श्रीकीलदेवाचार्यविरचितं साधनभक्तिदर्पणम्
नत्त्वा भाष्यकृतं रामानन्दं रामं गुरुं तथा ।
भक्तानन्दप्रदं कुर्वे साधनभक्तिदर्पणम् ॥ १॥
रामस्य तैलधारावद् विच्छेदरहिता स्मृतिः ।
पुरुषार्थात्मिका भक्तिस्तत्साधिका मता नव ॥ २॥
नाम्नो धाम्नश्चरित्रस्य रूपस्य यशसोऽपि च ।
श्रवणे रघुनाथस्य प्रोक्ता श्रवणभक्तिता ॥ ३॥
श्रद्धया रसधाम्नो हि नाम्नो रूपादिकस्य च ।
कीर्त्तने रामचन्द्रस्य कीर्त्तनभक्तितोदिता ॥ ४॥
सर्वेशस्य जगद्धेतोर्निदोषस्य गुणाम्बुधेः ।
स्मरणे मैथिलीशस्य स्मरणभक्तिता स्मृता ॥ ५॥
पापिपावनरामस्य श्रद्धया पादपद्ययोः ।
सेवने च मता प्राज्ञैः पादसेवनभक्तिता ॥ ६॥
अमोघार्चनरामस्य मुक्तिदं पापनाशनम् ।
अर्चनं श्रद्धया विज्ञैरर्चनत्वेन सम्मतम् ॥ ७॥
सर्वदुः खहरे पुंसां सर्वसौख्यकरे तथा ।
वन्दने राघवेन्द्रस्य वन्दनभक्तिता मता ॥ ८॥
परितः सेवनं श्रीमद्रामस्य सर्वशेषिणः ।
दास्यभक्तितया प्रोक्तं भक्तितत्त्वविशारदैः ॥ ९॥
तनुवित्तसुतादिम्यः सर्वेम्यश्चाधिकश्च यः ।
स्नेहः श्रीराघवस्यात्र सख्यभक्तितयोदितः ॥ १०॥
वैराग्यपूर्वकं श्रीमद्रामायात्मसमर्पणम् ।
बुधैर्नाम्ना हि तत्प्रोक्तं भक्तिरात्मनिवेदनम् ॥ ११॥
द्वारपीठेश्वरश्रीमत्कीलाचार्येण निर्मितम् ।
भक्तमोदावहं भूयात् साधनभक्तिदर्पणम् ॥ १२॥
इति श्रीकीलदेवाचार्यविरचितं साधनभक्तिदर्पणं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey