श्रीरामस्तम्भनाचार्यप्रणीता शिक्षाचिन्तामणिः
प्रणम्य भाष्यकृद्रामानन्दं रामं गुरुं तथा ।
शिक्षाचिन्तामणिं कुर्वे मुमुक्षूणां हितावहम् ॥ १॥
ज्ञानदाता गुरुर्लोके वैष्णवो ज्ञानवर्धकाः ।
ज्ञानस्य विषयो रामस्तत्कैङ्कर्यं फलं मतम् ॥ २॥
रामकैङ्कर्यसीमा तु वैष्णवसेवनं किल ।
आचार्यविषये यस्य विश्वासश्च कृतज्ञता ॥ ३॥
मङ्गलाशासनं योगे वियोगे चातिभीरुता ।
गतिचिन्ताऽनुभवेच्छा स ज्ञानी परिकीर्त्तितः ॥ ४॥
अर्थोन्मुखो भवेद्धीनो बन्धुना गुरुणा तथा ।
विषयप्रवणो हीनो लज्जयाथ भयेन च ॥ ५॥
विवेकनियती न स्तो बुभुक्षापीडितस्य हि ।
विषयिणां सुखं चाथ स्वापः संयमिनां न हि ॥ ६॥
श्रीरामस्तम्भनाचार्यद्वारपीठेशनिर्मितः ।
शिक्षाचिन्तामणिर्भूयाल्लोककल्याणकारकः ॥ ७॥
इति श्रीरामस्तम्भनाचार्यप्रणीता शिक्षाचिन्तामणिः सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey