श्रीरामस्तुति रामचन्द्राष्टकम्
रामं श्यामं राजीवनेत्रं रमणीयं
सीताकान्तंशान्तन्न्नित्यं सुखकन्दम् ।
शोभादिव्यं मरकतवर्णं नृपतीशं
वन्दे रामं नवनलिनाभमवधेशम् ॥ १॥
नानाद्रव्यैर्पूजितनित्यं शिवपूज्यं
नानाशास्त्रैर्वन्दितनित्यं सुखकन्दम् ।
नानाभोगैर्शोभितनित्यं समसेव्यं
वन्देरामं धरणीजायासम सेव्यम् ॥ २॥
रामं नित्यं सायक चापं करधारिं
शोभा पुञ्जं रत्नकीरीटं शिरसेव्यम् ।
रामंराज्ये राजविराजं नृपश्रेष्ठं
वन्दे रामंश्यामलकायं सुखपुञ्जम् ॥ ३॥
दण्डकविपिने त्राणविहीन प्रचलन्तं
लक्ष्मण सीतासहचरनीतं विचरन्तम् ।
ना ना वृन्दै ऋषिजन सहितैर्भजनीयं
वन्दे रामं निर्गत कामं सुखधामम् ॥ ४॥
रावण शत्रुं वानरमित्रप्रतिपालं
दनुजविनाशिञ्जनसुखराशिं सुखधामम् ।
अनुज सहगमनं सीतासहरमणं
मारुतसुतसेव्यं नाशकजन व्यसनं प्रणमामि ॥ ५॥
शान्तं दान्तं शोकविहीनं सकलत्रं
मुनिजनपालक भवभय नाशक ।
सुमधुर धरणीतल अवतार धरं
श्रीरामं दशरथ तनयं प्रणमामि ॥ ६॥
रामं नित्यं वाञ्छित फलदं प्रणमामि
रामं नित्यं लक्ष्मण पूज्यं नृपश्रेष्ठम् ।
मायातीतं कालातीतं त्रिगुणेशं
निर्गुणमेकं शान्तं शुद्धं प्रणमामि ॥ ७॥
श्यामलकायं निर्मितमायं प्रणमामि
जाप्यन्न्नित्यं तवशुभ नामं सुखपूर्णम् ।
वन्दे रामं श्यामलकायं धरणीशं
वन्दे रामं शतदलनेत्रं सततं त्वम् ॥ ८॥
साष्टाङ्ग प्रणाम-रामं नमामि मनसा वचसा च नित्यं
रामं नमामि शिरशा उरसातथैव ।
रामं नमामिपदजानुभुजौदृशाच
रामं नमामि सततं भुवनेशमीड्यम् ॥ ९॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीरामाष्टकं सम्पूर्णम् ।
अपने सब काम भूलकर सदा ईश्वर को स्मरण करते
रहो -- ``सन्त वाणी''
सच्चा सन्त ईश्वर की गोद में खेलता मुस्कराता सुन्दर
बालक है -- ``सन्तवाणी''
अपनी प्रिय से प्रिय वस्तु का अपने प्रिय परमात्मा के लिए त्याग करो,
यही प्रभु प्रेम का लक्षण है -- ``सन्तवाणी''
भक्त जब प्रभु का सब प्रकार से आश्रय लेता है तभी परमेश्वर
उसकी रक्षा अपने हाथ में ले लेता है -- ``सन्तवाणी''
अङ्काधिरूढं शिशुगोपगूढम्, स्तनं धयन्तं कमलैक कान्तम् ।
सम्बोधयामास मुदायशोदा, गोविन्द दामोदर माधवेति ॥
(स्तोत्र से. )
Proofread by Paresh Panditrao