श्रीकुबाचार्यप्रणीतं श्रीरामाष्टकं
(श्रीकेवलरामाचार्य)
निखिललोकतनुं मतिभक्तिगं श्रुतिशिरःपरिगीतसुकीर्तिकम् ।
तनुभृतां कृतकर्मसुसाक्षिणं मनसि राममिनं सुधियं स्तुवे ॥ १॥
निगममार्गसभूतिकृते सदा मनुजदेहधृतं निजमायया ।
मुनिपराशरपुत्रकृतेषु शं वहलसुन्दरसूत्रचयेषु यः ॥ २॥
विमलभाष्यकरः सदनात्मजो भुवि सुभूय निषेध्यगुणच्युतम् ।
निजजनाय दयोदधिकं न्वभूज्जगति सर्वगतं परिणौमि तम् ॥ ३॥
स्वशरणागतजीवसुरद्रुमं निशिचराग्निजलं प्रतिभायुतम् ।
अवधधामविहारपरायणं निगमनिः श्वसनं करुणागृहम् ॥ ४॥
सदसि राजशिरोमणिवन्दितं शुभयशःकृतगोतलधौतकम् ।
बहुशिरःकरपादविराजितं विधुदिवामणितोऽधिकभासुरम् ॥ ५॥
विपुलशक्तिभुवं ह्यवतारिणं विधिशिवादिनुतं जनमुक्तिदम् ।
प्रणिपतामि हरिं जगदीश्वरं त्रिविधतापमहोदधिकुम्भजम् ॥ ६॥
अरण्यं घनं शोधयन्तं यतीशं त्रिलोकस्य जन्मादिहेतुं वरेण्यम् ।
परब्रह्मसंज्ञं प्रभुं राममीड्यं स्तुवे नित्यमूर्त्तिं तु कूवार्यवर्यः ॥ ७॥
शुभे झीथडापत्तनेलब्धरामः सदाऽऽनन्दभाष्यम्पठन् सत्प्रतिज्ञम् ।
अबोधान्धकाराय भानुं दयालुं भवाब्धौनुडन्तं जनं रक्षयन्तम् ॥ ८॥
इति श्रीकुबाचार्यप्रणीतं श्रीरामाष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey