श्रीजङ्गिदेवाचार्यप्रणीतं विरोधिषट्कं
नतत्त्वा गुरुं च रामं च भाष्यकृतपुण्यसद्मजम् ।
त्याज्यं विरोधिषट्कं हि त्यागाय बोधयाम्यहम् ॥ १॥
फलेहा पुरुषकारोपेक्षणं चातिसंशयः ।
अहन्ता ममता चैतद् रामाश्रयविरोधकम् ॥ २॥
तदधीनतया रामभिन्नेषु चामरेषु हि ।
श्रोत्रस्य दानं श्रवणविरोधित्वेन सम्मतम् ॥ ३॥
श्रीरामाधीनतां त्यक्त्वा स्वातन्त्र्येण प्रवर्त्तनम् ।
स्वरूपस्य विरोधीति सम्मतं हि विचक्षणैः ॥ ४॥
विषयानुभवेच्छेशानुभवस्य विरोधिनी ।
रामप्राप्तेर्विरोधी हि केवलैः सह सङ्गमः ॥ ५॥
ब्रह्मरुद्रादिदेवेषु परेशत्वभ्रमस्तथा ।
परत्वस्य विरोधी हि सम्मतस्तत्त्ववेदिभिः ॥ ६॥
विरोधिषट्कमेतद्धि जन्निदेवेन बोधितम् ।
परित्याज्यं प्रयत्नेन रामभक्तैर्मुमुक्षुभिः ॥ ७॥
इति श्रीजङ्गिदेवाचार्यप्रणीतं विरोधिषट्कं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey