सगुणनिर्गुणब्रह्माभेदवादः
जगतः सर्जकं चाथ रक्षकं लयकारकम् ।
मुक्तिदं च जगन्मूलं वेदवेद्यं परेश्वरम् ॥ १॥
साकारं च निराकारं सगुणं निर्गुणं तथा ।
वन्दे परात्परं ब्रह्म श्रीरामं जानकीश्वरम् ॥ २॥
निग्रहवर्जितां रम्यां श्रीरामस्यातिवल्लभाम् ।
अनुग्रहमयीं सीतां वन्देहं विश्वमातरम् ॥ ३॥
श्रीमद्रामकृपापात्रं रामसेवारतं सदा ।
हनूमन्तमहं वन्दे सर्वविघ्नविनाशकम् ॥ ४॥
ब्रह्मसूत्रविधातारं श्रीमन्तं बादरायणम् ।
बोधायनं तथा वन्दे वृत्तिकृत्पुरुषोत्तम् ॥ ५॥
आनन्दभाष्यकर्त्तारमाचार्यचक्रवर्त्तिनम् ।
वन्दे यतीश्वरं रामानन्दाचार्यं जगद्गुरुम् ॥ ६॥
व्रतीन्द्रं ब्रह्मतत्त्वज्ञं नैष्टिकब्रह्मचारिणम् ।
टीलापीठेश्वरं वन्दे टीलाचार्यं जगद्गुरुम् ॥ ७॥
श्रीमद्रामसमारम्भां रामानन्दार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ८॥
नत्त्वा गुरोः पदाम्भोजं भवाम्भोधेश्च तारकम् ।
सगुणनिर्गुणब्रह्माभेदवादं कोराम्यहम् ॥ ९॥
निष्कलं निष्क्रियं चाथ निर्गुणं च निरञ्जनम् ।
``विज्ञानमानन्दं ब्रह्म'' इत्येवं श्रुतिवाक्यतः ॥ १०॥
निषेधः प्राकृतानां हि गुणानामेव राघवे ।
परास्य शक्तिरित्यादिशक्त्यादिबोधकश्रुतेः ॥ ११॥
ननु सदेव सोम्येदमग्र आसीदिति श्रुते ।
सृष्टेः पूर्वं मतं ब्रह्म भेदत्रयविवर्जितम् ॥ १२॥
निर्विशेषतया तस्य सगुणत्वं कथं भवेत्क्ष ।
इति चेन्न यतः श्रुत्या कारणं ब्रह्म बोध्यते ॥ १३॥
सूक्ष्माचिच्चिद्विशिष्टं हि कारणं ब्रह्म कथ्यते ।
अन्यथा ब्रह्मणस्तस्माज्जगत्सृष्टिर्न सम्भवेत् ॥ १४॥
अङ्गीकारेण मायाया जगदुत्पत्तिसम्भवः ।
इति चेन्न, विकल्पं न सहेतैतद् वचो यतः ॥ १५॥
सर्वकर्त्री हि सा माया निर्विशेषमहं तथा ।
इत्येवं ब्रह्म जानाति नवा जानाति तन्ननु ॥ १६॥
आधे तु ज्ञातृताऽऽपत्त्या निर्विशेषं कथं हि तत् ।
अन्त्येऽज्ञत्वेन मायाया अङ्गीकारो न सम्भवेत् ॥ १७॥
यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः ।
इत्यादीनां श्रुतीनां हि विरोधश्च भवेद् ध्रुवम् ॥ १८॥
अङ्गीकाराय मायाया ब्रह्मशक्तिर्मता न वा ।
ब्रह्माद्ये निर्विशेषं नोऽङ्गीकारश्चान्तिमे न हि ॥ १९॥
किं च मायात्मकं ब्रह्म तदोच्यतां न वा तथा ।
अङ्गीकारवचो व्यर्थमाद्येऽन्त्येऽनन्तता कथम् ॥ २०॥
अङ्गीकारान्नु पूर्वस्मिन् काले माया कमाश्रिता ।
ब्रह्माश्रितेतिचेत् तर्हि सर्वदा स्याद् विशिष्टता ॥ २१॥
तथा चाद्वैतताहानिर्ब्रह्मणश्च भवेद् ध्रुवम् ।
ईशस्यैव गुणाः सर्वे मताः सर्वज्ञतादयः ॥ २२॥
ब्रह्मणि निर्विशेषे नु तस्मात् सम्भवन्ति न ।
ते मायोपाधिका ईशे मताः स्वाभाविका न हि ॥ २३॥
अस्मान्मायीति सम्प्रोक्तः श्रुतौ मायितयेश्वरः ।
इति चेन्न, कुतो यस्मान्मायी विचित्रकारकः ॥ २४॥
मायया सततं वेत्ति प्राचीनं च शुभाशुभम् ।
मायाशब्दस्तथा चैवं क्वचिज् ज्ञानस्य वाचकः ॥ २५॥
ब्रह्मणो यत्तदद्रेश्यमित्युक्ता निर्विशेषता ।
तदन्यथाऽनुपपत्त्या सगुणान्निर्गुणं परम् ॥ २६॥
इति चेन्न यतः श्रुत्या निषिध्य प्राकृतान् गुणान् ।
अनौपाधिकशक्त्यादिगुणा ब्रह्मणि बोधिताः ॥ २७॥
सगुण निर्गुणशैक्यं पुराणेऽभिहितं ततः ।
सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्वदृक् ॥ २८॥
न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि ।
वक्तुं शक्या वियुक्तस्य सत्वाद्यैरखिलैर्गुणैः ॥ २९॥
ब्रह्मणः सगुणत्वं तत् कल्याणगुणयोगतः ।
प्राकृतगुणराहित्यान्निर्गुणत्वं च तस्य हि ॥ ३०॥
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।
श्रुत्यविषयतैवं हि ब्रह्मणि प्रतिपादितम् ॥ ३१॥
मैवं श्रुत्या तन्महिम्न इयत्ताप्रतिषेधनात् ।
अन्यथा ब्रह्म वेदे तिश्रुतिकोपः समाप्नुयात् ॥ ३२॥
निर्विशेषं परं ब्रह्म सदेवेत्यवधारणात् ।
गुणतोऽप्यद्वितीयं तत् द्वितीयं सहते न हि ॥ ३३॥
अध्यारोपापवादन्यायतो रज्जावहेरिव ।
आरोपो न प्रपञ्चस्य ब्रह्मणि निर्विशेषके ॥ ३४॥
एवञ्चापि न सिध्येद्धि ब्रह्मणि निर्विशेषता ।
दृष्टान्तस्य हि वैरूप्यं भवतः कथने यतः ॥ ३५॥
दृष्टान्ते रज्ज्वधिष्ठानं तत्राज्ञानादहेर्भ्रमः ।
अज्ञानस्याश्रयो द्रष्टा ह्यपदेष्टाऽप्यपेक्ष्यते ॥ ३६॥
यतश्चाद्वैतसिद्धान्ते ब्रह्मभिन्नं न किञ्चन ।
सङ्गच्छते न दृष्टान्तो तन्मतेऽतः कथञ्चन ॥ ३७॥
आरोपितप्रपञ्चस्य द्रष्टाकश्चेति कथ्यताम् ।
नान्योऽतोऽस्ति श्रुतेर्वाक्याद् ब्रह्मैव नेतरो ननु ॥ ३८॥
एवश्चेज् ज्ञानमात्रस्य ब्रह्मणो द्रष्टृता कथम् ।
मायायोगेन सा चेति विकल्पं सहते न हि ॥ ३९॥
आगन्तुकश्च योगोऽयं स्वाभाविको मतोऽथवा ।
ब्रह्मणो विभुताहानिराद्ये पक्षे मते खलु ॥ ४०॥
मायाशबलमेव स्यादग्रेऽपि ब्रह्म चान्तिमे ।
विशिष्टमेव तद् ब्रह्म नाविशिष्टं कदापि हि ॥ ४१॥
गुणानां किन्तु दिव्यानां वैशिष्ट्यं राघवे मतम् ।
प्राकृतानां गुणानां तु राहित्यं तत्र बुध्यताम् ॥ ४२॥
आचार्यवासवश्रीमन्मङ्गलाचार्यनिर्मितम् ।
वादोऽयं जयतान्नित्यं वादिनां वादसङ्गरे ॥ ४३॥
इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः सगुणनिर्गुणब्रह्माभेदवादः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey