सिद्धान्तविंशतिः
सीतारामौ जगद्धेतू दिव्यदेहौ गुणाकरौ ।
गुरुदेवं तथा नत्त्वा कुर्वे सिद्धान्तविंशतिम् ॥
चिदचिदीश्वरश्चेति तत्त्वत्रयं मतं बुधैः ।
राम एवेश्वरो ब्रह्म देही चिदचितोर्मतः ॥ १॥
चिताऽचिता विशिष्टं च तत्त्वं श्रीराम एव हि ।
तच्छरीरात् ततश्चाथ भिन्नं तत्त्वं न विद्यते ॥ २॥
हेयप्रतिभटो रामोऽनन्तदिव्यगुणाम्बुधिः ।
सगुणः सविशेषोऽसौ नाविशिष्टो न निर्गुणः ॥ ३॥
जीवो ज्ञानस्वरूपोऽपि धर्मज्ञानगुणाश्रयः ।
ज्ञातैव वस्तुतो जीवो मिथ्या तज्ज्ञातृता न तत् ॥ ४॥
देहमाने त्वनित्यत्वं विभुत्वे गत्यसम्भवः ।
अणुत्वमात्मनस्तस्माच्छास्त्रप्रमाणतोऽपि च ॥ ५॥
बद्धमुक्तव्यवस्थातः सुखी दुःखीति भेदतः ।
जीवा नाना क्वचिच्चैक्यमुक्तं प्रकारसाम्यतः ॥ ६॥
चिदचिद्देहिरूपेण रामस्य परिणामिता ।
तत एवाद्वितीयत्वं कूटस्थत्वं स्वरूपतः ॥ ७॥
परिणामो जगच्चैशश्चिदचिद्द्वारको मतः ।
विकारश्च स्वभावे हि जीवात्मनो बुधैर्मतः ॥ ८॥
प्रकृतेः स स्वरूपेऽपि ब्रह्मणस्तूभयोर्न सः ।
ब्रह्मभिन्नं प्रधानं हि सत्वादित्रिगुणाश्रयः ॥ ९॥
ब्रह्मणः परिणामो हि जगत् सत्यं मृषा न तत् ।
मन्यते न विवर्त्तोऽत्र श्रौतयौक्तिकबाधतः ॥ १०॥
प्रतीयते जगत् सत्यं सत्ख्यातिः सम्मता हि तत् ।
प्रामाणिकी न चाविद्या ह्यनिर्वाच्यं जगन्न तत् ॥ ११॥
प्रत्यक्षमनुमानं च शब्दरूपं तथैव च ।
प्रमाकरणरूपं हि प्रमाणं त्रिविधं मतम् ॥ १२॥
शुक्तिरौप्यस्थले सत्यं शुक्तिरौप्यं प्रतीयते ।
पञ्चीकरणतः शुक्तौ स्वल्परौप्यांशसत्त्वत्तः ॥ १३॥
स्वप्नदृष्टाः पदार्थाश्च सत्यभूता मृषा न हि ।
कर्त्ता स्वप्नरथादीनामीश्वरः कथितः श्रुतौ ॥ १४॥
तत्त्वमस्यादिशास्त्रं च सत्यमेव मृषा न हि ।
तात्त्विकं बोध्यते तेन प्रकार्यद्वैतमेव हि ॥ १५॥
वैराग्यं कर्मणो यस्मात् फलानित्यत्ववेदनात् ।
उपार्ज्य कर्मविज्ञानं ब्रह्मज्ञानं तदर्जयेत् ॥ १६॥
भवन्ति सुखदुःखानि जीवतश्चात्मनोऽत्र तत् ।
जीवन्मुक्तिर्न सिद्धान्ते वैदिके स्वीकृता बुधैः ॥ १७॥
प्रारब्धकर्मणो नाशे देहान्ते चार्चिरादिना ।
साकेते ब्रह्मसाम्यं हि गतो मुक्तो नरः स्मृतः ॥ १८॥
साम्यस्य भेदगर्भत्वान्मुक्तावप्युररीकृतः ।
भेदो जीवात्मनश्चाथ ब्रह्मणो बुद्धिशालिभिः ॥ १९॥
मुक्तौ च दुःखहेतुर्न सुखं तु सर्वतोऽधिकम् ।
भक्त्या चाथ प्रपत्त्यैव नित्या मुक्तिर्न चान्यथा ॥ २०॥
श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता ।
सिद्धान्तविंशतिर्भूयात् सत्यसिद्धान्तबोधिनी ॥
इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य
सिद्धशिरोमणि प्रणीता सिद्धान्तविंशतिः सम्पूर्णा ।
Proofread by Parashara Ranganathan