श्रीवैष्णवाचार्यप्रणीतं सिद्धान्तपञ्चकम्
१. श्रीसम्प्रदायसिद्धान्तः विशिष्टाद्वैत
विशिष्टाद्वैतसिद्धान्तो रामानन्दार्यसम्मतः ।
ब्रह्मत्वेन मतस्तत्र श्रीरामःसद्गुणाम्बुधिः ॥ १॥
जगज्जन्मादिहेतुश्च सर्वाधारः सनातनः ।
सर्वकर्मसमाराध्यः सर्वकर्मफलप्रदः ॥ २॥
सर्वेशः सर्वशेषी च नित्यो विश्वकलेवरः ।
उपादानं निमित्तं च जगतो व्यापकस्तथा ॥ ३॥
सच्चिदानन्दरूपश्च विभूतिद्वयनायकः ।
पूर्णः श्रीसीतया सार्धं भगवान् विश्वमोहनः ॥ ४॥
दिव्यसिंहासनासीनो दिव्यभूषणभूषितः ।
दिव्याकारेण सम्पन्नः सर्वदोषविवर्जितः ॥ ५॥
सेवितो नित्यमुक्तैश्च सर्वज्ञः सर्वशक्तिकः ।
देशादिकापरिच्छिन्नोऽवतारी चेतनोऽजनि ॥ ६॥
विश्वं परिणतिस्तस्य विकारी नो तथापि सः ।
परिणामः प्रकारांशे नो विशेष्ये यतो मतः ॥ ७॥
इन्द्रियप्राणदेहेभ्यो ज्ञानाच्चापि विलक्षणः ।
जीवोऽणुश्चेतनो नित्यो भिन्नः प्रतिकलेवरम् ॥ ८॥
सुखज्ञानस्वरूपश्चाचिन्त्योऽव्यक्तस्तथाऽजडः ।
राघवस्य नियाम्यश्च धार्यः शेषस्तथा वपुः ॥ ९॥
ब्रह्मांशो ब्रह्मभिन्नोऽथ कर्त्ता भोक्ताऽविकारवान् ।
बद्धमुक्तविभेदेन जीवो द्विधा समीरितः ॥ १०॥
जगत् सत्यमनित्यं च देहो रामस्य नो मृषा ।
श्रीसीतारामकैर्यं मुक्तिः साकेतधामनि ॥ ११॥
तत्रेशभोगसाम्यं हि दुःखबीजं न विद्यते ।
अर्चिरादिकया गत्या सायुज्यं नैव चान्यथा ॥ १२॥
मुक्तौ भोग्यश्च रामो हि तारतम्यं न तत् तदा ।
भक्त्याऽथवा प्रपत्त्या हि मोक्षो लभ्येत नान्यथा ॥ १३॥
तैलधारा यथा लोके विच्छेदरहिता तथा ।
जानकीजानकीनाथस्मृतिर्भीक्तिः प्रकीर्तिता ॥ १४॥
प्रपत्तिश्चाखिलं त्यक्त्वा रामायात्मनिवेदनम् ।
रामानुकूलसङ्कल्पः प्रातिकूल्यविवर्जनम् ॥ १५॥
विश्वासो रक्षणस्याथ वरणं गोपनस्य हि ।
कार्पण्यं चात्मनिक्षेपः सा चेति षड् विधा स्मृता ॥ १६॥
इति सिद्धान्तपञ्चके प्रथमः विच्छेदः । १।
२. श्रीब्रह्मसम्प्रदायसिद्धान्तः द्वैतवाद-
मध्वाचार्यमतश्चाथ द्वैतवादोऽभिधीयते ।
तत्र सर्वोत्तमं तत्त्व भगवान् विष्णुरेव हि ॥ १॥
देशकालानवच्छिन्नः सृष्टिस्थित्यन्तकारकः ।
सविशेषः स्वतन्त्रोऽथ कल्याणगुणसागरः ॥ २॥
सच्चिदानन्दरूपश्च सर्वज्ञः सर्वशक्तिकः ।
जगतोऽस्य निमित्तत्वं मतं चेशस्य केवलम् ॥ ३॥
प्रकृतिस्तन्मते विश्वस्योपादानतया मता ।
ईश्वरानुचरो जीवः सच्चिदानन्दरूपवान् ॥ ४॥
अणुर्बद्धस्तथाऽनादिकालान्मायाविमोहितः ।
अज्ञत्वादिकधर्माणामाश्रयः परवाँस्तथा ॥ ५॥
अस्वतन्त्रमथो चेशनियाम्यं सत् तथा जगत् ।
वास्तविको मतो भेदः पञ्चधा स उदीरितः ॥ ६॥
जीवेशयोस्तथा जीवाज्जडस्य चेश्वरादपि ।
जीवानां च मिथो भेदो जडानां च परस्परम् ॥ ७॥
भेदावबोधतो विष्णुतद्गुणोत्कर्षशेमुषी ।
ततश्चाराध्य विष्णुं तत्प्रसादेनाथ मुच्यते ॥ ८॥
दिव्यलोकं समासाद्य स्वरूपं प्राप्यते तथा ।
तारतम्यं च जीवेषु मुक्तावप्युररीकृतम् ॥ ९॥
मोक्षस्य साधनं भक्तिः सा च निष्कामभावतः ।
वेदाभ्यासोऽविलासित्वं तथा चेन्द्रियसंयमः ॥ १०॥
आशाभयपरित्याग ईशायात्मसमर्पणम् ।
सत्या हितपरा वाणी हरेर्दास्ये स्पृहा सदा ॥ ११॥
दया दानं प्रपन्नस्य विपन्नस्य च रक्षणम् ।
हरो गुरौ तथा शास्त्रे श्रद्धा दम्भविवर्जिता ॥ १२॥
इति सिद्धान्तपञ्चके द्वितीयः परिच्छेदः । २।
३. श्रीरुद्रसम्प्रदायसिद्धान्तः शुद्धाद्वैतवाद
श्रीविष्णुस्वामिसिद्धान्तः शुद्धाद्वैततयोच्यते ।
तत्र ब्रह्म च सर्वज्ञः श्रीकृष्णो देवकीसुतः ॥ १॥
सच्चिदानन्दरूपश्च सर्वधर्ममहार्णवः ।
मायया रहितस्तद्वदनन्ताचिन्त्यशक्तिकः ॥ २॥
शुद्धश्च परमः सेव्यः सर्वेषां प्राणिनां तथा ।
अपरिच्छिन्नरूपः स दिव्यानन्तगुणाम्बुधिः ॥ ३॥
विरुद्धानां च धर्माणां वाक्यानामपि तादृशाम् ।
युगपच्च समावेशो गोलोकाधिपतौ खलु ॥ ४॥
चैतन्यगुणको जीवः शुद्धो ब्रह्मांश एव हि ।
अणुः कर्त्ता तथा भोक्ता भिन्नः प्रतिकलेवरम् ॥ ५॥
आविर्भावतिरोभावौ जगतः स्तो हरिच्छया ।
परिणतं परं ब्रह्म जगद्रूपेण लीलया ॥ ६॥
जगदविकृतश्चैशः परिणामो न मायिकम् ।
सतोऽस्य प्रकृतिर्ब्रह्म ब्रह्मशक्तिर्निमित्तकम् ॥ ७॥
कार्यकारणरूपाभ्यां सर्वदैव जगत् स्थितम् ।
गोलोके श्रीहरिप्राप्तिर्मोक्षः सुखमयः स्मृतः ॥ ८॥
सर्वं कृष्णमयं दृष्ट्वा प्रेम्णा श्रीहरिसेव्या ।
परमानन्दरसे मग्नः शुद्धो जीवस्तदा भवेत् ॥ ९॥
हरेरनुग्रहः पुष्टिर्या ततश्चोपजायते ।
पुष्टिभक्तिर्हि सा प्रोक्ता तया जीवो विमुच्यते ॥ १०॥
इति सिद्धान्तपञ्चके तृतीयः परिच्छेदः । ३।
४. श्रीसनकादिसम्प्रदायसिद्धान्तः द्वैताद्वैतवाद
द्वैताद्वैतमतं त्वत्र निम्बार्काचार्यसम्मतम् ।
ब्रह्मत्वेनमतस्तत्र श्रीकृष्णो राधिकापतिः ॥ १॥
अचिन्त्यानन्तशक्तिश्च कल्याणगुणवारिधिः ।
विभुर्दोषविरोधी च सच्चिदानन्दविग्रहः ॥ २॥
सर्वज्ञाता च विश्वस्य प्रकृतिश्च निमित्तकम् ।
ब्रह्मणः परिणामस्तु शक्तिविक्षेप एव हि ॥ ३॥
भिन्नः कृष्णादभिन्नश्च जीवो ब्रह्मांश एव हि ।
अणुश्चेतनरूपो ज्ञो देहादिभ्यो विलक्षणः ॥ ४॥
प्रतिदेहं विभिन्नः स नित्यादिभेदतस्त्रिधा ।
नित्यो ब्रह्मात्मकश्चात्मा ब्रह्मव्याप्यतया मतः ॥ ५॥
अमायिकं जगत् सत्यं भिन्नाभिन्नं च कृष्णतः ।
आदावुत्पद्यते कृष्णादन्ते तत्रैव लीयते ॥ ६॥
भगवद्भावसम्प्राप्तिर्मुक्तिः सायुज्यनामिका ।
अर्चिरादिकया गत्या गोलोके प्राप्यते हि सा ॥ ७॥
श्रीराधाकृष्ण पादारविन्दयोरनपायिनी ।
भक्तिर्हिसाधनं मुक्तेर्नान्यो मार्गोऽस्ति तां विना ॥ ८॥
इति सिद्धान्तपञ्चके चतुर्थः परिच्छेदः । ४।
५. श्रीमाध्वगौणेश्वरसम्प्रदायसिद्धान्तः अचिन्त्य भेदाभेद
वाद चैतन्याभिमतोऽचिन्त्यभेदाभेदः प्रकीर्त्तित ।
तत्रेश्वरःस्वतन्त्रः श्रीकृष्णः पूर्णोऽथ मुक्तिदः ॥ १॥
कल्याणगुणसिन्धुश्च सच्चिदानन्दविग्रहः ।
व्यापकत्वेऽपि भक्त्याऽऽप्यः सत्वादिगुणवर्जितः ॥ २॥
कर्त्ता चैकरसत्वेऽपि ज्ञानानन्दप्रदायकः ।
सर्वस्य जीववर्गस्य भोक्ता च विभुरव्ययः ॥ ३॥
उपादानं निमित्तं च सर्वस्य जगतस्तथा ।
परिणामो जगत् तस्य स्वीयशक्त्या ह्यचिन्त्यया ॥ ४॥
परिणामे विकारीशो न स्याच्चिन्तामणिर्यथा ।
ईशस्य शक्तयः संवित् सन्धिनी ह्रादिनी तथा ॥ ५॥
अस्मच्छब्दवाच्यत्वं नित्यं ज्ञत्वं यथेश्वरे ।
तथैव जीववर्गे तत् तत्त्वेन समतोभयोः ॥ ६॥
जीवो मतोऽणुचैतन्यो गुणः शक्तिस्तथा वपुः ।
विभुरीशो गुणी देही तथा चाचिन्त्यशक्तिमान् ॥ ७॥
जगत् सत्यं तथा नित्यं न च मिथ्या कदापि तत् ।
भगवत्पादसम्प्राप्तिर्मुक्तिर्गोलोकधामनि ॥ ८॥
भगवद्भामसम्प्राप्तो मुक्तो न च निवर्त्तते ।
नावर्त्तयति यत् कृष्णो मुक्तो नावर्त्तते स्वतः ॥ ९॥
मुख्यं च साधनं मुक्तेर्हरः प्रेमैव मन्यते ।
दुर्लभं तद् हरेः प्रेम कृष्णभक्त्यैव जायते ॥ १०॥
ह्लादिनीसारसम्मिश्रसंवित्सारात्मिका च सा ।
मुक्तौ हि ज्ञानवैराग्ये सहकारितया मते ॥ ११॥
कीर्तनीयो हरिनित्यं मानदेन ह्यमानिना ।
लघुना तृणतश्चापि तरुणेव सहिष्णुना ॥ १२॥
इति सिद्धान्तपञ्चके पञ्चमः परिच्छेदः । ५।
इति श्रीवैष्णवाचार्यप्रणीत सिद्धान्तपञ्चकं समाप्तम् ।
Encoded and proofread by Mrityunjay Pandey