श्रीपूर्णविराठीदेवाचार्यनिर्मितं श्रीवैष्णवमङ्गलं
आनन्दभाष्यकर्त्तारं रामानन्दं च राघवम् ।
कुर्वे गुरुं च नत्त्वाहं श्रीमद्वैष्णवमङ्गलम् ॥ १॥
संस्कारपञ्चकापन्ना ये चेशानीशबोधकाः ।
तेभ्यः श्रीरामभक्तेभ्यो वैष्णवेभ्योऽस्तु मङ्गलम् ॥ २॥
सात्विका द्रोहशून्या ये प्रशान्तचेतसस्तथा ।
तेभ्यः श्रीरामभक्तेभ्यो वैष्णवेभ्योऽस्तु मङ्गलम् ॥ ३॥
परोपकारकर्त्तारः सौम्याश्च ये जितेन्द्रियाः ।
तेभ्यः श्रीरामभक्तेभ्यो वैष्णवेभ्योऽस्तु मङ्गलम् ॥ ४॥
ये साधुगुरुभक्ताश्च सदाचारपरायणाः ।
तेभ्यः श्रीरामभक्तेभ्यो वैष्णवेभ्योऽस्तु मङ्गलम् ॥ ५॥
श्रीरामपूजका ये च यज्ञदानतपःपरा ।
तेभ्यः श्रीरामभक्तेभ्यो वैष्णवेभ्योऽस्तु मङ्गलम् ॥ ६॥
पतितपावना ये च रामकीर्त्तनतत्पराः ।
तेभ्यः श्रीरामभक्तेभ्यो वैष्णवेभ्योऽस्तु मङ्गलम् ॥ ७॥
द्वारपीठाधिपश्रीमत्पूर्णविराठिनिर्मितम् ।
मङ्गलं भवतादेतत् सर्वेषां मङ्गलप्रदम् ॥ ८॥
इति श्रीपूर्णविराठीदेवाचार्यनिर्मितं श्रीवैष्णवमङ्गलं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey