श्रीहठीनारायणाचार्यकृतं श्रीतीर्थराजमङ्गलं
रामं नारायणं चाथ रामानन्दं यतीश्वरम् ।
कुर्वे गुरुं च नत्त्वाऽहं श्रीतीर्थराजमङ्गलम् ॥ १॥
रामानन्दार्यरूपेणावतीर्णो यत्र राघवः ।
तस्मै हि तीर्थराजाय नित्यं भवतु मङ्गलम् ॥ २॥
राजसा यत्क्षितिः पूता सीतारामपदाब्जयोः ।
तस्मै हि तीर्थराजाय नित्यं भवतु मङ्गलम् ॥ ३॥
नित्यो भोगश्च मोक्षश्च यत्र वासेन लभ्यते ।
तस्मै हि तीर्थराजाय नित्यं भवतु मङ्गलम् ॥ ४॥
सिद्धैश्च मुनिभिर्योहि सेव्यते विबुधैस्तथा ।
तस्मै हि तीर्थराजाय नित्यं भवतु मङ्गलम् ॥ ५॥
रामस्य श्रूयते यस्मिन् कीर्त्तनं चरितं तथा ।
तस्मै हि तीर्थराजाय नित्यं भवतु मङ्गलम् ॥ ६॥
हठीनारायणाचार्यद्वारपीठेशनिर्मितम् ।
भवतान्मन्ङ्गलं चैतज्जगन्मङ्गलकारकम् ॥ ७॥
इति श्रीहठीनारायणाचार्यकृतं श्रीतीर्थराजमङ्गलं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey