श्रीरामपादोदकपञ्चकम्
रामपादोदकं दिव्यं प्रेमभक्तिप्रदायकम् ।
भक्तानां प्राणसर्वस्वं पीत्वा धन्योऽस्म्यहं सदा ॥ १॥
रामपादोदकं पीत्वा, नत्वा रामपदाम्बुजे ।
राममन्त्रं च सञ्जप्य रामभक्तो भवेन्नरः ॥ २॥
रामपादोदकं दिव्यं संसारमलनाशनम् ।
चिन्मयं सच्चिदानन्दं रमणीयं रसायनम् ॥ ३॥
रामपादोदकं प्राप्य यः पिबेद्धर्षसंयुतः ।
प्रेमनिर्भरपुलकाङ्गो रामप्रेमार्णवो भवेत् ॥ ४॥
रामपादोदकं नित्यं ससुरासुरमानवाः ।
पीत्वा महर्षयः सर्वे लभन्ते पदमव्ययम् ॥ ५॥
यः पठेत् प्रातरुत्थाय श्रीपादोदकपञ्चकम् ।
स लभेत परां भक्तिं ब्रह्मदासेन कीर्तितम् ॥
इति श्रीब्रह्मदासजीमहाराजप्रणीतं श्रीरामपादोदकपञ्चकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey