श्रीसाकेतनिवासाचार्यविरचिता श्रीरामनाममालिका
(श्रीटीलाचार्य)
रघुनाथोऽवतारी च रामो दशरथात्मजः ।
सर्वज्ञः सत्यसङ्कल्पः कौशल्येयोऽखिलेश्वरः ॥ १॥
अहिल्योद्धारकर्त्ता च शम्भुचापविभञ्जकः ।
जानकीवल्लभश्चाथ जामदग्निपरिष्टुतः ॥ २॥
सर्वकृत् सर्वहृच्चाथ सर्वमूलं च सर्वपाः ।
सर्वात्मा सर्वदेहश्च सर्वशक्तिश्च सर्वदः ॥ ३॥
सेतुकृद् राधवो ब्रह्म राक्षसघ्नश्च मुक्तिदः ।
द्विव्यशरीकश्चाथ कल्याणगुणसागरः ॥ ४॥
रघुनाथदास श्रीसाकेतनिवासाचार्य विनिर्मिता ।
पठतां सुखदा भूयाद् रामनामसुमालिका ॥ ५॥
इति श्रीसाकेतनिवासाचार्यविरचिता श्रीरामनाममालिका समाप्ता ।
Encoded and proofread by Mrityunjay Pandey