श्रीरामचन्द्रविंशतिः
रामं ब्रह्म तथानन्दभाष्यकारं जगद्गुरुम् ।
नत्त्वा करोमि भावार्यं श्रीरामचन्द्रविंशतिम् ॥ १॥
सोदरहृतराज्यश्रीः सुग्रीवः सह मन्त्रिभिः ।
यस्य चाश्रितवान् पादं रामचन्द्रं नमामि तम् ॥ २॥
रावणन्यक्कृतो दान्तो विभीषणो भियाकुलः ।
स्वजनैर्यत्पदं चागाद् रामचन्द्रं नमामि तम् ॥ ३॥
रक्षोधिनाथसङ्क्षुब्धा सीता स्मृतवती च यम् ।
स्वभक्तवन्दितं नित्यं रामचन्द्रं नमामि तम् ॥ ४॥
चन्द्रांशशोभिते रम्येपुरा सरोवरोत्तमे ।
सस्मार यं गजो मुक्त्यै रामचन्द्रं नमामि तम् ॥ ५॥
पतिव्रताशिरोरत्ना गौतमधर्मचारिणी ।
अस्मरच्छापमुक्त्यै यं रामाचन्द्रं नमामि तम् ॥ ६॥
कालिन्दीपुलिने रम्ये ध्रुवः सस्मार यं मुदा ।
लोकोत्तरपदप्राप्त्यै रामचन्द्रं नमामि तम् ॥ ७॥
हीनाऽप्राप्तसहाया च कृष्णा सस्मार यं प्रभुम् ।
दयालुं कृष्णरूपं श्रीरामचन्द्रं नमामि तम् ॥ ८॥
जनकजनितक्लेशात् कयाधूनन्दनश्च यम् ।
दीनानाथेति सस्मार रामचन्द्रं नमामि तम् ॥ ९॥
यस्त्राता वेदशास्त्राणां दण्डकवनपावकः ।
स्वभक्तवन्दितं शान्तं रामचन्द्रं नमामि तम् ॥ १०॥
नक्तञ्चरसमूहाश्च वेदमार्गावदूषकाः ।
मुक्ताश्च दर्शनाद् यस्य रामचन्द्रं नमामि तम् ॥ ११॥
रावणभग्नपक्षश्च जटायुर्मांसभोजनः ।
यं दृष्ट्वा सद्गतिं लेभे रामचन्द्रं नमामि तम् ॥ १२॥
स्वधर्मत्यागतो भ्रष्टोऽजामिलः पुत्रछद्यतः ।
यन्नामस्मरणान् मुक्तो रामचन्द्रं नमामि तम् ॥ १३॥
वाली बालरविप्रख्यं यत्पदं च पुरस्थितम् ।
ध्यायन् मोक्षपदं लेभे रामचन्द्रं नमामि तम् ॥ १४॥
त्यक्त्वा सर्वाणि कृत्यानि शरभङ्गस्तपोधनः ।
साकेतमगमन् नत्त्वा रामचन्द्रं नमामि तम् ॥ १५॥
यच्चरणाम्बुजोद्भूता गङ्गा दुर्गतिनाशिनी ।
तापत्रयविनाशाय रामचन्द्रं नमामि तम् ॥ १६॥
सुगतिं शबरी लेभे निगमकर्मगर्हिता ।
आतिथ्यकरणाद् यस्य रामचन्द्रं नमामि तम् ॥ १७॥
ध्यायन् यस्य पदाम्भोजं भरतः साश्रुलोचनः ।
अवसत् त्यक्तराज्यश्री रामचन्द्रं नमामि तम् ॥ १८॥
गुहराजोऽप्यहन् पापं यदीयस्पर्शमात्रतः ।
भवदारिद्रयहर्त्तारं रामचन्द्रं नमामि तम् ॥ १९॥
जगन्निमित्तोपादानं स्वभक्तार्तिहरः परः ।
ध्येयश्चाप्यश्च यः स्वीयै रामचन्द्रं नमामि तम् ॥ २०॥
मुच्यते स्मरणाद् यस्य सद्यो भवभिया नरः ।
ब्रह्मेशाद्यमरैर्वन्द्यं रामचन्द्रं नमामि तम् ॥ २१॥
रामानन्दप्रशिष्येणाऽनुभवार्येण निर्मिता ।
पठतां ध्वान्तहृद्भूयाच्छ्रीरामचन्द्रविंशतिः ॥
इति श्रीमद् अनुभवानन्दाचार्यप्रणीता श्रीरामचन्द्रविंशतिः सम्पूर्णा ।
Encoded and proofread by Mrityunjay Pandey