श्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं
नमस्कृत्य गुरं रामानन्दं भाष्यकृतं तथा ।
मुक्तिदमष्टकं कुर्वे श्रीरामब्रह्मणः शुभम् ॥ १॥
सर्जको जगतो यश्च जगतः पालकश्च यः ।
जगत्संहारको यश्च रामं ब्रह्म नमामि तम् ॥ २॥
येन सम्पादिता वेदाः प्रदत्ता ब्रह्मणे तथा ।
ब्रह्मा चोत्पादितो येन रामं ब्रह्म नमामि तम् ॥ ३॥
आमनन्ति च वेदा हि सर्वे नित्यं च यत्पदम् ।
श्रुतिवृन्दान्वितं रम्यं रामं ब्रह्म नमामि तम् ॥ ४॥
यस्यानन्दस्य वेत्ता हि न विभेति कुतश्चन ।
ध्येयानन्दमयं ध्येयं रामं ब्रह्म नमामि तम् ॥ ५॥
सर्वं भवति विज्ञातं यस्य विज्ञानतः किल ।
उपादानं हि सर्वेषां रामं ब्रह्म नमामि तम् ॥ ६॥
नरो यस्य प्रपत्त्या हि सर्वेभ्योऽभयतामियात् ।
सर्वशक्तिं च सर्वेशं रामं ब्रह्म नमामि तम् ॥ ७॥
यश्च लभ्यो हि सर्वेषां स्वभक्त्यैवार्चिरादिना ।
भजनीयं दयाम्भोधिं रामं ब्रह्म नमामि तम् ॥ ८॥
दिव्यदेहगुणो यश्च निर्दोषो दिव्यभूषणः ।
दिव्यधामप्रदं दिव्यं रामं ब्रह्म नमामि तम् ॥ ९॥
द्वारपीठेश्वरश्रीमत्कालूरामार्यनिर्मितः ।
पठतामष्टकं चेदं भवताद् भक्तिमुक्तिदम् ॥ १०॥
इति श्रीकालूरामाचार्यनिर्मितं श्रीरामब्रह्माष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey