शत्रुघ्नकवचम्

शत्रुघ्नकवचम्

॥ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीशत्रुघ्नकवचम् ॥ अगस्तिरुवाच- अथ शत्रुघ्नकवचं सुतीक्ष्ण श्रुणु सादरम् । सर्वकामप्रदं रम्यं रामसद्भक्तिवर्धनम् ॥ १॥ शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं पार्श्वे श्रीरघुनन्दनस्य विनयाद्वामेस्थितं सुन्दरम् । रामं स्वीयकरेण तालदलजं धृत्वातिचित्रं वरं सूर्याभं व्यजनं समास्थितमहं तं विजयन्तं भजे ॥ २॥ अस्य श्रीशत्रुघ्नकवचमन्त्रस्य अगस्ति ऋषिः । श्रीशत्रुघ्नो देवता । अनुष्टुप् छन्दः । सुदर्शन इति बीजम् । कैकेयीनन्दन इति शक्तिः । श्रीभरतानुज इति कीलकम् । भरतमन्त्रीत्यस्त्रम् । श्रीरामदास इति कवचम् । लक्ष्मणांशज इति मन्त्रः । श्रीशत्रुघ्नप्रीत्यर्थं सकलमनःकामनासिद्ध्यर्थं जपे विनियोगः ॥ अथ अङ्गुळीन्यासः । ॐ शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः । ॐ सुदर्शनाय तर्जनीभ्यां नमः । ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः । ॐ भरतानुजाय अनामिकाभ्यां नमः । ॐ भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः । ॐ श्रीरामदासाय करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः - ॐ शत्रुघ्नाय हृदयाय नमः । ॐ सुदर्शनाय शिरसे स्वाहा । ॐ कैकेयीनन्दनाय शिखायै वषट् । ॐ भरतानुजाय कवचाय हुं । ॐ भरतमन्त्रिणे नेत्रत्रयाय वौषट् । ॐ श्रीरामदासाय अस्त्राय फट् । ॐ लक्ष्मणांशजेति दिग्बन्धः ॥ अथ ध्यानम् - रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकम् । कैकेयीनन्दनं सौम्यं मुकुटेनातिरञ्जितम् ॥ १॥ रत्नकङ्कणकेयूरवनमालाविराजितम् । रशनाकुण्डलधरं रत्नहारसुनूपुरम् ॥ २॥ व्यजनेन वीजयन्तं जानकीकान्तमादरात् । रामन्यस्तेक्षणं वीरं कैकेयीतोषवर्धनम् ॥ ३॥ द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितम् । सुभुजं सुन्दरं मेघश्यामळं सुन्दराननम् ॥ ४॥ रामवाक्ये दत्तकर्णं रक्षोघ्नं खड्गधारिणम् । धनुर्बाणधरं श्रेष्ठं धृततूणीरमुत्तमम् ॥ ५॥ सभायां संस्थितं रम्यं कस्तूरीतिलकाङ्कितम् । मकुटस्थावतंसेन शोभितं च स्मिताननम् ॥ ६॥ रविवंशोद्भवं दिव्यरूपं दशरथात्मजम् । मधुरावासिनं देवं लवणासुरमर्दनम् ॥ ७॥ एवं ध्यात्वा तु शत्रुघ्नं रामपादेक्षणं हृदि । पठनीयं वरं चेदं कवचं तस्य पावनम् ॥ ८॥ अथ कवचप्रारम्भः । पूर्वे त्ववतु शत्रुघ्नः पातु याम्ये सुदर्शनः । कैकेयीनन्दनः पातु प्रतीच्यां सर्वदा मम ॥ १॥ पातूदीच्यां रामबन्धुः पात्वधो भरतानुजः । रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥ २॥ सर्वतः पातु मामत्र कैकेयीतोषवर्धनः । श्यामलाङ्गः शिरः पातु भालं श्रीलक्ष्मणानुजः ॥ ३॥ भ्रुवोर्मध्ये सदा पातु सुमुखोऽत्रावनीतले । श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥ ४॥ कर्णौ कुण्डलकर्णोऽव्यात् नासाग्रं नृपवंशजः । मुखं मम युवा पातु वाणीं पातु स्फुटाक्षरः ॥ ५॥ जिह्वां सुबाहुतातोऽव्याद्यूपकेतुपिता द्विजान् । चिबुकं रम्यचिबुकः कण्ठं पातु सुभाषणः ॥ ६॥ स्कन्धौ पातु महातेजाः भुजौ राघववाक्यकृत् । करौ मे कङ्कणधरः पातु खड्गी नखान् मम ॥ ७॥ कुक्षिं रामप्रियः पातु पातु वक्षो रघूत्तमः । पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥ ८॥ जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः । कटिं भरतमन्त्री मे गुह्यं श्रीरामसेवकः ॥ ९॥ रामार्पितमनाः पातु लिङ्गमूरू स्मिताननः । कोदण्डपाणिः पात्वत्र जानुनी मम सर्वदा ॥ १०॥ राममित्रः पातु झङ्घे गुल्फौ पातु सुनूपुरः । पादौ नृपतिपूज्योऽव्याच्छ्रीमान् पादाङ्गुलीर्मम ॥ ११॥ पात्वङ्गानि समस्तानि ह्युदाराङ्गः सदा मम । रोमाणि रमणीयोऽव्याद्रात्रौ पातु सुधार्मिकः ॥ १२॥ दिवसे सत्यसन्धोऽव्याद्भोजने शरसत्करः । गमने कलकण्ठोव्यात्सर्वदा लवणान्तकः ॥ १३॥ एवं शत्रुघ्नकवचं मया ते समुदीरितम् । ये पठन्ति नरास्त्वेतत्ते नराः सौख्यभागिनः ॥ १४॥ शत्रुघ्नस्य वरं चेदं कवचं मङ्गळप्रदम् । पठनीयं नरैर्भक्त्या पुत्रपौत्रप्रवर्धनम् ॥ १५॥ अस्य स्तोत्रस्य पाठेन यं यं कामं नरोऽर्थयेत् । तं तं लभेन्निश्चयेन सत्यमेतद्वचो मम ॥ १६॥ पुत्रार्थी प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । इच्छाकामं तु कामार्थी प्राप्नुयात्पठनादिना ॥ १७॥ कवचस्यास्य भूम्यां हि शत्रुघ्नस्य विनिश्चयात् । तस्मादेतत्सदा भक्त्या पठनीयं नरैः शुभम् ॥। १८॥ आदौ नरैर्मारुतेश्च पठित्वा कवचं शुभम् । ततः शत्रुघ्नकवचं पठनीयमिदं शुभम् ॥ १९॥ पठनीयं भरतस्य कवचं परमं ततः । ततः सौमित्रिकवचं पठनीयं सदा नरैः ॥ २०॥ पठनीयं ततः­ सीताकवचं भाग्यवर्धनम् । ततः श्रीरामचन्द्रस्य कवचं सर्वथोत्तमम् ॥ २१॥ पठनीयं नरैर्भक्त्या सर्ववाञ्छितदायकम् । एवं षट् कवचान्यत्र पठनीयानि सर्वदा ॥ २३॥ पठनं षट् कवचानां श्रेष्ठं मोक्षैकसाधनम् । ज्ञात्वाऽत्र मानवैर्भक्त्या कार्यं यः पठनं सदा ॥ २४॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीशत्रुघ्नकवचम् ॥ हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत् हनुमत्-लक्ष्मण-सीता-राम – अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥ All the six kavachas hanumat-lakShmaNa-sItA-rAma-bharata-shatrughna from AnandarAmAyaNa should be recited together. If one is unable to recite all the six, then he/she can recite in the decreasing order hanumat-lakShmaNa-sItA-rAma hanumat-sItA-rAma hanumat-rAma sItA-rAma If this is not possible, then one should at least recite Shri Rama Kavacham. Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran
% Text title            : shatrughnakavacham
% File name             : shatrughnakavachaAnanda.itx
% itxtitle              : shatrughnakavacham(AnandarAmAyaNAntargatam)
% engtitle              : shatrughnakavacham
% Category              : kavacha, raama, vAlmIki
% Location              : doc_raama
% Sublocation           : raama
% Author                : Valmiki
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma, PSA Easwaran
% Description-comments  : from Anandaramayana
% Latest update         : January 30, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org