श्रीलाहारामाचार्यप्रणीतम् श्रीवैष्णवधर्मपीयूषं

श्रीलाहारामाचार्यप्रणीतम् श्रीवैष्णवधर्मपीयूषं

जगतः कारणं रामं सर्वेशं मुक्तिदं तथा । आनन्दभाष्यकर्त्तारं रामानन्दं समाश्रये ॥ १॥ बोधाब्धिं च गुरुं नत्त्वा टीलार्यं ब्रह्मचारिणम् । वैष्णवधर्मपीयूषं कुर्वे मृत्युभयापहम् ॥ २॥ उत्थाय जानकीरामौ स्तुत्वा गुरुपरम्पराम् । शुद्धः स्नानादिना भूत्वा चोर्ध्वपुण्ड्रं विधाय हि ॥ ३॥ सन्ध्यामुपास्य रामं च सीतया सह पूजयेत् । स्तुत्वा नत्त्वा च, श्रीरामं नमेद् गुरुं च वैष्णवान् ॥ ४॥ रामपादोदकं पीत्वा नैवेद्यं भक्षयेद्धूरेः । पूर्वाचार्यप्रबन्धाश्च रामायणं च सम्पठेत् ॥ ५॥ लौकिकं च ततः कर्म कुर्याच्छ्रीवैष्णवः सदा । कर्त्तव्यो वैष्णवैर्नूनं श्रीवैष्णवव्रतोत्सवौ ॥ ६॥ हितं मितं च वक्तव्यं सत्यं च मधुरं वचः । हितं मितं च भोक्तव्यं शुद्धमन्नं च सात्विकम् ॥ ७॥ रामाश्रितो भवेन्मानमदाभ्यां वर्जितस्तथा । फलं समीक्ष्य कर्त्ता च बाह्याभ्यन्तः शुचि सदा ॥ ८॥ असक्तो विषयेष्वत्र दाता नियतजीवनः । शुद्धाचारविहारश्च संयतेन्द्रियसंहतिः ॥ ९॥ स्थिरः पुष्टश्च धर्मेण शरीरे स्वस्थतां गतः । वर्जितो भयरागाभ्यां विपन्नापन्निवारकः ॥ १०॥ क्षमावान् समतायुक्त उदारः साधुसेवकः । सर्वकल्याणकर्त्ता च सेवाभावसमन्वितः ॥ ११॥ दीर्घायुः सुखयुक्तश्च सदाचारी भवेन्नरः । दुर्बलो दुःखभागी च दुराचारी हि निन्दितः ॥ १२॥ शुभमेव मतं चात्र शुभस्य कर्मणः फलम् । अशुभकर्मणश्चाथाशुभमेव फलं मतम् ॥ १३॥ अलोभः सुखमूलं हि लोभः पापस्य कारणम् । ज्ञानाद् भक्तिस्ततो मुक्तिस्त्वभक्तिर्बन्धकारणम् ॥ १४॥ कामः क्रोधश्च लोभश्च हेयाः कल्याणभक्षकाः । दमो दया च दानं चोपेयाः कल्याणरक्षकाः ॥ १५॥ श्रेयान् हि कर्मकर्त्ताऽस्ति कर्महीनाच्च मानवात् । रामाय चार्पितं कर्म मुक्तिदं चोत्तमं मतम् ॥ १६॥ सद्विचामुत्पत्त्यै सत्सङ्गः क्रियतां सदा । श्रद्धयाऽथ च कार्यं सद्मन्यानां परिशीलनम् ॥ १७॥ विषयाद् विनिवत्र्त्याथ चेन्द्रियाणां गणः खलु । सन्नियोज्यश्च रामस्य कैङ्कर्ये श्रद्धया सदा ॥ १८॥ सङ्कीर्त्तनं च रामस्य नाम्नश्च यशसः शुभम् । कर्त्तव्यं मानवैर्नित्यं बन्धभिन्मोक्षदायकम् ॥ १९॥ अहेतुक्या अमोघाया अनन्तायास्तथैव च । कार्यो रामकृपायाश्च विश्वासः सुखदायकः ॥ २०॥ उपकारपरो भूयादपराधिजनेष्वपि । असन्तः सन्तु सन्तश्च श्रीरामं प्रार्थयेदिति ॥ २१॥ रक्षणीयश्च धर्मो हि चौर्यं कार्यं न कर्हिचित् । द्यूतक्रीडा न कर्त्तव्या मांसं भक्ष्यं न मानवैः ॥ २२॥ परहिंसा न कर्त्तव्या त्याज्या परधनस्पृहा । परदारा न गन्तव्याः परधर्मो भयावहः ॥ २३॥ कदाचिदपि नो कुर्याद् विरक्तो हि गृहस्थताम् । यतस्तस्याश्च शास्त्रेषु प्रायश्चित्तं न विद्यते ॥ २४॥ कार्यो विश्वासघातो न त्याज्यं च व्यसनं जनैः । भयदानाद् भयं कार्यं द्वेषः कार्यश्च द्वेषतः ॥ २५॥ न त्याज्यं किन्तु कर्त्तव्यं यज्ञो दानं तथा तपः । अर्पणीयं कृतं कर्म रामाय परमात्मने ॥ २६॥ त्याज्यमेव न कर्त्तव्यं नरैर्विषयचिन्तनम् । भक्तौ बाधां विधायात्र त्यजन्ति विषया जनम् ॥ २७॥ दैवीसम्पद्धि संरक्ष्या त्याज्या सम्पत्तिरासुरी । दैव्या हि सम्पदा सौख्यं दुःखं चासुरसम्पदा ॥ २८॥ भक्तयाऽथवा प्रपत्त्या वा रामो लभ्यो न चान्यथा । नाधिकं भगवत्प्राप्तेर्ब्रह्मेन्द्रादिपदं खलु ॥ २९॥ स्वामी रामश्च जीवात्मा मन्तव्यो रामसेवकः । जीवेशयोर्न चैकत्वं देहदेहित्वहेतुतः ॥ ३०॥ कर्त्तव्यं सततं कर्म स्मर्त्तव्यो रघुनायकः । शब्दादिविषयाश्चाथ विस्मर्त्तव्या हि दुखदाः ॥ ३१॥ वैष्णवाः पश्च संस्काराश्चार्जनीया हि मानवैः । विशिष्टाद्वैतसिद्धान्तो मन्तव्यो वेदसम्मतः ॥ ३२॥ चिदचिदीशत्त्वानां ज्ञानं जीवसुखावहम् । अर्जनीयं प्रयत्नेन गुरु शुश्रूषया जनैः ॥ ३३॥ चिदर्थश्चेतनो जीवोऽचिदर्थोऽचेतनं मतम् । उभावीशस्य देहौ स्तस्तयोर्देही परेश्वरः ॥ ३४॥ अणुर्ज्ञानाश्रयो जीवः सच्चिदानन्दरूपकः । प्राणतो बुद्धितश्चापि भिन्नो देहात् तथेन्द्रियात् ॥ ३५॥ अनित्यो मध्यमे माने विभौ गत्यागती न च । भोगाभावस्त्वनित्यत्वे स्तन्यपानं शिर्शोन च ॥ ३६॥ प्राणस्य जीवतां नास्ति ``मम प्राणः'' प्रतीतितः । ``मम ज्ञानम्'' प्रतीतेश्च ज्ञानेऽपि जीवता न हि ॥ ३७॥ मृते हि व्यभिचारान्नो शरीरस्य तु जीवता । इन्द्रियाणं न जीवत्वं तन्नाशे व्यभिचारतः ॥ ३८॥ आत्मेशस्य नियाम्यश्च धार्यः शेषस्तथाऽजडः । भिन्नाः परस्परं जीवा नित्या भिन्नास्तथेश्वरात् ॥ ३९॥ अन्यथा न च जायेरन् सुखिदुःखिप्रतीतयः । कत्र्त्तारश्चाथ भोक्तारः सुखज्ञानस्वरूपकाः ॥ ४०॥ ईश्वराधीनकर्माणः सर्वे जीवाः प्रकीर्त्तिताः । बद्धा मुक्ताश्च नित्याश्च जीवास्रिधामताबुधैः ॥ ४१॥ बद्धा संसारिणो ज्ञेया मुक्ताः संसारपारगाः । कदाचिदपि संसारमप्राप्ता नित्यमुक्तकाः ॥ ४२॥ मुक्तिः श्रीरामसम्प्राप्तिर्नित्या हि नित्यधामनि । भक्त्याऽथवा प्रपत्त्या सा सम्प्राप्यतेऽर्चिरादिना ॥ ४३॥ श्रीमद्रामस्मृतिर्भक्तिः प्रारब्धान्ते हि मुक्तिदा । स्वात्मार्पणं हि रामाय प्रपत्तिर्दैवनाशिनी ॥ ४४॥ कालश्च प्रकृतिश्चाथ नित्यधाम तथा मतिः । चतुर्धा सम्मतं प्राज्ञैर्शानशून्यमचेतनम् ॥ ४५॥ सत्वादिभिर्गुणैः शून्यस्तन्त्र कालः प्रकीर्त्तितः । ईश्वरस्य शरीरं च क्रीडापरिकरः स च ॥ ४६॥ कालमपेक्ष्य सर्वेशः प्रकृतिं विकरोति हि । सर्वहेतुर्द्विधा कालः खण्डाखण्डविभेदतः ॥ ४७॥ कलाकाष्ठादिरूपश्च तत्राद्यः परिकीर्त्तितः । अखण्डस्तु मतः कालो नित्यस्तथा विभुर्बुधैः ॥ ४८॥ प्रधानं चेशलीलायां साधनं प्रकृतिर्मता । मायाऽविद्याप्रधानेति तस्या नामान्तराणि हि ॥ ४९॥ सत्वं रजस्तमश्चेतित्रयो गुणाः श्रिताश्च यत् । प्रकृत्याख्यां हि तत् तत्त्वं विद्वद्भिः परिकीर्त्तितम् ॥ ५०॥ ईश्वराधिष्ठितं तद्धि जगतः कारणं मतम् । देशकालविभेदेन समासमविकारकम् ॥ ५१॥ गुणानां प्रलये साम्ये विकाराः प्रकृतेः समाः । सृष्टिकाले च वैषम्ये विकाराश्चासमा मताः ॥ ५२॥ प्रकृतेश्व विकारो यः प्रथमः स त्रिधा महान् । तद्विकारस्त्वहङ्कारः सत्वादिभेदतस्रिधा ॥ ५३॥ सात्विकाहङ्कृतेस्तत्र जातानि चेन्द्रियाणि हि । ज्ञानकर्मेन्द्रियत्वाभ्यां द्विधा तानि मतानि च ॥ ५४॥ मनः श्रोत्रं च चक्षुस्त्वं रसनं घ्राणमादिमम् । वाक्पादपायुपस्थेति कर्मेन्द्रियं बुधैर्मतम् ॥ ५५॥ जातं हि शब्दतन्मात्रं तामसाहङ्कृतेरिह । शब्दतन्मात्रतो जातं भूतमाकाशसंज्ञकम् ॥ ५६॥ ततश्च स्पर्शतन्मात्रं ततो वायुरजायत । ततश्च रूपतन्मात्रं तेजोभूतमभूत् ततः ॥ ५७॥ तेजसो रसतन्मात्रं जाताश्चापस्ततश्च हि । अद्भ्यश्च गन्धतन्मात्रं ततो भूमिरजायत ॥ ५८॥ मेलयित्वा च भूतानि ससर्जाण्डं हि राघवः । उत्पादितो विधिस्तत्र व्यष्टिसृष्टिं करोति हि ॥ ५९॥ असङ्ख्यानि हि चाण्डानि सङ्कल्पात् सृजति प्रभुः । तदन्तर्गत वस्तूनि सृज्यन्तेऽन्तःस्थशार्ङ्गिणा ॥ ६०॥ शब्दः स्पर्शस्तथारूपं रसो गन्धस्तथा गुणाः । क्रमान्नभोऽनिलादीनामसाधारणता गताः ॥ ६१॥ सम्भवति न चाविद्या कर्मरूपा तु यत्र हि । नित्यधामेति विद्वद्भिस्तस्य नाम प्रकीर्त्तितम् ॥ ६२॥ शुद्धसत्वं तथा नित्यविभूतिर्मुक्तिधाम च । नामान्तराणि तस्यैव तत् परागजडं मतम् ॥ ६३॥ रजस्तमो विहीनं हि शुद्धं सत्वं तदाश्रितम् । नित्यमुक्तेश्वराणां तद् भोगास्थानादि सम्मतम् ॥ ६४॥ मर्यादारहितं प्रोक्तमूर्ध्वदेशेऽविनश्वरम् । रामाधीनं च तद् द्रव्यं न कालस्तत्र वै प्रभुः ॥ ६५॥ भक्त्या चाथ प्रपत्त्या तत् प्राप्यते त्वर्चिरादिना । यद् गत्वा न निवर्त्तन्ते रामधाम मतं हि तत् ॥ ६६॥ दीपप्रभेव यद् द्रव्यं विम्वचिच्चाजडं तथा । ज्ञानं तद् ब्रह्मजीवानां धर्मभूतं मतं बुधैः ॥ ६७॥ सङ्कोचश्च विकासश्च तद्विकारौ प्रकीर्त्तितो । ``न विज्ञातुरि'' ति श्रौते वाक्ये तन्नित्यता श्रुता ॥ ६८॥ विभु ज्ञानं च बद्धानां त्वाच्छाद्यते हि कर्मणा । ब्रह्मणो नित्यमुक्तानां ज्ञानं च सर्वदा विभु ॥ ६९॥ ज्ञानं स्वतः प्रमाणं हि स्वीकृतं वेदवेदिभिः । सर्वं ज्ञानं यथार्थं हि विषये सत्यत्ता यतः ॥ ७०॥ भक्तिश्चाथ प्रपत्तिश्च ज्ञानावस्थे च मुक्तिदे । अविच्छिन्ना स्मृतिर्भक्तिर्विवेकादिकसप्तजा ॥ ७१॥ प्रपत्तिर्हि मता श्रीमद् रामायात्मसमर्पणम् । पञ्चानुकूलतादीनि तदङ्गानि मतानि हि ॥ ७२॥ सर्वेश्वरश्च श्रीरामः हेयप्रतिभटो मतः । स्वाभाविकसुखादीनां सद्गुणानां महोदधिः ॥ ७३॥ सद्ब्रह्मादिपदानां च वाच्यो ध्येयश्च योगिनाम् । जगत्सृष्टयादिकर्त्ता च जगन्मूलं विभुस्तथा ॥ ७४॥ सूर्येन्द्राग्निमरुद्देवा मृत्युश्च यद्भयादिह । स्वाधिकारे प्रवर्त्तन्ते स रामो ब्रह्मसंज्ञकः ॥ ७५॥ दिव्यदेहगुणश्चाथ दिव्यशस्त्रास्त्रभूषणः । मुक्तिदः सकलाराध्यो विभूतिद्वयनायकः ॥ ७६॥ प्राकृतैश्च गुणाकारैः शून्यः सर्वविमोहकः । वेदकृद् वेदवेद्यश्च वेदत्राता च वेददः ॥ ७७॥ सर्वज्ञः सर्वशक्तिश्च सर्वेषां हि सुहृत् तथा । भजनीयश्च सीतेशः सर्वाधारः सुखप्रद ॥ ७८॥ श्रितापराधवृन्दं च वीक्षते नात्मवत्तया । एकेन सुकृतेनापि सन्तोषं लभते परम् ॥ ७९॥ ततोऽधिकनिषेधाद्धि न मायोपाधिकश्च सः । हेतुत्वाज्जगतश्चास्य तस्य नो निर्विशेषता ॥ ८०॥ परश्च विभवो व्यूहोऽन्तःस्थश्चार्चावतारकः । इति पञ्चविधः सोऽथावतारी रक्षितुं जनम् ॥ ८१॥ वासुदेवादयो व्यूहाः साकेते राघवः परः । विभवा मत्स्यादयोऽन्तःस्थोऽन्तर्यामी सम्मतो बुधैः ॥ ८२॥ स्वर्णादिप्रतिमारूपो रामश्चार्चावतारकः । शुद्धसत्वशरीरः स मुक्तिदः सुलभः परः ॥ ८३॥ द्वारपीठेश्वर श्रीलाहारामाचार्यनिर्मितम् । वैष्णवधर्मपीयूष भूयान्मृत्युभयापहम् ॥ ८४॥ इति श्रीलाहारामाचार्यप्रणीतं श्रीवैष्णवधर्मपीयूषं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Laharamacharyapranitam Shrivaishnavadharmapiyusham
% File name             : vaiShNavadharmapIyUShaMlAhArAmAchArya.itx
% itxtitle              : vaiShNavadharmapIyUSham (lAhArAmAchAryapraNItam)
% engtitle              : vaiShNavadharmapIyUShaM
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : lAhArAmAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org