रामस्तुतिः ९
(*)
(औपच्छन्दसिकं वृत्तम्)
रघुनाथ! । दयां कुरु प्रपन्ने मयि दीनेऽलसमेनमद्य मुञ्च ।
सदयः सदयस्त्वमेव(१) किं ते मुनिगीतं न यशः श्रुतं पवित्रम् ॥ १॥
असदन्तकराः शराः खरास्ते यमदण्डात्सततं सतां सहायाः ।
किमदो विमदो न यन्मनोभूरतनुः शर्वदृगम्निना कृतोऽपि ॥ २॥
ग्रसते त्वदिषुर्द्विषं न राहुः स तथेदुं कवयो नरेश्वराहुः ।
जहि रोषमरिं सतामलं का सरुषो हन्त धियोऽपि राम! लङ्का ॥ ३॥
यदि वानरसख्यमेवमीड्यं किमु वक्तव्यमहा नरैस्तदेभिः ।
अधिसंसृतिसिन्धु(२) सेतुमेकं कुरु भोः(३) ! किं स्वकृते कृतेन तेन ? ॥ ४॥
विरहे न पितापि सांस्वितो यो विलपमेव मृतस्वदेकचित्तः ।
भहमज्ञतमस्तमद्य याचे तृणवत्यक्तसदङ्गनानुजं(४) त्वाम् ॥ ५॥
न हि तन्न हितं नतैर्यदीश! । स्मृतमेकं खलु सावकं पदाब्जम् ।
अमरैर्भ्रमरैरिवातिलुब्धैः परिपीतं मुनिभिश्च राजहंसैः ॥ ६॥
न फलं विषयाः फलं तु दास्यं तव जन्तोवरमत्र जीवनस्य ।
तदृते न दृतेरिवास्य(५) राम! क्षणमप्युच्छसितं सतां प्रशस्यम् ॥ ७॥
दुरितोदधितो दरप्रयत्नान्मुनिदारान्दयया(६) यदुज्जहार ।
पदपद्मरजस्तवास्तु तन्मे नतरक्षाविकलं(७) कलङ्कनुत्यै ॥ ८॥
विषयप्लवगैश्वलस्वभावैः(८) सह सख्यं गतमेनमारमतुल्यं ।
रहितं प्रिययापि शुद्धवृत्या बत सत्या व्यसनेऽव मां नृपाल(म्?) ॥ ९॥
वितरस्वमृतं(९) करैरनेकैर्न जडात्मानमहं भजेऽपि तप्तः ।
अमृतं तव नाम पातुमीहे यदभूच्छूलभृतोऽपि तापशान्त्यैः ॥ १०॥
बहवः सवितुः कुले प्रसूतास्त्वमलं तेभ्य उतापि गोत्रकर्तुः(१०)
द्विकरोऽप्यकरोः समूलमेको जगतां तापतमःक्षयं स्वयं यत् ॥ ११॥
सुधियो युधि योधमूर्धरत्नं विकिरन्तं विशिखानरिष्वसुघ्नान् ।
करुणं तरुणं पुराणमाहुर्नरमीशं कथमुग्रमक्रुधं त्वां ? ॥ १२॥
परिपालय मामनाथमार्तं भवरोगेण नेसोढवेदनेन(११)
सुखयत्युदितश्चकोरमिन्दुः कमलं भानुरथो मयूरमब्दः(१२) ॥ १३॥
तव(१३) भक्तजनेन मत्सदृक्षाः शुचिनोदारतरेण निस्तुलेन ।
विपदोऽत्र समुद्धृताः प्रभूताः किमदो राघव! विस्मृतोऽहमेकः ? ॥ १४॥
आहिषूग्रमरं(१४) गरं तमस्ते न परोत्कर्षसहाः सुराः समस्ते ।
भुवने परिदर्शितः समस्ते समनुक्रोशभरः प्रभो! नमस्ते ॥ १५॥
कृपया नृप! । याः स्वधाम नीता विरहं सोढुमनिष्टुराः प्रजास्ताः ।
अयि भो! मयि मोगलालसे तस्कठिनत्वं त्वयि वा किमत्र युक्तं ? ॥ १६॥
यशसा विमलेन सन्मतेनापि च गीतेन मुनीश्वरेण तेन ।
कथमार्यमुखात्तदातोदृऽहं(१५) परिपीतेन न पावितोऽस्मि पापः ? ॥ १७॥
कलिना प्रबलेन राहुणेदोरिव तेजो यशसस्तवापि पीतम् ।
कथमेवमहं ब्रवीम्यशङ्कं बुधशिष्योऽपि च सत्स्वदो विगीतम्? ॥ १८॥
यशसाप्यचिकित्स्य एक आहोस्विदहं निस्तुल एवमेव दोषी ।
न सतां मतमेतदप्यसारं विषहेद्धाम तमो न गाढमार्कम् ॥ १९॥
कुरु यत्सदृशं व्रतस्य लोके यशसश्चापि सुविश्रुतस्य तस्य ।
किमतोऽधिकमेष दीनबन्धो ! गतिमन्धो गहने न वेत्ति दीनः ॥ २०॥
शमनं न हि पश्यति प्रभो! । त्वां शमनं(१६) तं लभते जनः प्रपन्नः ।
असकृच्छ्रुतमिस्थमार्यवक्त्रात्सदसि स्वादुवचः सतां सुधातः ॥ २१॥
अनवद्यगुणार्य राम! । भोः ! किं बहुनोक्तेन पदोपकण्ठमेत्य ।
स्वदृशः सदृशः प्रभो! भवेद्यः कृपणे त्वं मयि तं कुरु प्रसादम् ॥ २२॥
नमदुद्धरणं सुदुष्करं ते मृतमुज्जीवयतः शिशुं द्विजातेः ।
दृषदप्यतिसुन्दरी कृतैव प्रभुणा किं न वचः श्रुतं शुनोऽपि ॥ २३॥
वशमारतमिङ्गितज्ञमाज्ञाकरमप्याकुलयन्ति(१८) मामनाथम् ।
अनयं जनयन्ति राम! कामप्रमुखा हन्त कथं भवत्पुरेऽपि ॥ २४॥
न जने भजनेऽलसः प्रमादत्यिपटुर्वेत्यघरग्वरं(१९) मयीश ! ।
न हि तैरहितैरयं न बद्धः कथमेवं सति किङ्करः करोतु ॥ २५॥
द्विषता दशकन्धरेण रुद्धा पुरि शुद्धा दयितापि सा तदानीं ।
भवतो भजनं किमीश! चक्रे स च नक्रेण वशीकृतः करीन्द्रः ॥ २६॥
चरणस्मरणं सदा न दासस्तव कर्तुं क्षम उत्सुकोऽप्यभाग्यः ।
सुतनप्तृमुखानुवर्तिना यन्मनसान्तर्वत यन्त्रितोऽस्वतन्त्रः ॥ २७॥
स्मरणं शरणं ममेति युष्मच्चरणाब्जस्य न चान्यदस्ति जाने ।
बहिरन्तरपि द्विषविरुद्धोऽप्यहमार्तोऽर्तिहरं क्वचिरस्मरामि ॥ २८॥
द्विरदे चिरदेवनाभितप्तेऽत्युचितश्चेत्करुणाकटाक्षपातः ।
पद एव स शत्रुणा गृहीतः प्रबलैः षड्भिरयं तु सर्वतोऽपि ॥ २९॥
बहुवारमहं द्विषद्भिरसह पातित एव गर्भगर्ते ।
शृणु देव ! तदेव कृच्छूमाप्तोऽमितकल्पानधुनापि तत्र वर्ते ॥ ३०॥
द्विषतोऽप्यनुजे कृतः प्रपोऽथ च सुग्रीववलीमुखे प्रसादः ।
दरसादरसात्वया(२०) तथा मय्यपि दीने स सदार्य ! कार्य एव ॥ ३१॥
रिपुभिः कृतगञ्जनं जनं कः कृपणं स्वं शरणं भियाप्तमार्यः ।
सदयः परिपालयेन शक्तः स्वनुरक्तः सुकृते नये यशोर्थी ॥ ३२॥
कुपितोऽसि किमागसा न साधुः कृतमन्तौ प्रणते जनेऽप्रसन्नः ।
नमनादितरन्निसर्गसिद्ध किमिवार्येश! न पापिनामसन्नः ॥ ३३॥
शरदा वरदाधिराज! । कृस्नः पयसो वार्यत एव मङ्क्षु पङ्कः ।
तव तूदितया दृशाऽतमस्कः क्रियते चन्द्रिकयेव सर्वरङ्कः ॥ ३४॥
पिवतोऽखिलतापपापहन्त्री तव कीर्तिर्द्रुतमेव सत्सुधातः ।
अपि चेशशिरोधिदेवतातः श्रुतमुच्चैरिति हन्त सत्सुधातः ॥ ३५॥
जहि(२१) मामहिमावहं विभो! । मां जनमेवंविधमन्यमप्यवह्यं ।
भयसा हि विना सुवर्णहेतोर्न गुणः स्पर्शमणेः प्रसिद्धिमेति ॥ ३६॥
सुकृतं न किमस्य पङ्कमग्नामबला गां विपदः समुद्दिधीर्षोः ।
मृतिभीतमरिं तृणास्यमाजी(२२) जयिनस्त्वादृश एव पालयन्ति ॥ ३७॥
करुणावरुणालय ! । प्रभो! स्यान्मम किं स्वर्गसदां (२३) जडेन तेन ।
तरुणा तरुणार्कतप्तमूर्तेः सरसाल्पेन गजस्य वा भवेत्किम् ॥ ३८॥
शिलया कपिभिर्निशाचरेण द्विजराजेन महेश्वरेण सेव्यः ।
स्वमितीश! भवन्तमाश्रितोहं ससुरा मुक्तिमितास्त्वयैव देव्यः ॥ ३९॥
सहितं प्रियया श्रियात्तमूर्त्या महितं भूपमुनीन्द्रदेववृन्दैः ।
रहितं विगुणैः सदा(२४) गुणाढयं स्वहितं राम कमन्यमाश्रयामि ॥ ४०॥
अयि! । तं श्रित एष इन्दिराया दयितं त्वामहमाद्यमीश्वराणां ।
मयि तन्त्र इहाप्यशर्महासं शयितं तर्तुमधाठिधमद्य विश्वम् ॥ ४१॥
मनसि स्मृतिरस्तु तापहन्त्री वदने नाम भवामयौषधं च ।
श्रवसी च वशीकरोतु कीर्तिस्तव सीतादयितेति मे मनीषा ॥ ४२॥
वरदेश्वर! । देव ! देहि दास्यं दयया दर्शय पादपद्ममाशु ।
अयनं नयनं विपक्षमपातं(२५) तव गोर्वत्सवदेव पश्यतीश! ॥ ४३॥
स्पृशता दृषदं पदेन युक्तं दयितां भूमिभुवं सदा हृदा ते ।
बत बाहुयुगेन धन्व(२६) चैणं कुत आप्तं कठिनस्वमार्यदृग्भ्याम् ॥ ४४॥
न जनं व्यजनं प्रियागृहीतं सरसोशीरसरोजपत्रक्लप्तं ।
सुखयत्यतितापतप्तमाप्तोत्तम ते नाम यथा कथोपनीतम् ॥ ४५॥
सततं यदि दीनबन्धुरेतद्बहु ते सम्मतमात्मनाम राम! ।
अयि! किं मयि किङ्करेऽपि दीने करुणां कर्तुमियान्कृतो विलम्बः ॥ ४६॥
नवतामरसेन मृगपोतस्तृषितो राम! । यथा व्यथाहरेण ।
भवताऽमरसेव्यपादुकेन स्वगुणैस्तोषकरैर्वशीकृतोऽहम् ॥ ४७॥
तव नाम भवदृते(२७) सुदूरादपि चेत्कर्णमुपैति सज्जनेन ।
उदितं मुदितं करोति चेतो दयिताया इव वाचिकें(२८) प्रियस्य ॥ ४८॥
धनिनः सुखिनस्तवैव नाम्ना परतः प्राकृततो धनादनित्यात् ।
धनिका न निकाममोदपात्रं जठराद्विभ्यति ये स्वकादपीश! ॥ ४९॥
भवतो भवतोषदेन नाम्ना भिदुरेणामृतगर्वपर्वतस्य ।
भवतोऽभव(२९) तोकमात्मनोऽहरिव मोच्यः स्वहितेच्छुनाहमज्ञः ॥ ५०॥
तव सद्भिपासकैरुदारैः सदयैराप्ततमैरुपेक्षितः किं ।
न(३०) विनश्यदुपेक्ष्यमस्य कार्यं त्विति यत्सा खलु पत्युरत्युपास्तिः ॥ ५१॥
रहसीश निपीयते(३१) प्रसादामृतमाकण्ठमिता मुदं हि सन्तः ।
वितरन्ति न मह्यमीषदेते बत कुक्षिम्भरिरीतिमाद्रियन्ते ॥ ५२॥
सकृपाः कथमार्तमस्य शक्तं कृपणं मां शरणागतं न पान्ति ।
अमितान्न दयामृतादुदारा अपि दातुं कथमीपदुस्सहन्ते ॥ ५३॥
विभवेऽधिगतेऽमिते सुहृद्भिर्न समं केवलमेव साकमन्यैः ।
कृपणैरहितैरपि प्रकामं सुखमार्येश्वर! साधवो भजन्ते ॥ ५४॥
त्वमुदारवरः कथं सखायस्तव सख्युर्ननु नो समानशीलाः ।
मयि तेऽत्रभवान्कपाविवार्ये बत बुद्धं युभयेऽपि तुल्यलीलाः ॥ ५५॥
यदि नाथ! । गतोऽसि साकमिष्टैर्वरमस्मान्कृपणाञ्च्छ्रितान्स्वमेव ।
ननु पालयिता कृतोऽत्र कः स क्व च किं चानिलनन्दनोऽपरो वा ॥ ५६॥
स तु सम्प्रति गन्धमादनाद्राविति नाथ! । श्रुतमस्तु नः किमूनं ।
परमेकमिहान्यसर्वकार्यस्मृतिरोधि व्यसनं हि सद्भिरुक्तम्(३२) ॥ ५७॥
स हि किन्नरचारणादिगीतं मुनिभिः साकमुदश्रु मीलिताक्षं ।
सततं चरितामृतासवं ते पिबति त्यक्तभयोऽस्मृताखिलेहः ॥ ५८॥
श्रुतमेवमपीह यत्र नाम्नस्तव सङ्कीर्तनमेष तत्र तत्र ।
रचिताञ्जलिरश्रुपूर्णदृक्चेत्यपि वाल्मीकिमुनेर्न गरिपार्था(३३) ॥ ५९॥
अयि नाथ! । कथं नु तर्हि साधुर्वत सोऽद्यापि कपिर्मया न दृष्टः ।
यदि पातकनष्टदृष्टिरस्मि प्रतिमां तेऽहमहो कथं पिबामि ? ॥ ६०॥
स्वजनो वरमात्मनः प्रियत्वात्प्रतिमातः किमितीश! । चेत्तथास्तां ।
भवतो भवतोपदाच्च नाम्नोऽप्यधिकः किं श्रवणोत्सुकोऽस्मि दीनः ॥ ६१॥
अधिको निजनामतो मतोऽयं स्वजनस्ते यदि तर्हि राम! । तेन ।
क्षमिणातिदयावताथ सद्योऽखिलतापापह ! कीर्तनेन भाव्यम् ॥ ६२॥
अलमोमिति चेत्कथं न नाथ! । द्रुतमद्याप्युपयाति हन्त पातुं ।
असकृद्धि पुरा स्मृतस्तदास्ताम धुनैवापि तु चेतसा स्मरामि ॥ ६३॥
अयि कीशवराप्तवर्य! । साधूत्तम ! सीताहृदयव्यथौषधोक्ते ।
रघुवीर ! यशःसुधाकरस्य स्वमनन्तोऽस्यनवद्यपक्ष एषः ॥ ६४॥
अधुनापि च संस्तुतो न चास्यां स कवीन्द्रो(३४) मुदितः स्तुतौ कथं स्यात् ।
इति वाच्यमहो यतोऽधिकस्ते भजकस्त्वत्त उदार आशुतोषः ॥ ६५॥
कृतयैव यया कयापि नुत्या मुदमाप्नोषि विभो! । भजज्जनेन ।
किमु योऽभ्यधिकः कृपालुरार्यो भवतो भागवतो मतोऽतिसाधुः ॥ ६६॥
भगवन् ! । स(३५) समीरसूनुरार्यस्त्वयि ते नाम्नि च साधुमोदधाम्नि ।
परमादृत इत्यवैमि तद्वत्स्मरतामुद्धरणेन नूनमद्य ॥ ६७॥
स समीरसुतः कृतप्रयासः सुतरां सम्प्रति साधुविश्रमार्थं ।
सखिभिश्चरितासवं तवालं परिपीयाद्य सुखं समं नु सुप्तः ॥ ६८॥
न कृतः खलु लक्ष्मणेन देव्या भवता वात्र सुहृन्मणौ प्रसादः ।
कथमेष न खिन्नमानसः स्यादनुरूपाममवाप्य सत्कृतिं स्वाम् ॥ ६९॥
स हि कष्टभुगेव देव! । नीता इतरे तु स्वपदं सहैव सर्वे ।
न कुशस्य(३६) लवस्य वाप्यमात्येष्वपि ते हाप्तपदः कृतो महात्मा ॥ ७०॥
अथ किं बहुना(३७) भवान् दयालुर्न कृतज्ञो न वरप्रदो न चाप्तः ।
त्यजतानुजदारमारुतींस्ते(३८) कृतिना किं सुकृतं कृतं कृपालो! ॥ ७१॥
न भवान्न भवज्जनोऽपि दीनेष्वशुचिष्वद्य कलावद्यकाले ।
करुणो वरदं कृतज्ञमेकं तव तेषामपि नाम राम! कामम् ॥ ७२॥
इति श्रीरामे स्तवोऽर्पितोऽयम् ।
इति श्रीरामनन्दनमयूरेश्वरकृता रामस्तुतिः समाप्ता ।
टिप्पणि
* । अत्र कविः संसारदावानलदग्धः स्वसमुद्धरणायोपास्यं दैवतं श्रीरामचन्द्रं स्तौति रघुनाथेत्यादिना । भवाटवीपरिभ्रमणपरिखिन्नश्च स्वोद्धारे बिलम्बमसहमानो दुरितवारिधित्वमात्मनोऽत्र निदानमाशङ्कमानश्च श्रीरामचरितादेव बहून्युदाहरणानि समुपन्यस्य ``पापिनामुद्धार एव ते व्रतं, अहं च तेषामग्रणीः तन्मामपि द्रुतं समुद्धर'' इति च विज्ञापयति ।
१। सतां अयः शुभङ्करः ।
२। भवसागरे इत्यर्थः ।
३। हस्तदोषः-भो ।
४। तृणवत् त्यक्तौ सदङ्गना पतिव्रता सीता अनुजश्च लक्ष्मणो येन सः ।
५। दृतिश्च-मभस्रा । यथा भस्राया उच्छ्वसितमकिञ्चित्करं तथा तव दास्यादृते जन्तोर्जीवनं निष्फलमित्यर्थः ।
६। दरप्रयत्नात् अल्पेनवायासेन ।
७। नतानां भक्तानां रक्षायां रक्षण विकलं सर्वदा व्याप्त प्रयतमानमिति यावत् ।
८। यथा स्वं शुद्धवृत्या पतिव्रतया सीतया विनाकृतश्चलस्वभावैर्वानरैः सह सख्यमकरोस्तथाहमपि शुद्धवृत्या सदाचारेण रहिनश्चञ्चलैविषयप्लवगैः सख्यमकरवम् । तदात्मसब्रह्मचारिणं मां हे नृपाल त्वं रक्षेति योजनीयम् । शुद्धवृत्त्येति पदं श्लेषण योजनीयम् ।
९। जडात्मा डलयोरभेदाज्जलात्मा चन्द्रः । जडम्वरूप इति ध्वनिः । चन्द्रः अनेकैः करैः किरणैः अमृतं वितरतु । तप्तोऽप्यहं तं जडात्मानं जलात्मानपीति अपिशब्द आवृत्या द्विर्योज्यः । न भजे । यत्तव नाम शूलभृतोऽपि शशिशेखरस्य शिवस्यापि तापं शममनयत्तत्ते नामैव मेऽमृतं तदहं पातुमिच्छामीत्यर्थः । अत्र शशिनामृतवर्षिणा शूलभूतः शिवस्य तापो न शान्ति नीतः स च तव नाम्ना नीत इति शशिनोऽपि ते नाम गुणवत्तरमिति व्यज्यते ।
१०। गोत्रकर्तुः मूलपुरुषात्सवितुरित्यर्थः ।
११। न सोढा नसोढत्यत्र नशद्वेन सुप्सुपेति समासः ।
१२। अब्दो मेघः । कविपक्षे तु ध्वनिना घनश्यामो राम इत्यर्थ ।
१३। ``यशसा च जनन मत्सदृक्षाः शुचिनोदारतरेण तेऽतुलेन'' । इति साधुः पाठः । (मयूरकविः) ।
१४। अहिषु सपेंषु उग्रं गरं अलं प्रभूतमस्ति । अतस्तेऽहयस्तमः तमस्स्वरूपाः सन्ति । सुराः देवा अपि परोत्कषसहाः न । अतस्तेऽपि तमःस्वरूपा इत्यर्थः । किन्तु हे प्रभो, ते समनुक्रोशभरः कारुण्यभरः समस्ते भुवने समः । दृश्यते इति शेषः । नागलोकात्म्वर्गलोकाच्च मर्त्यलोक एव ते कारुण्यभरात्प्रशस्त इति भावः ।
१५। तस्मिन् यशसि आदृतः आदरयुक्तः आर्यमुखात् सद्भ्यः त्वद्यशः श्रुतवानप्यहं न पावितोऽस्मीति योजना ।
१६। अहं तथा दोषैर्वातपित्तकफैः पातकैश्च व्यापृतशरीरः यथा तव यशोऽपि मे व्याधि न प्रतिकुर्यादिति यत्सतां मत तदसारं न सारवदेवेत्यर्थः । किन्तु आर्क धाम सवितुस्तेजः यथा गाढं तमः न विषहते तथैव तव यशसा अहमपि समुद्धर्तव्य एवेति भावः ।
१७। शमनो यमः तम् । मरणमित्यर्थः ।
१८। कामप्रमुखाः वशमनाथमपि मामाकुलयान्त्रि अनयं च जनयन्तीति योजना
१९। अघदृक्षु पापिषु वरं श्रेष्ठम । तैः अहितैः अयं बद्धः न इति न इत्यन्वयः ।
२०। दरस्य भयस्य सादो नाशः तस्मिन यः रसः प्रेमा तस्माद्धेतोः, हे आर्य! सदा त्वया दीने मय्यपि स प्रसादः कार्य पवेत्यर्थः ।
२१। हे विभो अहिमावहं सन्तापकरं मां तथा चान्यमपि अव द्यं दुष्टं जहि । पापिनां सत्त्वं च जगत्यवश्यमित्याह । अयसेति । सुवर्णहेतोः स्पर्शमणेः सत्त्वेऽपि अयसोऽभावे तस्य गुणः प्रसिद्ध नैति । तथा मादृशां पापिनामभावे नमदुद्धरणाख्यस्तव गणः प्रसि द्धिं नोपेयादिति भावः ।
२२। तृणमास्ये यस्य सः प्रपन्न इति यावत् । इयं लोकोक्तिः ।
२३। ``स्वर्जनुषा'' इति पाठान्तरम (कविलिखितम्) ।
२४। ``गुणैर्युतं कं स्वहितं त्वा द्य विना'' इति पाठान्तरम् ।
२५। विगतः पक्ष्मपातः अक्षिनिमीलनं यस्मिन् कर्मणि ।
२६। ध न्व धनुः ।
२७। भवदृते भवदर्शनं विनापीत्यर्थः ।
२८। सन्देशः ।
२९। अभव अज इति सम्बुद्धिः । आत्मनः तोकमपत्यं अज्ञः अहं स्वहितेच्छुना त्वयैव अहेरिव भवतः संसारान्मोच्य इति योजना ।
३०। विनाशं गच्छत् अस्य भगवतः कार्यं न उपेक्ष्यम् । सद्भिरिति शेषः । सा हि पत्युः ते अत्युपास्तिः परमोपासनेत्यर्थः ।
३१। निपीयते इत्यस्य सद्भिरिति कर्तृपदम् ।
३२। महद्भिरिति पाठान्तरम् ।
३३। असत्या ।
३४। वाल्माकिः ।
३५। स इत्यपेक्षितमपि मातृकाद्वयेऽपि न दृश्यते ।
३६। हनूमतस्त्वया कुशस्य लवस्य वा मन्त्रिषु पदं न दत्तमिति भावः
३७। ``भवान् कृतशो न दयालुर्न ``इति पाठान्तरम् ।
३८। अनुजः लक्ष्मणः, दाराः सीता मारुतिश्च तांस्त्यजतेति योजनीयम् ।
Proofread by Rajesh Thyagarajan