श्रीलाहारामाचार्यप्रणीतम् श्रीवैष्णवधर्मपीयूषं
जगतः कारणं रामं सर्वेशं मुक्तिदं तथा ।
आनन्दभाष्यकर्त्तारं रामानन्दं समाश्रये ॥ १॥
बोधाब्धिं च गुरुं नत्त्वा टीलार्यं ब्रह्मचारिणम् ।
वैष्णवधर्मपीयूषं कुर्वे मृत्युभयापहम् ॥ २॥
उत्थाय जानकीरामौ स्तुत्वा गुरुपरम्पराम् ।
शुद्धः स्नानादिना भूत्वा चोर्ध्वपुण्ड्रं विधाय हि ॥ ३॥
सन्ध्यामुपास्य रामं च सीतया सह पूजयेत् ।
स्तुत्वा नत्त्वा च, श्रीरामं नमेद् गुरुं च वैष्णवान् ॥ ४॥
रामपादोदकं पीत्वा नैवेद्यं भक्षयेद्धूरेः ।
पूर्वाचार्यप्रबन्धाश्च रामायणं च सम्पठेत् ॥ ५॥
लौकिकं च ततः कर्म कुर्याच्छ्रीवैष्णवः सदा ।
कर्त्तव्यो वैष्णवैर्नूनं श्रीवैष्णवव्रतोत्सवौ ॥ ६॥
हितं मितं च वक्तव्यं सत्यं च मधुरं वचः ।
हितं मितं च भोक्तव्यं शुद्धमन्नं च सात्विकम् ॥ ७॥
रामाश्रितो भवेन्मानमदाभ्यां वर्जितस्तथा ।
फलं समीक्ष्य कर्त्ता च बाह्याभ्यन्तः शुचि सदा ॥ ८॥
असक्तो विषयेष्वत्र दाता नियतजीवनः ।
शुद्धाचारविहारश्च संयतेन्द्रियसंहतिः ॥ ९॥
स्थिरः पुष्टश्च धर्मेण शरीरे स्वस्थतां गतः ।
वर्जितो भयरागाभ्यां विपन्नापन्निवारकः ॥ १०॥
क्षमावान् समतायुक्त उदारः साधुसेवकः ।
सर्वकल्याणकर्त्ता च सेवाभावसमन्वितः ॥ ११॥
दीर्घायुः सुखयुक्तश्च सदाचारी भवेन्नरः ।
दुर्बलो दुःखभागी च दुराचारी हि निन्दितः ॥ १२॥
शुभमेव मतं चात्र शुभस्य कर्मणः फलम् ।
अशुभकर्मणश्चाथाशुभमेव फलं मतम् ॥ १३॥
अलोभः सुखमूलं हि लोभः पापस्य कारणम् ।
ज्ञानाद् भक्तिस्ततो मुक्तिस्त्वभक्तिर्बन्धकारणम् ॥ १४॥
कामः क्रोधश्च लोभश्च हेयाः कल्याणभक्षकाः ।
दमो दया च दानं चोपेयाः कल्याणरक्षकाः ॥ १५॥
श्रेयान् हि कर्मकर्त्ताऽस्ति कर्महीनाच्च मानवात् ।
रामाय चार्पितं कर्म मुक्तिदं चोत्तमं मतम् ॥ १६॥
सद्विचामुत्पत्त्यै सत्सङ्गः क्रियतां सदा ।
श्रद्धयाऽथ च कार्यं सद्मन्यानां परिशीलनम् ॥ १७॥
विषयाद् विनिवत्र्त्याथ चेन्द्रियाणां गणः खलु ।
सन्नियोज्यश्च रामस्य कैङ्कर्ये श्रद्धया सदा ॥ १८॥
सङ्कीर्त्तनं च रामस्य नाम्नश्च यशसः शुभम् ।
कर्त्तव्यं मानवैर्नित्यं बन्धभिन्मोक्षदायकम् ॥ १९॥
अहेतुक्या अमोघाया अनन्तायास्तथैव च ।
कार्यो रामकृपायाश्च विश्वासः सुखदायकः ॥ २०॥
उपकारपरो भूयादपराधिजनेष्वपि ।
असन्तः सन्तु सन्तश्च श्रीरामं प्रार्थयेदिति ॥ २१॥
रक्षणीयश्च धर्मो हि चौर्यं कार्यं न कर्हिचित् ।
द्यूतक्रीडा न कर्त्तव्या मांसं भक्ष्यं न मानवैः ॥ २२॥
परहिंसा न कर्त्तव्या त्याज्या परधनस्पृहा ।
परदारा न गन्तव्याः परधर्मो भयावहः ॥ २३॥
कदाचिदपि नो कुर्याद् विरक्तो हि गृहस्थताम् ।
यतस्तस्याश्च शास्त्रेषु प्रायश्चित्तं न विद्यते ॥ २४॥
कार्यो विश्वासघातो न त्याज्यं च व्यसनं जनैः ।
भयदानाद् भयं कार्यं द्वेषः कार्यश्च द्वेषतः ॥ २५॥
न त्याज्यं किन्तु कर्त्तव्यं यज्ञो दानं तथा तपः ।
अर्पणीयं कृतं कर्म रामाय परमात्मने ॥ २६॥
त्याज्यमेव न कर्त्तव्यं नरैर्विषयचिन्तनम् ।
भक्तौ बाधां विधायात्र त्यजन्ति विषया जनम् ॥ २७॥
दैवीसम्पद्धि संरक्ष्या त्याज्या सम्पत्तिरासुरी ।
दैव्या हि सम्पदा सौख्यं दुःखं चासुरसम्पदा ॥ २८॥
भक्तयाऽथवा प्रपत्त्या वा रामो लभ्यो न चान्यथा ।
नाधिकं भगवत्प्राप्तेर्ब्रह्मेन्द्रादिपदं खलु ॥ २९॥
स्वामी रामश्च जीवात्मा मन्तव्यो रामसेवकः ।
जीवेशयोर्न चैकत्वं देहदेहित्वहेतुतः ॥ ३०॥
कर्त्तव्यं सततं कर्म स्मर्त्तव्यो रघुनायकः ।
शब्दादिविषयाश्चाथ विस्मर्त्तव्या हि दुखदाः ॥ ३१॥
वैष्णवाः पश्च संस्काराश्चार्जनीया हि मानवैः ।
विशिष्टाद्वैतसिद्धान्तो मन्तव्यो वेदसम्मतः ॥ ३२॥
चिदचिदीशत्त्वानां ज्ञानं जीवसुखावहम् ।
अर्जनीयं प्रयत्नेन गुरु शुश्रूषया जनैः ॥ ३३॥
चिदर्थश्चेतनो जीवोऽचिदर्थोऽचेतनं मतम् ।
उभावीशस्य देहौ स्तस्तयोर्देही परेश्वरः ॥ ३४॥
अणुर्ज्ञानाश्रयो जीवः सच्चिदानन्दरूपकः ।
प्राणतो बुद्धितश्चापि भिन्नो देहात् तथेन्द्रियात् ॥ ३५॥
अनित्यो मध्यमे माने विभौ गत्यागती न च ।
भोगाभावस्त्वनित्यत्वे स्तन्यपानं शिर्शोन च ॥ ३६॥
प्राणस्य जीवतां नास्ति ``मम प्राणः'' प्रतीतितः ।
``मम ज्ञानम्'' प्रतीतेश्च ज्ञानेऽपि जीवता न हि ॥ ३७॥
मृते हि व्यभिचारान्नो शरीरस्य तु जीवता ।
इन्द्रियाणं न जीवत्वं तन्नाशे व्यभिचारतः ॥ ३८॥
आत्मेशस्य नियाम्यश्च धार्यः शेषस्तथाऽजडः ।
भिन्नाः परस्परं जीवा नित्या भिन्नास्तथेश्वरात् ॥ ३९॥
अन्यथा न च जायेरन् सुखिदुःखिप्रतीतयः ।
कत्र्त्तारश्चाथ भोक्तारः सुखज्ञानस्वरूपकाः ॥ ४०॥
ईश्वराधीनकर्माणः सर्वे जीवाः प्रकीर्त्तिताः ।
बद्धा मुक्ताश्च नित्याश्च जीवास्रिधामताबुधैः ॥ ४१॥
बद्धा संसारिणो ज्ञेया मुक्ताः संसारपारगाः ।
कदाचिदपि संसारमप्राप्ता नित्यमुक्तकाः ॥ ४२॥
मुक्तिः श्रीरामसम्प्राप्तिर्नित्या हि नित्यधामनि ।
भक्त्याऽथवा प्रपत्त्या सा सम्प्राप्यतेऽर्चिरादिना ॥ ४३॥
श्रीमद्रामस्मृतिर्भक्तिः प्रारब्धान्ते हि मुक्तिदा ।
स्वात्मार्पणं हि रामाय प्रपत्तिर्दैवनाशिनी ॥ ४४॥
कालश्च प्रकृतिश्चाथ नित्यधाम तथा मतिः ।
चतुर्धा सम्मतं प्राज्ञैर्शानशून्यमचेतनम् ॥ ४५॥
सत्वादिभिर्गुणैः शून्यस्तन्त्र कालः प्रकीर्त्तितः ।
ईश्वरस्य शरीरं च क्रीडापरिकरः स च ॥ ४६॥
कालमपेक्ष्य सर्वेशः प्रकृतिं विकरोति हि ।
सर्वहेतुर्द्विधा कालः खण्डाखण्डविभेदतः ॥ ४७॥
कलाकाष्ठादिरूपश्च तत्राद्यः परिकीर्त्तितः ।
अखण्डस्तु मतः कालो नित्यस्तथा विभुर्बुधैः ॥ ४८॥
प्रधानं चेशलीलायां साधनं प्रकृतिर्मता ।
मायाऽविद्याप्रधानेति तस्या नामान्तराणि हि ॥ ४९॥
सत्वं रजस्तमश्चेतित्रयो गुणाः श्रिताश्च यत् ।
प्रकृत्याख्यां हि तत् तत्त्वं विद्वद्भिः परिकीर्त्तितम् ॥ ५०॥
ईश्वराधिष्ठितं तद्धि जगतः कारणं मतम् ।
देशकालविभेदेन समासमविकारकम् ॥ ५१॥
गुणानां प्रलये साम्ये विकाराः प्रकृतेः समाः ।
सृष्टिकाले च वैषम्ये विकाराश्चासमा मताः ॥ ५२॥
प्रकृतेश्व विकारो यः प्रथमः स त्रिधा महान् ।
तद्विकारस्त्वहङ्कारः सत्वादिभेदतस्रिधा ॥ ५३॥
सात्विकाहङ्कृतेस्तत्र जातानि चेन्द्रियाणि हि ।
ज्ञानकर्मेन्द्रियत्वाभ्यां द्विधा तानि मतानि च ॥ ५४॥
मनः श्रोत्रं च चक्षुस्त्वं रसनं घ्राणमादिमम् ।
वाक्पादपायुपस्थेति कर्मेन्द्रियं बुधैर्मतम् ॥ ५५॥
जातं हि शब्दतन्मात्रं तामसाहङ्कृतेरिह ।
शब्दतन्मात्रतो जातं भूतमाकाशसंज्ञकम् ॥ ५६॥
ततश्च स्पर्शतन्मात्रं ततो वायुरजायत ।
ततश्च रूपतन्मात्रं तेजोभूतमभूत् ततः ॥ ५७॥
तेजसो रसतन्मात्रं जाताश्चापस्ततश्च हि ।
अद्भ्यश्च गन्धतन्मात्रं ततो भूमिरजायत ॥ ५८॥
मेलयित्वा च भूतानि ससर्जाण्डं हि राघवः ।
उत्पादितो विधिस्तत्र व्यष्टिसृष्टिं करोति हि ॥ ५९॥
असङ्ख्यानि हि चाण्डानि सङ्कल्पात् सृजति प्रभुः ।
तदन्तर्गत वस्तूनि सृज्यन्तेऽन्तःस्थशार्ङ्गिणा ॥ ६०॥
शब्दः स्पर्शस्तथारूपं रसो गन्धस्तथा गुणाः ।
क्रमान्नभोऽनिलादीनामसाधारणता गताः ॥ ६१॥
सम्भवति न चाविद्या कर्मरूपा तु यत्र हि ।
नित्यधामेति विद्वद्भिस्तस्य नाम प्रकीर्त्तितम् ॥ ६२॥
शुद्धसत्वं तथा नित्यविभूतिर्मुक्तिधाम च ।
नामान्तराणि तस्यैव तत् परागजडं मतम् ॥ ६३॥
रजस्तमो विहीनं हि शुद्धं सत्वं तदाश्रितम् ।
नित्यमुक्तेश्वराणां तद् भोगास्थानादि सम्मतम् ॥ ६४॥
मर्यादारहितं प्रोक्तमूर्ध्वदेशेऽविनश्वरम् ।
रामाधीनं च तद् द्रव्यं न कालस्तत्र वै प्रभुः ॥ ६५॥
भक्त्या चाथ प्रपत्त्या तत् प्राप्यते त्वर्चिरादिना ।
यद् गत्वा न निवर्त्तन्ते रामधाम मतं हि तत् ॥ ६६॥
दीपप्रभेव यद् द्रव्यं विम्वचिच्चाजडं तथा ।
ज्ञानं तद् ब्रह्मजीवानां धर्मभूतं मतं बुधैः ॥ ६७॥
सङ्कोचश्च विकासश्च तद्विकारौ प्रकीर्त्तितो ।
``न विज्ञातुरि'' ति श्रौते वाक्ये तन्नित्यता श्रुता ॥ ६८॥
विभु ज्ञानं च बद्धानां त्वाच्छाद्यते हि कर्मणा ।
ब्रह्मणो नित्यमुक्तानां ज्ञानं च सर्वदा विभु ॥ ६९॥
ज्ञानं स्वतः प्रमाणं हि स्वीकृतं वेदवेदिभिः ।
सर्वं ज्ञानं यथार्थं हि विषये सत्यत्ता यतः ॥ ७०॥
भक्तिश्चाथ प्रपत्तिश्च ज्ञानावस्थे च मुक्तिदे ।
अविच्छिन्ना स्मृतिर्भक्तिर्विवेकादिकसप्तजा ॥ ७१॥
प्रपत्तिर्हि मता श्रीमद् रामायात्मसमर्पणम् ।
पञ्चानुकूलतादीनि तदङ्गानि मतानि हि ॥ ७२॥
सर्वेश्वरश्च श्रीरामः हेयप्रतिभटो मतः ।
स्वाभाविकसुखादीनां सद्गुणानां महोदधिः ॥ ७३॥
सद्ब्रह्मादिपदानां च वाच्यो ध्येयश्च योगिनाम् ।
जगत्सृष्टयादिकर्त्ता च जगन्मूलं विभुस्तथा ॥ ७४॥
सूर्येन्द्राग्निमरुद्देवा मृत्युश्च यद्भयादिह ।
स्वाधिकारे प्रवर्त्तन्ते स रामो ब्रह्मसंज्ञकः ॥ ७५॥
दिव्यदेहगुणश्चाथ दिव्यशस्त्रास्त्रभूषणः ।
मुक्तिदः सकलाराध्यो विभूतिद्वयनायकः ॥ ७६॥
प्राकृतैश्च गुणाकारैः शून्यः सर्वविमोहकः ।
वेदकृद् वेदवेद्यश्च वेदत्राता च वेददः ॥ ७७॥
सर्वज्ञः सर्वशक्तिश्च सर्वेषां हि सुहृत् तथा ।
भजनीयश्च सीतेशः सर्वाधारः सुखप्रद ॥ ७८॥
श्रितापराधवृन्दं च वीक्षते नात्मवत्तया ।
एकेन सुकृतेनापि सन्तोषं लभते परम् ॥ ७९॥
ततोऽधिकनिषेधाद्धि न मायोपाधिकश्च सः ।
हेतुत्वाज्जगतश्चास्य तस्य नो निर्विशेषता ॥ ८०॥
परश्च विभवो व्यूहोऽन्तःस्थश्चार्चावतारकः ।
इति पञ्चविधः सोऽथावतारी रक्षितुं जनम् ॥ ८१॥
वासुदेवादयो व्यूहाः साकेते राघवः परः ।
विभवा मत्स्यादयोऽन्तःस्थोऽन्तर्यामी सम्मतो बुधैः ॥ ८२॥
स्वर्णादिप्रतिमारूपो रामश्चार्चावतारकः ।
शुद्धसत्वशरीरः स मुक्तिदः सुलभः परः ॥ ८३॥
द्वारपीठेश्वर श्रीलाहारामाचार्यनिर्मितम् ।
वैष्णवधर्मपीयूष भूयान्मृत्युभयापहम् ॥ ८४॥
इति श्रीलाहारामाचार्यप्रणीतं श्रीवैष्णवधर्मपीयूषं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey