श्रीमद् अग्रदेवाचार्यकृता श्रीरामप्रपत्तिः
स्वामिन् ते शेषभूतोऽहं भोग्यस्ते रक्ष्य एव च ।
अकिञ्चनोऽनन्योपायस्त्वत्कैङ्कर्यैकभोग्यकः ॥ १॥
अगतिश्चानुकूलोऽहं प्रातिकूल्येन वर्जितः ।
रक्षिष्यतीति विश्वासी स्वरक्षाप्रार्थनायुतः ॥ २॥
कृपणोऽहं दयासिन्धो सर्वापापकरस्तथा ।
स्वञ्च स्वीयञ्च यत्किञ्चित् त्वयि न्यस्यामि स्वीकुरु ॥ ३॥
न्यस्याम्यकिञ्चनः श्रीमन्नात्मरक्षाभरं त्वयि ।
त्वत्प्राप्तौ मे उपायस्त्वं कृपया भव राघव ॥ ४॥
एतच्चराचरं सर्वं यच्च यावच्च श्रूयते ।
सर्वमस्ति त्वदीयं ही श्रुतिभिश्चावगम्यते ॥ ५॥
न तादृशं दृढं ज्ञानं मयि स्वामिन् प्रतिष्ठितम् ।
त्वं तु सर्वं विजानासि सर्वं वस्तु ममेति च ॥ ६॥
संसारसागरे भूमन् तत् त्वद्वस्तुनिमज्जितम् ।
पश्यसि त्वं समर्थः सन् कारणं किं वद प्रभो ॥ ७॥
चेतनाचेतनं सर्वं मदीयं सत्यमस्ति वै ।
जीवोऽप्यसौ मदीयश्चेत्यभिमानान्निमज्जते ॥ ८॥
यावत्स्वत्वाभिमानोऽस्य तावत्संसारसागरे ।
निमज्जितोभिमानान्ते द्युद्धरिष्यामि चेद्वद ॥ ९॥
सत्यमहं मदीयश्च सर्वमन्यत्तवास्ति वै ।
तथाप्येषोभिमानो मे हेतुस्तव नियोजनम् ॥ १०॥
अहं मदीयञ्चेत्येषो योऽभिमानो दुरत्ययः ।
त्वयि न्यस्यामि तं स्वामिन् त्वदीयं तं हि स्वीकुरु ॥ ११॥
निर्हेतुकृपया सर्वं स्वीकृत्य करुणानिधे ।
अहं ममाभिमानं मे निखिलं छिन्धि मूलतः ॥ १२॥
यदि नास्त्यानुकुल्यादिर्मयि स्वामिन् यथार्थतः ।
बद्धाञ्जलिपुटं दीनं रक्ष मां शरणागतम् ॥ १३॥
यथाहं च मदीयञ्च न मे रामस्य तत्त्वतः ।
भाति मे हृदये सम्यक् तथा कुरु दयानिधे ॥ १४॥
त्वन्मायया मलीमसं हृदयं निर्मलं कुरु ।
येनाऽहं संविजानामि त्वां त्वदीयश्च तत्त्वतः ॥ १५॥
त्वत्कृपादृष्टिमात्रेण तद्धि सर्वं भविष्यति ।
न वै परिश्रमः कश्चित् तव तत्र दयानिधे ॥ १६॥
प्रार्थयामि महादीनो दीनोद्धार कृपानिधे ।
एतद्देहावसाने मां स्वं प्रापय दयाकर ! ॥ १७॥
स्वदत्तज्ञानदीपेन नाशयाज्ञानजं तमः ।
स्वतत्त्वज्ञानपूर्वं मां स्वार्थं स्वमर्पय स्वयम् ॥ १८॥
यानि सञ्चितपापानि तानि नाशय मे प्रभो ।
अकृत्येषु प्रवृत्तिं मे वारय बुद्धिप्रेरक ॥ १९॥
यथा निर्मुच्य पापेभ्यस्त्वत्प्राप्तेर्योग्यता भवेत् ।
मयि स्वामिन् हरे राम तथा त्वं मां स्वयं कुरु ॥ २०॥
न मे पापविनिर्मोके नापि त्वत्प्राप्तिसाधने ।
शक्तिस्तत्र समर्थत्वं स्वप्राप्तेः साधनं भव ॥ २१॥
स्वाग्रे मां पतितं दृष्ट्वा श्रुत्वा च प्रार्थनामिमाम् ।
अङ्गीचकार श्रीरामस्तदप्यस्मीह निर्भरः ॥ २२॥
इति श्री अग्रदेवाचार्यकृता श्रीरामप्रपत्तिः समाप्ता ।
Encoded and proofread by Mrityunjay Pandey