श्रीदिवाकराचार्यकृतः श्रीरामब्रह्मस्तवः
आनन्दभाष्यकृद्रामानन्दं रामं परेश्वरम् ।
कुर्वे गुरुं च नत्त्वाऽहं रामब्रह्मस्तवं शुभम् ॥ १॥
जगतः सर्जको यश्च पालको हारकस्तथा ।
वन्दे दिवाकरस्थं तं श्रीरामं ब्रह्मसंज्ञकम् ॥ २॥
प्रणेता यश्च वेदानां पूर्वङ्कल्पानुसारतः ।
वन्दे दिवाकरस्थं तं श्रीरामं ब्रह्मसंज्ञकम् ॥ ३॥
श्रेष्ठप्रमाणरूपा हि श्रुतयो यत्र चान्विताः ।
वन्दे दिवाकरस्थं तं श्रीरामं ब्रह्मसंज्ञकम् ॥ ४॥
श्रीरामायण संज्ञं यच्चरितं पापनाशकम् ।
वन्दे दिवाकरस्थं तं श्रीरामं ब्रह्मसंज्ञकम् ॥ ५॥
नाम धाम चरित्रं च रूपं यस्य परात्परम् ।
वन्दे दिवाकरस्थं त श्रीरामं ब्रह्मसंज्ञकम् ॥ ६॥
यस्य भक्त्या प्रपत्त्या च मुक्तिर्भवति नान्यथा ।
वन्दे दिवाकरस्थं तं श्रीरामं ब्रह्मसंज्ञकम् ॥ ७॥
भासको भास्करादेर्यो यमादेर्भयदश्च यः ।
वन्दे दिवाकरस्थं तं श्रीरामं ब्रह्मसंज्ञकम् ॥ ८॥
द्वारपीठेश्वर श्रीमद्दिवाकरार्यनिर्मितः ।
भक्तिमुक्तिप्रदो भूयाद् रामब्रह्मस्तवः शुभः ॥ ९॥
इति श्रीदिवाकराचार्यकृतः श्रीरामब्रह्मस्तवः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey