परात्पर श्रीरामधामवर्णनम्
श्रीभरद्वाज उवाच -
वेदवेदान्तसारज्ञ विरञ्चिप्रभवोत्तम ।
भवता यत्परिज्ञातं तन्न जानन्ति केचन ॥ १॥
अतस्त्वां परिपृच्छामिहरेर्धाम्रां हि कारणम् ।
किञ्च तत् परमं धाम माधुर्येश्वर्यभूषणम् ॥ २॥
यत्र सर्वावताराणामादिकारण विग्रहः ।
क्रीडति कृपया मे त्वं तत्वतः कथय प्रभी ॥ ३॥
श्रीवशिष्ठ उवाच -
साधु पृष्टं त्वया तात गुह्याद् गुह्यतमं महत् ।
सारात् सारतमं वेदसिद्धान्तं प्रवदामि ते ॥ ४॥
श्रूयतां सावधानेन रहस्यमतिदुर्लभम् ।
रामभक्तं विना कापि न वक्तव्यं त्वयाऽनघ ॥ ५॥
सर्वेभ्यश्चापि लोकेभ्यश्चोर्ध्वं प्रकृतिमण्डलात् ।
विरजायाः परे पारे वैकुण्ठं यत्परं पदम् ॥ ६॥
तस्मादुपरि गोलोकः सच्चिदिन्द्रियगोचरः ।
तन्मध्ये रामधामास्ति साकेताख्यं परात्परम् ॥ ७॥
श्रीमद्वृन्दावनादीनि तद्धामावरणेष्वपि ।
सर्वेषामवताराणां सन्ति धामान्यनेकशः ॥ ८॥
केवलैश्वर्यमुख्यानि धामान्येतानि सन्मते ।
ऐश्वर्योपासका भक्ता ध्यायन्ति प्राप्नुवन्ति च ॥ ९॥
एभ्यः परतमं धाम श्रीरामस्य सनातनम् ।
पृथिव्यां भारते वर्ष ह्ययोध्याख्यं सुदुर्लभम् ॥ १०॥
अखण्डसच्चिदानन्दसन्दोहं परमाद्भुतम् ।
वाङ्मनोगोचरातीतं त्रिषु कालेषु निश्चितम् ॥ ११॥
भूतलेऽपि च यद्धाम तथापि प्रकृतेर्गुणाः ।
संस्पृशन्ति न तज्जातु जलानि कमलं यथा ॥ १२॥
कालः कर्म स्वभावश्च मायिकः प्रलयस्तथा ।
ऊर्मयः षड् विकाराश्च न यत्र प्रभवन्ति हि ॥ १३॥
यदंशेन प्रकाशेते विभूती द्वे च सर्वदा ।
अधश्चोर्ध्वमनन्ते च नित्ये च परमाद्भुते ॥ १४॥
विभाति सरयूर्यत्र पश्चिमादित्रिदिक्षु च ।
विरजाद्याः सरिच्छ्रेष्ठाः प्रकाशन्ते यदंशतः ॥ १५॥
परान्नारायणाच्चापि कृष्णात् परतरादपि ।
यो वै परतमः श्रीमान् रामो दाशरथिः स्वराट् ॥ १६॥
यस्यानन्तावताराश्च कला अंशा विभूतयः ।
आवेशा विष्णुब्रह्मेशाः परब्रह्मस्वरूपभाः ॥ १७॥
स एव सच्चिदानन्दो विभूतिद्वयनायकः ।
वात्सल्याद्यद्भुतानन्तकल्याणगुणवारिधिः ॥ १८॥
राजेन्द्रमुकुटप्रोद्यद्रत्ननीराजिताङ्घ्रिणा ।
पित्रा दशरथेनैव वात्सल्यामृतसिन्धुना ॥ १९॥
कौशल्याप्रमुखाभिश्च मातृभिर्भ्रातृभिस्त्रिभिः ।
स्वदारसीतया चाथ दामीभिश्चालिभिस्तथा ॥ २०॥
सखिभिः समरूपैश्च दासैश्चामितविक्रमैः ।
मत्प्रमुखैर्मुनीन्द्रश्च सुमन्त्राद्यैश्च मन्त्रिभिः ॥ २१॥
परिवारैरनेकैश्च सच्चिदानन्दमूर्तिभिः ।
भोगैश्च विविधैर्दिव्यैर्भोगोपकरणैस्तथा ॥ २२॥
सार्धं वसति यत्रैव स्वतन्त्रः क्रीडते सदा ।
क्षणं हित्वा न तद्धाम क्वचिद् याति स्वयम्प्रभुः ॥ २३॥
तन्माधुर्यमयं नित्यमैश्चर्यान्तर्गतं ध्रुवम् ।
रामस्याति प्रियं धाम नास्त्यनेन समं क्वचित् ॥ २४॥
अतोऽयोध्यां रसज्ञा ये सर्वदा पर्युपासते ।
प्राकृतैश्चक्षुभिर्नैव दृश्यते सा कथञ्चन ॥ २५॥
देहत्रयविनिर्मुक्ता रामभक्तिप्रभावतः ।
तुरीयसच्चिदानन्दरूपाः पश्यन्ति तां पुरीम् ॥ २६॥
अथ श्रीरामचन्द्रस्य यद्धाम प्रकृतेः परम् ।
सच्चिद्घनपरानन्दं नित्यं साकेतसंज्ञकम् ॥ २७॥
यदंशप्रभवा लोका वेकुण्ठाद्याः सनातनाः ।
वक्ष्याम्यहं मुनिश्रेष्ठ तस्यावरणसप्तकम् ॥ २८॥
एकैकस्यां दिशि श्रीमान् दशयोजनसम्मितः ।
अयोध्याया बहिर्देशः स वै गोलोकसंज्ञकः ॥ २९॥
महाशम्भुर्महाब्रह्मा महेन्द्रो वरुणस्तथा ।
धनदो धर्मराजश्च महान्तश्च दिगीश्वराः ॥ ३०॥
एतदंशसमुद्भूता देवा ब्रह्मशिवादयः ।
यथाधिकारं ते सर्वे स्वस्वलोकेषु संस्थिताः ॥ ३१॥
निधयो नवधा नित्या दशाष्टौ सिद्धयस्तथा ।
त्रयस्त्रिंशत् तथा देवा गन्धर्वाश्चाप्सरोगणाः ॥ ३२॥
अन्ये च विविधा देवा नित्याः सर्वे द्विजोत्तम ।
सायुधाः सगणाः श्रीमद्रामभक्तिपरायणाः ॥ ३३॥
सप्तर्षयो मुनीनद्राश्च नारदसनकादयः ।
प्रथमावरणे नित्यं साकेतस्य स्थिता मुने ॥ ३४॥
वेदमूर्तिधराः शास्त्रविद्याश्च विविधास्तथा ।
पञ्चधा मुक्तयश्चापि रूपवत्यः पृथक् पृथक् ॥ ३५॥
कर्म ज्ञानं च वैराग्यं योगश्च साधनैः सह ।
द्वितीयावरणे नित्यं स्वस्वरूपेण संस्थिताः ॥ ३६॥
सच्चिज्ज्योतिर्मयं ब्रह्म निरीहं निर्विकल्पकम् ।
निविशेषं निराकारं ज्ञानाकारं निरञ्जनम् ॥ ३७॥
अवाच्यमगुणं नित्यमनन्तं सर्वसाक्षिकम् ।
इन्द्रियविषयं सवरग्राह्यं स्वप्रकाशकम् ॥ ३८॥
न्यासिनां योगिनां यच्च ज्ञानिनां च लयास्पदम् ।
तृतीयावरणे तद् वै साकेतस्य विदुर्बुधाः ॥ ३९॥
केचित्तु केवलानां हि तत्रावासं वदन्ति हि ।
गर्भोदकनिवासी च क्षीरार्णवनिवासकृत् ॥ ४०॥
श्वेतदीपाधिपश्चाथ रमावैकुण्ठनायकः ।
चतुर्विंशत्यवताराः सन्ति तत्र पृथक् पृथक् ॥ ५१॥
सलोकाः सगणाः सर्वे मथुरा च महापुरी ।
पुरी द्वारावती नित्या काशी लोकैकवन्दिता ॥ ४२॥
काञ्ची मायापुरी दिव्या तथा चावन्तिकापुरी ।
अयोध्यामेव सेवन्ते चतुर्थावरणे स्थिताः ॥ ४३॥
साकेतपूर्वदिग्भागे श्रीमती मिथिलापुरी ।
सर्वाश्चर्यवती नित्या सच्चिदानन्दरूपिणी ॥ ४४॥
हम्यः प्रासादवर्यैश्च नानारत्नपरिष्कृतैः ।
विमानेर्विविधैरुच्चैश्चित्रध्वजपताकिभिः ॥ ४५॥
भ्राजते परिखादुर्गविविधोद्यानसङ्कुला ।
तस्यां श्रीमन्महाराजः शीरकेतुः प्रतापवान् ॥ ४६॥
श्वशुरो रामचन्द्रस्य वात्सल्यादिगुणार्णवः ।
निमिवंशध्वजः शूरश्चतुरङ्गबलान्वितः ॥ ४७॥
वेदवेदान्तसारज्ञः सर्वशास्त्रविशारदः ।
धनुर्वेदविदां श्रेष्ठः सर्वैश्वर्यसमन्वितः ॥ ४८॥
दासीदासगणैर्नित्यं सेवितो वसति स्वराट् ।
दक्षिणस्यां दिशि श्रीमान् कोशलाया गिरिर्महान् ॥ ४९॥
भ्राजते चित्रकूटः सच्चिन्मयानन्दमूर्तिमान् ।
नानारत्नमयैः श्रृङ्गर्विचित्रैश्चित्रपादपैः ॥ ५०॥
सुधास्वादुफले रम्यैः पुष्पभारावलम्बिभिः ।
लताजालवितानैश्च गुञ्जद्भ्रमरसङ्कुलैः ॥ ५१॥
मत्तकोकिलसन्नादेः कूजद्भश्चित्रपक्षिभिः ।
नृत्यन्मत्तमयूरैश्च निर्झरैनिमलाम्बुभिः ॥ ५२॥
सीतया सह रामस्य लीलारसविवर्धनः ।
चिद्रूपा काञ्चनी भूमिः समा रत्नैर्विचित्रिता ॥ ५३॥
समन्तात् पर्वतिन्द्रस्य दिव्यकाननमण्डिता ।
यत्र मन्दाकिनी रम्या वहति श्रीमती नदी ॥ ५४॥
मणिनिर्मलतोयाढ्या बज्रवैडूर्यबालुका ।
गुञ्जन्मधुव्रतश्रेणी प्रफुल्लमकलाकुला ॥ ५५॥
चित्रपक्षिकलक्वाणमुखरीकृतदिक् तटा ।
स्वर्णस्फटिकमाणिक्यमुक्ताबद्धतटद्वया ॥ ५६॥
चित्रपुष्पलतापुञ्जकुञ्जानि शोभितानि च ।
मधुराणि सहस्त्राणि तस्यास्तीरद्वयोरपि ॥ ५७॥
सन्ति नित्यविहारार्थं जानकीरामचन्द्रयोः ।
अयोध्या पश्चिमे भागे कृष्णस्य परमात्मनः ॥ ५८॥
नित्यं वृन्दावनं धाम चिन्मयानन्दमद्भुतम् ।
समन्ताद् भूः समा यत्र काञ्चनी रत्नचित्रिता ॥ ५९॥
दिव्यवृक्षैर्लता कुञ्जैर्गुञ्जन्मत्तमधुव्रतैः ।
नवीनैः पल्लवैः स्निग्धैः फलेः पुष्पेश्न सन्नतेः ॥ ६०॥
नदत्पक्षिगणैश्चित्रैर्मयूरेश्च विराजते ।
गोवर्धनो गिरिर्यत्र काञ्चनो रत्नमण्डितः ॥ ६१॥
लतापादपसङ्कीर्णो गुहनिर्भरकूटवान् ।
नदी यत्र महापुण्या कालिन्दी कृष्णवल्लभा ॥ ६२॥
नीलरत्नजलोत्तुङ्गतरङ्गावर्तमालिनी ।
फुल्लपङ्केरुहा मत्तकूजद्भृङ्गविहङ्गमा ॥ ६३॥
स्वर्णघट्टतटा रत्नबालुका शोभते भृशम् ।
गोपीगोपगणैर्नित्येर्गो वृन्दैर्गोपबालकेः ॥ ६४॥
श्रीमन्नन्दयशोदाभ्यां भ्रात्रा श्रीमद्वलेन च ।
सखीभिर्गोपकन्याभिर्वृषभानुसुतादिभिः ॥ ६५॥
सार्धं वसति तत्रैव श्रीकृष्णः पुरुषोत्तमः ।
क्कणद्वेणुमनोहारी विहारी रासमण्डले ॥ ६६॥
श्रीराधिका मुखाम्भोजमकरन्दमधुव्रतः ।
सत्यायाश्चोत्तरे भागे महावैकुण्ठसंज्ञकम् ॥ ६७॥
महाविष्णोः परं धाम ध्रुवं वेदैः प्रकीर्तितम् ।
सर्वतः खचिता रत्नैर्भूमिर्यत्र हिरण्मयी ॥ ६८॥
वापीकुण्डतटाकैश्च दिव्यारामैर्विराजते ।
समन्ताच्च नदी यत्र विरजा फुल्लपङ्कजा ॥ ६९॥
स्वच्छ स्फटिकतोयौघावर्त तुङ्गतरङ्गिणी ।
स्वर्णरत्नतटा रम्या वज्रस्फटिकसैकता ॥ ७०॥
भङ्गपक्षिगणोद्घुष्ट कोलाहलसमाकुला ।
प्रासादैः पार्षदेन्द्राणां विमानैर्विविधैस्तथा ॥ ७१॥
चित्रशालोत्तमैर्दिव्यैर्हम्र्यजालैः सहस्रशः ।
उच्चै र्ध्वजपताग्रैरत्नकाञ्जनचित्रितैः ॥ ७२॥
ललनारत्नसङ्घैश्च तल्लोकं द्योततेऽधिकम् ।
हैरण्यं सुमद्ररत्नैः खचितं परमायतम् ॥ ७३॥
तत्रैकं भवनं प्रांशुप्रासादैः परिवारितम् ।
सहस्त्रैः कलशै भातं ध्वजैश्चित्रैश्न केतुभिः ॥ ७४॥
मुक्तादामवितानैश्च चित्ररत्नगवाक्षकैः ।
महद्वज्रकपाटैश्व मणिस्तम्भेः सहस्रशः ॥ ७५॥
रतनाङ्गणं महाकक्षं भाति तल्लोकभूषणम् ।
तन्मध्ये शेषपर्यङ्के नित्यसत्वैकविग्रहः ॥ ७६॥
आस्ते नारायणो नित्यः किशोरः सद्गुणार्णवः ।
मेघश्यामश्चतुर्बाहुस्तडित्पीताम्बरावृतः ॥ ७७॥
श्यामस्निग्धालक व्रातैरुल्लसन्मुखपङ्कजः ।
महद्रत्नकिरीटेन कुण्डलाङ्गदकङ्कणेः ॥ ७८॥
श्रीवत्स कौस्तुभाभ्यां च सदगन्धिवनमालया ।
वैजयन्त्योपवीतेन मुद्रिकाहारनूपुरेः ॥ ७९॥
स्वर्णसूत्रेण काञ्जयादिभूषणैभूषितो विभुः ।
शङ्खचक्रगदापद्माद्यायुधैश्चाप्यलङ्कृतः ॥ ८०॥
विभाति श्रीमतीभिश्च श्रीभूलीलादिशक्तिभिः ।
विष्वक्सेनादयो नित्यमुक्ता मुक्ताश्च सूरयः ॥ ८९॥
शुद्धसत्वात्मकाः सर्वे श्यामलाङ्गाश्चतुर्भुजाः ।
दिव्यगन्धानुलिप्ताङ्गाः पद्माक्षः पीतवाससः ॥ ८२॥
सुकेशाः सुस्मिता दिव्यमाल्यालङ्कारभूषिताः ।
सर्वायुधधरा दिव्यललनायूथ सेविताः ॥ ८३॥
भगवन्तं श्रिया जुष्टं सेवन्तेऽहर्निशं मुदा ।
मिथिलाचित्रकूटश्च श्रीमद्वुन्दावनं तथा ॥ ८४॥
महावैकुण्ठमेतद्धि पञ्चमावरणे मुने ।
ततस्तु परमानन्दसन्दोहं परमाद्भुतम् ॥ ८५॥
अयोध्यायाश्चतुर्दिक्ष चतुर्विशतियोजनम् ।
सर्वतो वेष्टितं नित्यं स्वप्रकाशं परात्परम् ॥ ८६॥
सच्चिदेकरसानन्दं मायागुणविवर्जितम् ।
वाङ्घनोगोचरातीतं प्रमोदारण्यसंज्ञकम् ॥ ८७॥
रामस्यातिप्रियं धाम नित्यलीलारसास्पदम् ।
जाम्बूनदमयी यत्र भूः समन्तात् प्रकाशते ॥ ८८॥
चिद्रूपिणी समा श्लक्ष्णा परानन्दविवर्धिनी ।
चन्द्रकान्तोपलैश्चित्रा ककचिच्च स्फटिकोपला ॥ ८९॥
मणिभिः पद्मरागैश्च कचिद् वज्रैर्महाप्रभेः ।
इन्द्रनीलोपलैर्बद्धा माणिक्येर्विविधेः क्वचित् ॥ ९०॥
रत्नैर्वंशच्छ दैर्भातैर्वैडूर्यैः खचिता कचित् ।
अविद्धाभिश्च मुक्ताभिः प्रवालैश्चक्वचित्कचित् ॥ ९१॥
महार्धैश्चित्रिता रत्नैर्नीलपीतासितारुणैः ।
स्यमन्तैर्भ्राजमानैश्च चिन्तारत्नचयैस्तथा ॥ ९२॥
चित्रिता वसुधा सर्वा द्योतयत्यधिकं प्रियम् ।
पूर्वादिषु चतुर्दिक्षु क्रमेण तद्वने मुने ॥ ९३॥
गिरयः सन्ति चत्वारस्तेषां नामानि मच्छुणु ।
श्रृगाराद्रिश्च रत्नाद्रिस्तथा लीलाद्रिरेव च ॥ ९४॥
मुक्ताद्रिश्च स्वया लक्ष्म्या द्योतयन्ति दिशो दश ।
आह्लादिन्याञ्च पूर्वस्यां यथा प्रोद्यन् प्रभाकरः ॥ ९५॥
नीलरत्नमयो भाति श्रृङ्गाराद्रिर्मनोहरः ।
दक्षिणस्यां दिशि श्रीमद्रत्नद्रिर्द्योतयन् वनम् ॥ ९६॥
पीतरत्नमयः कान्त्या भूदेव्या भ्राजते प्रियः ।
प्रतीच्यां दिशि लीलाद्रिर्लीलाललितकान्तिभिः ॥ ९७॥
राजते रक्तरत्नाढ्यो रामस्य रतिवर्धनः ।
श्रिया देव्या हि लीलार्थं मुक्ताद्रिर्मण्डितो महान् ॥ ९८॥
उदीच्यामुज्वलो रत्नैश्चन्द्रकान्तैरुदञ्चते ।
चित्रपुष्पोघसम्पन्नैर्लतापुञ्जवितानकैः ॥ ९९॥
स्वल्पीकृत सुधास्वादुफलभारातिसन्नतैप्पः ।
नवीनपल्लवो पेतैर्गुञ्जन्मत्तमधुव्रतैः ॥ १००॥
कूजच्चित्रद्विजैनीलकण्ठकेकिनिनादितेः ।
प्रमत्त कोकिलक्काणमुखरीकृतदिमुखैः ॥ १०१॥
विचित्रैर्विविधैः स्निघैर्वृक्षैर्नित्यमधुस्रवैः ।
उन्नतैः शिखरैर्भातैः स्यन्दमानैश्च निझरिः ॥ १०२॥
गुहामिश्च विराजन्ते चत्वारस्ते नगोत्तमाः ।
तत्प्रमोदवने सन्ति मधुराणि नवानि च ॥ १०३॥
द्वादश वनरत्नानि तन्नामानि श्रृणुष्व मत् ।
श्रीश्रृगारवनं भास्वद्विहारवनमद्भुतम् ॥ १०४॥
तमालं च रसालं च चम्पकं चन्दनं तथा ।
पारिजातवनं दिव्यमशोकवनमुत्तमम् ॥ १०५॥
विचित्राख्यं वनं कान्तं कदम्बवनमेव च ।
तथाऽनङ्गवनं रम्यं वनं श्रीनागकेशरम् ॥ १०६॥
द्वादशैतानि नामानि वनानां कथितानि ते ।
सर्वेषु सान्द्रनीलाभ्रनिभेषु विपिनेषु च ॥ १०७॥
निविडेषु नवा नित्या विचित्रा विविधा द्रुमाः ।
चिन्मयाः कमनीयाश्च किशोराः कामविग्रहाः ॥ १०८॥
सुस्निग्धाः कोमलाः सूक्ष्याश्च्योतन्त्यमृतविप्रुषः ।
नवीनैः पल्लवैः श्लक्ष्णैर्मृदुलैर्वायुचञ्चलैः ॥ १०९॥
विचित्रैर्लम्बितैर्नीलहरित्पीतारुणै र्धनैः ।
पुष्पाणां पञ्ञवर्णानां दिव्यायां च सुगन्धिनाम् ॥ ११०॥
नवानामप्रमेयाणां नित्यानामभितो भृशम् ।
प्रफुल्लानां सुधास्वादुफलानां च विशेषतः ॥ १११॥
महाभारेण शाखाभिर्लुण्ठन्ति धरणीतले ।
दिव्यस्वर्णमहारत्नजालैश्चित्रित वेदिकाः ॥ ११२॥
पञ्च प्रकारसत्पुष्पव्रतत्यो घवितानकाः ।
सुवर्णवल्कलास्तत्र मुक्तापुष्पावतंसकाः ॥ ११३॥
लताश्विन्तामणिफला रत्नपल्लवशोभिताः ।
नानापुष्परजः पृक्तशबलाः षट्पदा मुदा ॥ ११४॥
अनन्ता यत्र गुञ्जन्ति भ्रमन्तो गन्धगृन्घवः ।
मत्ताः पुष्परसं पीत्वा पतन्ति पृथिवीतले ॥ ११५॥
पुनरुत्थाय धावन्ति पुष्पौघेषु मुहुर्मुहुः ।
प्रविलीय पलायन्ते द्रुममन्यं हि यूथशः ॥ ११६॥
समन्ताद् भ्रमरीभिस्ते विक्रीडन्ते समं मुदा ।
अनन्ता निर्वृता मत्ताः क्वचित् कूजन्ति कोकिलाः ॥ ११७॥
सारिकाश्च शुकाश्चित्राः क्वचिद् गायन्ति सङ्घशः ।
कचित्पारावतत्राताः कपोताश्रक्क णन्ति हि ॥ ११८॥
रटन्ति रागिणोऽत्यन्तं चञ्चलाश्चातकाः क्वचित् ।
चन्द्रमण्डलसङ्काशाः प्रमदाभिर्मुदान्विताः ॥ १९९॥
हंसा मुक्ताश्च खादन्तो नदन्ति मधुरं क्वचित् ।
क्वचित् क्रौञ्चश्चकोराश्चा कलहंसाश्च सारसाः ॥ १२०॥
विचित्राः पक्षिणश्चान्ये स्वयोषिद्भिर्मनोहराः ।
रमन्ते नादयन्तश्च वनं नानारवैर्भृशम् ॥ १२१॥
तिरस्कृतामृतस्वादुफलानि विविधानि च ।
अदन्ति तेषु सर्वेषु विचित्रेषु वनेषु च ॥ १२२॥
प्रनृत्यन्ति मयूरीभिः सार्धंः मत्ताः शिखण्डिनः ।
नित्यश्रीकर्णिकाराश्च कुन्दवृन्दाश्चचमल्लिकाः ॥ १२३॥
लवङ्गलतिका जात्यो मालत्यो यूथिकास्तथा ।
माघव्यश्चैव केतक्यो वासन्त्यः परमाद्भुताः ॥ १२४॥
स्थूलपद्माश्च कज्जाश्च सेवन्त्यो विविधास्तथा ।
अन्याश्चित्र लताः स्वैः स्वै पुष्पौधैर्विविधैर्भृशम् ॥ १२५॥
प्रकुर्वन्ति वने सर्वं द्रव्यं गन्धाधिवासितम् ।
वाताश्च शीतला मन्दा सुगन्धास्तद्वने सदा ॥ १२६॥
प्रवान्ति परमानन्दवर्धनाः षद्पदानुगाः ।
नानापुष्परजोभिश्च रञ्जिता भूर्विराजते ॥ १२७॥
कचित्पीता क्कचिन्नीला हरिद्रक्ता सिता क्वचित् ।
पादपप्रच्युतैः पुष्पैराच्छन्ना पञ्चवर्णकैः ॥ १२८॥
कुथेवाभाति विस्तीर्णा चित्रवर्णा क्वचित् क्वचित् ।
दीर्घिका विविधास्तत्र मणिनिर्मलवारिणा ॥ १२९॥
पूर्णा माणिक्यसोपानाः स्फटिकोपलकुट्टिमाः ।
तीरस्थद्रुमसच्छन्नाः प्रफुल्लविविधीत्पलाः ॥ १३०॥
कूजत्पक्षिगणैश्चित्रैर्गुञ्जद्भृङ्गैर्निनादिताः ।
फूल्लपञकजकल्लोलजला गुञ्जन्मधुव्रताः ॥ १३९॥
पुष्करिण्यो द्विजोद्घुष्टद्रु मगुल्मलताचयाः ।
तटाकानि सरम्याणि विशालानि वने वने ॥ १३२॥
विचित्रमणिसोपानतीर्थानि विविधानि च ।
कुण्डानि कमनीयानि सन्ति स्फटिकवारिभिः ॥ १३३॥
सन्नादितवनान्तानि नदद्भिश्चित्रपक्षिभिः ।
प्रासादा मण्डपाः सान्द्रकाननेषु क्वचित् क्वचित् ॥ १३५॥
मध्ये मध्ये प्रदीप्यन्ते वेदिका विविधास्तथा ।
काञ्चनाश्चन्द्रकान्तैश्च मणिभिश्चित्रिता क्वचित् ॥ १३६॥
चिन्तारत्नैः क्वचिच्चेन्द्रनीलरत्नैर्विचित्रिताः ।
पद्मरागैः प्रवालैश्च क्वचिद् व्रजैः स्फुरत्प्रभैः ॥ १३६॥
वैडूर्यैर्भासमानैश्च स्यमन्तैः खचितः क्वचित् ।
क्वचिद्वंशच्छ दैर्भातैमणिक्यैश्च मनोहरैः ॥ १३८॥
हरिद्रत्नैश्च मुक्ताभिः प्रवालैश्चापि मण्डितः ।
अन्येर्विचित्ररत्नेश्च मृदुलास्तरणेस्तथा ॥ १३९॥
मुकादामवितानैश्च दर्पणेश्राप्पलङ्कृताः ।
मुक्तापुष्पलताजालकुज्जानि मञ्जुलान्यलम् ॥ १४०॥
भृङ्गपक्षिप्रघुष्टानि तद्वने सन्त्यनेकशः ।
वसन्तो हि कचित् तत्र नित्यमेव विराजते ॥ १४१॥
निदाघश्च क्कचित् प्रावृट् क्वचिन्नित्यं शरत् तथा ।
हेमन्तश्च क्वचिन्नित्यं शिशिरो वर्तते क्वचित् ॥ १४२॥
षडेते ऋतवः स्वस्वभूत्या वै संवसन्ति हि ।
देशी देवगिरिश्चैव वैराटी टोडिका तथा ॥ १४३॥
ललिता चैव हिण्डोली रागिण्यः षट् प्रकीर्तिताः ।
मूर्तिमतीभिरेताभिः स्वपत्नीभिर्मनोहरः ॥ १४४॥
वसन्तो मूर्तिमान् रागो वसन्ते वर्त्तते सदा ।
भैरवी गुर्जरी चैव रेवा गुणकरी तथा ॥ १४५॥
वङ्गाक्षी बहुली चैव रागिण्यः षट् सुविग्रहाः ।
एताभिः स्वसहाभिर्योयोषिद्भिभैरवोऽद्भुतः ॥ १४६॥
रागः संवर्तते नित्यं निदाघे मूर्तिमान् स्वयम् ।
मल्लारी सोरठी चैव सावेरी कौशिकी तथा ॥ १४७॥
गान्धारी हरि श्रृङ्गारा रागिण्यः षट्सुखप्रदाः ।
सुरूपाभिः स्वभार्याभिरेताभिमूर्तिमान् महान् ॥ १४८॥
प्रावृषि प्रीतिकृन्नित्यं मेघरागः प्रतिष्ठितः ।
विभासी चाथ भूपाली मालश्री पटमञ्जरी ॥ १४९॥
वडहंसी च कर्णाटी रागिण्योऽद्भुतविग्रहाः ।
स्वदारैः षङ्भिरेताभिः पुत्रपौत्रस्नुषादिभि ॥ १५०॥
रूपवान् पञ्चमो रागः सर्वदा शरदि स्थितः ।
कामोदी चापि कल्याणी ह्यभीरी नाटिका तथा ॥ १५१॥
सालङ्गीनटहम्मीरी रागिण्यः सुरतिप्रदाः ।
दिव्यरूपाभिरेताभिः स्वस्त्रीभिर्दिव्यरूपवान् ॥ १५२॥
हेमन्ते सर्वदा रागो दीपकाख्यश्च तिष्ठति ।
मालवी त्रिवणी गौरी केदारी मधुमाधवी ॥ १५३॥
पार्वतीया तथा चैव रागिण्यः श्रुतिसौख्यदाः ।
षड्मर्भिर्मूर्तिमतीभिः स्वनायिकाभिश्च मूर्तिमान् ॥ १५४॥
शिशिरे संस्थितो नित्यं श्रीरागः सकुटुम्बकः ।
रागाः षट्पुरुषाश्चेत्थं षट्त्रिंशच्च तथा स्त्रियः ॥ १५५॥
रागिण्यः परिवारैश्च निवसन्ति सदा वने ।
प्रमोदकाननं षष्ठमेतदावरणं महत् ॥ १५६॥
तव भक्त्या प्रसन्नेन मया प्रोक्तं द्विजोत्तम ।
ततश्च सरितामादिकारणं सरयू सरित् ॥ १५७॥
श्रीमती शाश्चती नित्यं सर्वलोकैकपावनी ।
सच्चिद्घनपरानन्दरूपिणी रामवल्लभा ॥ १५८॥
विरजाद्याः परा नद्यो यस्यांशाल्लोकविश्रुताः ।
यन्नामोच्चारणात् सद्यो मुक्ताः संसारबन्धनात् ॥ १५९॥
प्राप्नुयुर्दिव्यदेहं च ससीतं रघुनन्दनम् ।
तज्जलं निर्मलं कान्तं गम्भीरावर्त्तशोभितम् ॥ १६०॥
उत्तुङ्ग विलसद्वीचिधवलीकृतदिन्ङ्मुखम् ।
मन्दीकृतशरच्चन्द्रकरं चन्द्रमणिप्रभम् ॥ १६१॥
तिरस्कृतसुधारवादु कुन्दवृन्द हिमद्युति ।
प्रफुल्लैः पङ्कजैरक्तैः शुक्लैः पीतैः तथाऽसितैः ॥ १६२॥
अन्यैर्नानाविधैर्दिव्यैः सुगन्धीकृतमद्भुतम् ।
हंसैः क्रौञ्चैश्चकोरैश्च चक्रवाकैश्च सारसैः ॥ १६३॥
सदारैरतिकूजद्भिश्चित्रैश्चान्यैः पतत्रिभिः ।
भ्रमद्भिर्भ्रमरैर्मत्तैर्गुञ्जद्भिर्मधुरस्वरैः ॥ १६४॥
मत्ताभिर्भ्रमरीभिश्च समन्तोन्मुखरीकृतम् ।
मणिभिश्चन्द्रकान्तैश्च पद्मरागैश्च कौस्तुभेः ॥ १६५॥
क्वचिद् वंशच्छदैर्व ज्रैश्चेद्रनीलैः स्यमन्तकैः ।
चिन्तारत्नैश्च वैडूयैर्मुक्ताभिः स्फटिकैः क्वचित् ॥ १६६॥
माणिक्यैश्च क्वचिद्रत्नैर्नानावर्णैः सकाञ्चनैः ।
खचितानां सुतीर्थानां सहस्राणां तटद्वये ॥ १६७॥
प्रतिविम्बैर्जलं स्वच्छं नानावर्णं प्रकाशते ।
वज्रस्फटिकमुक्तानां सूक्ष्मचूर्णानि बालुकाः ॥ १६८॥
तथा चन्द्रमणीनां च द्योतयन्ति सरित्तटे ।
एवं श्री सरयू रम्या परमानन्ददायिनी ॥ १६९॥
सप्तमावरणं विद्धि साकेतस्य सरिद्वरा ।
सप्तावरणमध्ये तु राजते रामवल्लभा ॥ १७०॥
अयोध्या तत्परा बोध्या सान्द्रानन्दैकविग्रहा ।
इतीदं वर्णितं नित्यं सप्तावरणसंयुतम् ॥ १७१॥
श्री साकेतामिधानं श्रीरामधाम परात्परम् ।
रामधाम्नः स्वरूपं च महात्म्यं मुनिसत्तम ॥ १७२॥
पठेद्वा श्रृणुयान्नित्यं य एतद् भक्तिसंयुतः ।
स गच्छेत् परमं धाम साकेतं योगिदुर्लभम् ॥ १७३॥
ज्ञानं योगश्च ध्यानं च तपश्चात्मविनिग्रहः ।
नाना यज्ञाश्च दानानि सर्वतीर्थावगाहनम् ॥ १७४॥
एतस्य पाठमात्रेण श्रवणेन च यत् फलम् ।
भवेत् तस्य भरद्वाज सहस्रांशं न चाप्नुयुः ॥ १७५॥
श्रीभरद्वाज उवाच -
तत्त्वामृतं पीतमनन्यचेतसा सुधाधिकं त्वन्मुखनिर्गतं मया ।
धन्योऽस्म्यहं नाथ पदद्वयं प्रभो नमामि नित्यं च तवास्मि किङ्करः ॥ १७६॥
इति श्रीमद् वशिष्ठसंहितायां श्रीमद्वशिष्ठभरद्वाज संवादे
नित्यश्रीरामधाम स्वरूप वर्णनात्मकः षड्विंशतितमोऽध्यायः ॥ २६॥
Proofread by P. Sudarshana