श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीता वेदान्तचिन्तामणिः
श्रीरामाद्विततां प्रणम्य हि निजामाचार्यसत्सन्ततिं
पीठाचार्यसुमङ्गलार्यकृतिना रामाय भक्त्याऽर्पितः ।
नानातर्कतमोविमूढमनसां वेदान्तबोधार्थिनां
सद्बोधाय महामहो वितनुतां वेदान्तचिन्तामणिः ॥ १॥
शेषस्तनू रघुपतेरणुचेतनोंऽश-
श्चान्यो मतेर्हि करणाद्वपुषोऽप्यसुभ्यः ।
नित्योऽजडः परवशः कृतिभुक्तिशाली
भिन्नोऽसुभृत् प्रतिवपुः सुखबुद्धिरूप ॥ २॥
मुक्ताविमुक्तविधया द्विविधत्वमाप्ता
जीवा मिथो जनकजापतितोऽपि भिन्नाः ।
मुक्ता अनन्तभजनाज्जनिमृत्युमुक्ता
बद्धास्त्वनन्तजनिकर्मसुबन्धबद्धाः ॥ ३॥
शुद्धाविशुद्धभिदया द्विविधञ्च सत्वं
कालो मतिर्गतमतेरचितः प्रभेदाः ।
साकेतनित्यपरधामपदाभिधेयं
सत्वं विशुद्धमजडं प्रकृतेर्विभिन्नम् ॥ ४॥
नित्याऽकृतिर्गुणवती प्रकृतिः परार्था
तथ्या च मूलमहदादिकभेदभिन्ना ।
भूतादिकव्यवहृतेर्जनको हि कालो
नित्यो विभुर्भुवननाथवपुर्जडश्च ॥ ५॥
नित्या तथा सविषया जडताविहीना
विभ्वी मतिर्मददयाप्रभृतिस्वरूपा ।
प्रामाण्यमत्र सुमतं स्वत एव चास्या
याथार्थ्याकं विषयसत्यतया तथा च ॥ ६॥
लोकैकहेतुरजडश्चिचिद्विशिष्टः
श्रेयोगुणैकजलधिर्हतदोषवृन्दः ।
सर्वेश्वरः क्षितिजया सह दिव्यदेहो
ध्येयोऽमृताय सुजनैरिह जानकीशः ॥ ७॥
सच्चित्सुखं च सुखिसृष्टिकरं परेशं
व्यूहार्ण्यमूर्त्तिविभवप्रभवं च हृत्स्थम् ।
रामं वदान्यविभुसर्वविदं भजध्वं
हालाहलस्य सदृशान् विषयान् विहाय ॥ ८॥
वेदान्तवेद्यकरुणाकरनित्यबन्धोः
सीतापतेः श्रितजनाहितनाशकर्तुः ।
भव्यां भवाब्धितरणे तरणिं प्रपत्तिं
भक्तिं विना च मनुजो लभते न मुक्तिम् ॥ ९॥
धूल्या मुनीन्द्रगृहिणीजडतापहर्त्तु-
र्ब्रह्मेश्वराद्यदितिनन्दनवन्दिताग्रात् ।
भागीरथीप्रभृतितीर्थगणैकवन्द्या-
न्नान्या गतिः सुखदरामपदारविन्दात् ॥ १०॥
इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः वेदान्तचिन्तामणिः समाप्ता ।
Encoded and proofread by Mrityunjay Pandey