श्रीभृङ्गिदेवाचार्यप्रणीतः साधननिर्णयः
नत्त्वा गुरं च श्रीरामानन्दं भाष्यविधायकम् ।
सत्साधनप्रबोधाय कुर्वे साधननिर्णयम् ॥ १॥
शरारीत्माभिमानं हिं पुंसोऽविद्या मता बुधैः ।
स्वकीयत्वाभिमानं चाप्यस्वकीयेषुः वस्तुषु ॥ २॥
ततो देहप्रवेशश्च ततोऽविद्या प्रजायते ।
प्रवृत्तं वर्तते चेदं चक्रमनादिकालतः ॥ ३॥
अपारस्य भयस्यात्र स्मृता हेतुर्मता च या ।
तापत्रयानुभूतिः सा जीवस्य तत एव हि ॥ ४॥
अदृष्टोपायतश्चैव तस्य नाशो न चान्यथा ।
श्रीरामानुग्रहः शास्त्रे स चोपायः प्रकीर्त्तितः ॥ ५॥
कर्मज्ञानाङ्गिनी भक्तिस्तद्धेतुत्वेन निश्चिता ।
वर्णाश्रमधर्मरूपं तत्र कर्म मतं बुधैः ॥ ६॥
स्वभावयोस्तथैवात्र जीवेशयोः स्वरूपयोः ।
ज्ञानं मतं च भक्त्यङ्गं सम्पाद्यं तद्धि सद्गुरोः ॥ ७॥
शेषो देहादिभिन्नश्च जीवोऽणुश्चेतनो मतः ।
शेषी देही च सर्वस्य चेतनो विभुरीश्वरः ॥ ८॥
साधनसप्तकाद् रामे प्रीतिः सर्वाधिका च या ।
सा हि भक्तितया प्रोक्ता रामानुग्रहकारणम् ॥ ९॥
रामस्य कृपया जीवः सायुज्यं लभते ध्रुवम् ।
पुनरावर्त्तते नैव यल्लब्ध्वाऽत्र भवाम्बुधौ ॥ १०॥
श्रीमद्भडङ्गिदेवार्यद्वारपीठेशनिर्मितः ।
साधनबोधको भूयादेष साधननिर्णयः ॥ ११॥
इति श्रीभृङ्गिदेवाचार्यप्रणीतः साधननिर्णयः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey