य शक्तं कृपणं मां शरणागतं न पान्ति । अमितान्न दयामृतादुदारा अपि दातुं कथमीपदुस्सहन्ते ॥ ५३॥ विभवेऽधिगतेऽमिते सुहृद्भिर्न समं केवलमेव साकमन्यैः । कृपणैरहितैरपि प्रकामं सुखमार्येश्वर! साधवो भजन्ते ॥ ५४॥ त्वमुदारवरः कथं सखायस्तव सख्युर्ननु नो समानशीलाः । मयि तेऽत्रभवान्कपाविवार्ये बत बुद्धं युभयेऽपि तुल्यलीलाः ॥ ५५॥ यदि नाथ! । गतोऽसि साकमिष्टैर्वरमस्मान्कृपणाञ्च्छ्रितान्स्वमेव । ननु पालयिता कृतोऽत्र कः स क्व च किं चानिलनन्दनोऽपरो वा ॥ ५६॥ स तु सम्प्रति गन्धमादनाद्राविति नाथ! । श्रुतमस्तु नः किमूनं । परमेकमिहान्यसर्वकार्यस्मृतिरोधि व्यसनं हि सद्भिरुक्तम्(३२) ॥ ५७॥ स हि किन्नरचारणादिगीतं मुनिभिः साकमुदश्रु मीलिताक्षं । सततं चरितामृतासवं ते पिबति त्यक्तभयोऽस्मृताखिलेहः ॥ ५८॥ श्रुतमेवमपीह यत्र नाम्नस्तव सङ्कीर्तनमेष तत्र तत्र । रचिताञ्जलिरश्रुपूर्णदृक्चेत्यपि वाल्मीकिमुनेर्न गरिपार्था(३३) ॥ ५९॥ अयि नाथ! । कथं नु तर्हि साधुर्वत सोऽद्यापि कपिर्मया न दृष्टः । यदि पातकनष्टदृष्टिरस्मि प्रतिमां तेऽहमहो कथं पिबामि ? ॥ ६०॥ स्वजनो वरमात्मनः प्रियत्वात्प्रतिमातः किमितीश! । चेत्तथास्तां । भवतो भवतोपदाच्च नाम्नोऽप्यधिकः किं श्रवणोत्सुकोऽस्मि दीनः ॥ ६१॥ अधिको निजनामतो मतोऽयं स्वजनस्ते यदि तर्हि राम! । तेन । क्षमिणातिदयावताथ सद्योऽखिलतापापह ! कीर्तनेन भाव्यम् ॥ ६२॥ अलमोमिति चेत्कथं न नाथ! । द्रुतमद्याप्युपयाति हन्त पातुं । असकृद्धि पुरा स्मृतस्तदास्ताम धुनैवापि तु चेतसा स्मरामि ॥ ६३॥ अयि कीशवराप्तवर्य! । साधूत्तम ! सीताहृदयव्यथौषधोक्ते । रघुवीर ! यशःसुधाकरस्य स्वमनन्तोऽस्यनवद्यपक्ष एषः ॥ ६४॥ अधुनापि च संस्तुतो न चास्यां स कवीन्द्रो(३४) मुदितः स्तुतौ कथं स्यात् । इति वाच्यमहो यतोऽधिकस्ते भजकस्त्वत्त उदार आशुतोषः ॥ ६५॥ कृतयैव यया कयापि नुत्या मुदमाप्नोषि विभो! । भजज्जनेन । किमु योऽभ्यधिकः कृपालुरार्यो भवतो भागवतो मतोऽतिसाधुः ॥ ६६॥ भगवन् ! । स(३५) समीरसूनुरार्यस्त्वयि ते नाम्नि च साधुमोदधाम्नि । परमादृत इत्यवैमि तद्वत्स्मरतामुद्धरणेन नूनमद्य ॥ ६७॥ स समीरसुतः कृतप्रयासः सुतरां सम्प्रति साधुविश्रमार्थं । सखिभिश्चरितासवं तवालं परिपीयाद्य सुखं समं नु सुप्तः ॥ ६८॥ न कृतः खलु लक्ष्मणेन देव्या भवता वात्र सुहृन्मणौ प्रसादः । कथमेष न खिन्नमानसः स्यादनुरूपाममवाप्य सत्कृतिं स्वाम् ॥ ६९॥ स हि कष्टभुगेव देव! । नीता इतरे तु स्वपदं सहैव सर्वे । न कुशस्य(३६) लवस्य वाप्यमात्येष्वपि ते हाप्तपदः कृतो महात्मा ॥ ७०॥ अथ किं बहुना(३७) भवान् दयालुर्न कृतज्ञो न वरप्रदो न चाप्तः । त्यजतानुजदारमारुतींस्ते(३८) कृतिना किं सुकृतं कृतं कृपालो! ॥ ७१॥ न भवान्न भवज्जनोऽपि दीनेष्वशुचिष्वद्य कलावद्यकाले । करुणो वरदं कृतज्ञमेकं तव तेषामपि नाम राम! कामम् ॥ ७२॥ इति श्रीरामे स्तवोऽर्पितोऽयम् । इति श्रीरामनन्दनमयूरेश्वरकृता रामस्तुतिः समाप्ता । टिप्पणि * । अत्र कविः संसारदावानलदग्धः स्वसमुद्धरणायोपास्यं दैवतं श्रीरामचन्द्रं स्तौति रघुनाथेत्यादिना । भवाटवीपरिभ्रमणपरिखिन्नश्च स्वोद्धारे बिलम्बमसहमानो दुरितवारिधित्वमात्मनोऽत्र निदानमाशङ्कमानश्च श्रीरामचरितादेव बहून्युदाहरणानि समुपन्यस्य ``पापिनामुद्धार एव ते व्रतं, अहं च तेषामग्रणीः तन्मामपि द्रुतं समुद्धर'' इति च विज्ञापयति । १। सतां अयः शुभङ्करः । २। भवसागरे इत्यर्थः । ३। हस्तदोषः-भो । ४। तृणवत् त्यक्तौ सदङ्गना पतिव्रता सीता अनुजश्च लक्ष्मणो येन सः । ५। दृतिश्च-मभस्रा । यथा भस्राया उच्छ्वसितमकिञ्चित्करं तथा तव दास्यादृते जन्तोर्जीवनं निष्फलमित्यर्थः । ६। दरप्रयत्नात् अल्पेनवायासेन । ७। नतानां भक्तानां रक्षायां रक्षण विकलं सर्वदा व्याप्त प्रयतमानमिति यावत् । ८। यथा स्वं शुद्धवृत्या पतिव्रतया सीतया विनाकृतश्चलस्वभावैर्वानरैः सह सख्यमकरोस्तथाहमपि शुद्धवृत्या सदाचारेण रहिनश्चञ्चलैविषयप्लवगैः सख्यमकरवम् । तदात्मसब्रह्मचारिणं मां हे नृपाल त्वं रक्षेति योजनीयम् । शुद्धवृत्त्येति पदं श्लेषण योजनीयम् । ९। जडात्मा डलयोरभेदाज्जलात्मा चन्द्रः । जडम्वरूप इति ध्वनिः । चन्द्रः अनेकैः करैः किरणैः अमृतं वितरतु । तप्तोऽप्यहं तं जडात्मानं जलात्मानपीति अपिशब्द आवृत्या द्विर्योज्यः । न भजे । यत्तव नाम शूलभृतोऽपि शशिशेखरस्य शिवस्यापि तापं शममनयत्तत्ते नामैव मेऽमृतं तदहं पातुमिच्छामीत्यर्थः । अत्र शशिनामृतवर्षिणा शूलभूतः शिवस्य तापो न शान्ति नीतः स च तव नाम्ना नीत इति शशिनोऽपि ते नाम गुणवत्तरमिति व्यज्यते । १०। गोत्रकर्तुः मूलपुरुषात्सवितुरित्यर्थः । ११। न सोढा नसोढत्यत्र नशद्वेन सुप्सुपेति समासः । १२। अब्दो मेघः । कविपक्षे तु ध्वनिना घनश्यामो राम इत्यर्थ । १३। ``यशसा च जनन मत्सदृक्षाः शुचिनोदारतरेण तेऽतुलेन'' । इति साधुः पाठः । (मयूरकविः) । १४। अहिषु सपेंषु उग्रं गरं अलं प्रभूतमस्ति । अतस्तेऽहयस्तमः तमस्स्वरूपाः सन्ति । सुराः देवा अपि परोत्कषसहाः न । अतस्तेऽपि तमःस्वरूपा इत्यर्थः । किन्तु हे प्रभो, ते समनुक्रोशभरः कारुण्यभरः समस्ते भुवने समः । दृश्यते इति शेषः । नागलोकात्म्वर्गलोकाच्च मर्त्यलोक एव ते कारुण्यभरात्प्रशस्त इति भावः । १५। तस्मिन् यशसि आदृतः आदरयुक्तः आर्यमुखात् सद्भ्यः त्वद्यशः श्रुतवानप्यहं न पावितोऽस्मीति योजना । १६। अहं तथा दोषैर्वातपित्तकफैः पातकैश्च व्यापृतशरीरः यथा तव यशोऽपि मे व्याधि न प्रतिकुर्यादिति यत्सतां मत तदसारं न सारवदेवेत्यर्थः । किन्तु आर्क धाम सवितुस्तेजः यथा गाढं तमः न विषहते तथैव तव यशसा अहमपि समुद्धर्तव्य एवेति भावः । १७। शमनो यमः तम् । मरणमित्यर्थः । १८। कामप्रमुखाः वशमनाथमपि मामाकुलयान्त्रि अनयं च जनयन्तीति योजना १९। अघदृक्षु पापिषु वरं श्रेष्ठम । तैः अहितैः अयं बद्धः न इति न इत्यन्वयः । २०। दरस्य भयस्य सादो नाशः तस्मिन यः रसः प्रेमा तस्माद्धेतोः, हे आर्य! सदा त्वया दीने मय्यपि स प्रसादः कार्य पवेत्यर्थः । २१। हे विभो अहिमावहं सन्तापकरं मां तथा चान्यमपि अव द्यं दुष्टं जहि । पापिनां सत्त्वं च जगत्यवश्यमित्याह । अयसेति । सुवर्णहेतोः स्पर्शमणेः सत्त्वेऽपि अयसोऽभावे तस्य गुणः प्रसिद्ध नैति । तथा मादृशां पापिनामभावे नमदुद्धरणाख्यस्तव गणः प्रसि द्धिं नोपेयादिति भावः । २२। तृणमास्ये यस्य सः प्रपन्न इति यावत् । इयं लोकोक्तिः । २३। ``स्वर्जनुषा'' इति पाठान्तरम (कविलिखितम्) । २४। ``गुणैर्युतं कं स्वहितं त्वा द्य विना'' इति पाठान्तरम् । २५। विगतः पक्ष्मपातः अक्षिनिमीलनं यस्मिन् कर्मणि । २६। ध न्व धनुः । २७। भवदृते भवदर्शनं विनापीत्यर्थः । २८। सन्देशः । २९। अभव अज इति सम्बुद्धिः । आत्मनः तोकमपत्यं अज्ञः अहं स्वहितेच्छुना त्वयैव अहेरिव भवतः संसारान्मोच्य इति योजना । ३०। विनाशं गच्छत् अस्य भगवतः कार्यं न उपेक्ष्यम् । सद्भिरिति शेषः । सा हि पत्युः ते अत्युपास्तिः परमोपासनेत्यर्थः । ३१। निपीयते इत्यस्य सद्भिरिति कर्तृपदम् । ३२। महद्भिरिति पाठान्तरम् । ३३। असत्या । ३४। वाल्माकिः । ३५। स इत्यपेक्षितमपि मातृकाद्वयेऽपि न दृश्यते । ३६। हनूमतस्त्वया कुशस्य लवस्य वा मन्त्रिषु पदं न दत्तमिति भावः ३७। ``भवान् कृतशो न दयालुर्न ``इति पाठान्तरम् । ३८। अनुजः लक्ष्मणः, दाराः सीता मारुतिश्च तांस्त्यजतेति योजनीयम् । Proofread by Rajesh Thyagarajan
% Text title            : Rama Stuti
% File name             : rAmastutiH9.itx
% itxtitle              : rAmastutiH 9 (shrIrAmanandanamayUreshvarakRitam raghunAtha! dayAM kuru)
% engtitle              : rAmastutiH 9
% Category              : raama, moropanta, stuti
% Location              : doc_raama
% Sublocation           : raama
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org