श्रीपीपाचार्यप्रणीतं श्रीवैष्णवधर्ममङ्गलम्
सीतारामसमारम्भां श्रीबोधनायमध्यमाम् ।
अस्मादाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥
नत्त्वा रामं तथा रामानन्दाचार्य यतीश्वरम् ।
सर्वमङ्गलदं कुर्वे वैष्णवधर्ममङ्गलम् ॥ २॥
सदाचारयुता लोका रामभक्ताश्च यत्र हि ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ३॥
धार्मिकाः साधवो यत्र करुणासिन्धवः किल ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ४॥
गुरुभक्ता जना यत्र सत्याहिंसापरायणः ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ५॥
वेदान्तवेदिनो यत्राकारत्रययुता जनाः ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ६॥
अधिकारं च सम्प्राप्ता यत्र सर्वे हि देहिनः ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ७॥
उपवासपरा लोका एकादश्यां च यत्र हि ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ८॥
श्रद्धया चोपसेव्यन्ते यत्र लोका दयालवः ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ ९॥
संस्कारपञ्चकापन्ना यत्र विष्णुश्च वैष्णवाः ।
तस्मै वैष्णवधर्माय वैदिकाय सुमङ्गलम् ॥ १०॥
द्वारपीठेश्वर श्रीमत्पीपाचार्यविनिर्मितम् ।
पठतां मङ्गलं कुर्याद् वैष्णवधर्ममङ्गलम् ॥ ११॥
इति श्रीपीपाचार्यप्रणीतं श्रीवैष्णवधर्ममङ्गलं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey