आषाढमासकृते शिवस्तुतिः मास ४
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
देव सोमशकलामलमौले
सोम हेमनिभ दिव्य शुभाङ्ग ।
व्योमकेश जितकाश महेश
पाहि मामखिलदुःखसमूहात् ॥ ७२॥
वामदेव वरसामज चर्म-
स्फारशोभिकुसुमाङ्ग महेश ।
धूमवाहवह शङ्कर शम्भो
व्योमधाम भगवन्नव मां त्वम् ॥ ७३॥
शम्भो बालमृगाङ्कशेखर महासर्पाङ्गमालोज्ज्वल
कन्दर्पान्तक शर्व सर्वग विभो दूर्वादलार्च्याङ्घ्रिक ।
वेदेशाखिलपाल भालशशभृत्पूताङ्गसङ्गातुल
लीलागाङ्गसुतुङ्गभङ्गपरमानन्दाङ्गसङ्गाव माम् ॥ ७४॥
विश्वोत्पत्तिविपत्तिसंस्थितिजगत्कार्यं च तत्कारणं
जीवेशाश्रयभेदभानमखिलं यन्नामरूपात्मकम् ।
कालानल्पविकल्पशिल्प सुमहासङ्कल्पकल्पान्तक
त्वय्यानन्दपयोधिवारिलहरी विद्योतते केवलम् ॥ ७५॥
विष्णुब्रह्ममुखाः सुरासुरवरा ये भासुरा भूसुराः
सञ्जाताःस्थितिनाशमध्यपतिता भ्रान्ताश्च संसारिणः ।
विश्वाधीश्वर शङ्कर त्रिभुवनापारोरुदुःखार्तिहन्
कालातीत महेश्वराव भगवन् विश्वेश विश्वाधिक ॥ ७६॥
इति स्तुत्वा त्रिकालं वा पूजान्ते वा महेश्वरम् ।
आषाढ्यामथ पौर्णम्यां होमः कार्यो द्विजैःसह ॥ ७७॥
दत्वा गोमिथुनं देवि सवत्सं च सदाक्षिणम् ।
नक्ताशनो भवेन्मासं ब्राह्मणैः पारणं ततः ॥ ७८॥
एवमाषाढपूजात आषाढप्रतिमो भवेत् ।
चन्द्राभयानैर्यात्यन्ते मम लोकं सनातनम् ॥ ७९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तमाषाढमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १७ आषाढार्चनम् । ७२-७९॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 17 AShADhArchanam . 72-79..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Āṣāḍha māsa आषाढ मास. He mentions about conducting Homam होमम् during Āṣāḍha Pūrṇimā आषाढ पूर्णिमा.
The Āṣāḍhamāsakṛte ŚivaŚatāṣṭanāmaStotram आषाढमासकृते शिवशताष्टनामस्तोत्रम् and the Āṣāḍhamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ आषाढमासकृते शिवशताष्टनामावलिः comprising of 108 Names १०८ नामानि of Śiva शिव, derived from the same can be accessed from one of the links provided below. The count seems to exceed though.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 17 are presented on this page.
Proofread by Ruma Dewan