श्रीभृङ्गिदेवाचार्यप्रणीतं श्रीसरयूमङ्गलं
आनन्दभाष्यकृद्रामानन्दाचार्य गुरुं तथा ।
कुर्वे रामं च नत्त्वाऽहं सरयूमङ्गलं शुभम् ॥ १॥
यस्याश्च निर्मले नीरे सस्ना रामश्च सानुजः ।
भवतात् सरयूदेव्यै तस्यै च मङ्गलं शुभम् ॥ २॥
भुक्तिदा मुक्तिदा या हि दर्शनस्पर्शनादिभिः ।
भवतात् सरयूदैव्यै तस्यै च मङ्गलं शुभम् ॥ ३॥
यस्याः कूलेऽनुकूले तु विजहार हि राघवः ।
भवतात् सरयूदेव्यै तस्यै च मङ्गलं शुभम् ॥ ४॥
तीर्थानां यज्जले स्नानात् पापान्मुक्तिर्भवेदिह ।
भवतात् सरयूदेव्यै तस्यै च मङ्गलं शुभम् ॥ ५॥
ऋद्धिदा सिद्धिदा या च रामभक्तिप्रपत्तिदा ।
भवतात् सरयूदेव्यै तस्यै च मङ्गलं शुभम् ॥ १६॥
अयोध्यावासिनो लोकान् यद्वायुः सेवते सदा ।
भवतात् सरयूदेव्यै तस्यै च मङ्गलं शुभम् ॥ ७॥
श्रीमद्भङ्गिदेवार्यद्वाराचार्यविनिर्मितम् ।
भवतान्मङ्गलं चैतत् सर्वेषां मङ्गलप्रदम् ॥ ८॥
इति श्रीभृङ्गिदेवाचार्यप्रणीतं श्रीसरयूमङ्गलं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey