श्रीदुन्दुरामाचार्यप्रणीतः श्रीरामस्तवः
गुरुं श्रीविरजानन्दं भाष्यकृत्पुण्यसद्मजम् ।
रामं नत्त्वा च कुर्वेऽहं रामस्तवं हि मुक्तिदम् ॥ १॥
कुरुते न मनःक्षोभं लाभालाभौ जयाजयौ ।
यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ २॥
साम्यमवाप्नुतो नित्यं सुखदुःखे भयाभये ।
यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ३॥
सुहृदो दुर्हृदश्चापि भवन्ति समतां गताः ।
यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ४॥
प्राणी त्यक्त्वा कुमार्गं हि सन्मार्गमवलम्बते ।
यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ५॥
निर्विद्य विषयेभ्यो हि सद्गुरुं प्रतिपद्यते ।
यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ६॥
अमृतमश्नुते प्राणी सम्प्राप्य भक्तिसाधनम् ।
यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ७॥
अतार्या तीर्यते माया सुखेन प्राणधारिभिः ।
यस्यानुकम्पया वन्दे तं रामं द्वन्द्ववर्जितम् ॥ ८॥
श्रीयुतदुन्दुरामार्यद्वारपीठाधिपेन हि ।
निर्मितोयं स्तवो भूयाद् रामप्रसादकारकः ॥ ९॥
इति दुन्दुरामाचार्यप्रणीतः श्रीरामस्तवः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey