आपस्तम्बकृतं शिवस्तोत्रम्
आपस्तम्ब उवाच ।
काष्ठेषु वह्निः कुसुमेषु गन्धो बीजेषु वृक्षादि दृषत्सु हेम ।
भूतेषु सर्वेषु तथाऽस्ति यो वै तं सोमनाथं शरणं व्रजामि ॥ २३॥
यो लीलया विश्वमिदं चकार धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः सोमेश्वरं तं शरणं व्रजामि ॥ २४॥
यं स्मृत्य दारिद्र्यमहाभिशापरोगादिभिर्न स्पृश्यते शरीरी ।
यमाश्रिताश्चेप्सितमाप्नुवन्ति सोमेश्वरं तं शरणं व्रजामि ॥ २५॥
येन त्रयीधर्ममवेक्ष्य पूर्वं ब्रह्मादयस्तत्र समीहिताश्च ।
एवं द्विधा येन कृतं शरीरं सोमेश्वरं तं शरणं व्रजामि ॥ २६॥
यस्मै नमो गच्छति मन्त्रपूतं हुतं हविर्या च कृता च पूजा ।
दत्तं हविर्येन सूरा भजन्ते सोमेश्वरं तं शरणं व्रजामि ॥ २७॥
यस्मात्परं नान्यदस्ति प्रशस्तं यस्मात्परं नैव सुसूक्ष्ममन्यत् ।
यस्मात्परं नो महतां महच्च सोमेश्वरं तं शरणं व्रजामि ॥ २८॥
यस्याज्ञया विश्वमीदं विचित्रमचिन्त्यरूपं विविधं महच्च ।
एकक्रियं यद्वदनुप्रयाति सोमेश्वरं तं शरणं व्रजामि ॥ २९॥
यस्मिन्विभूतिः सकलाधिपत्यं कर्तृत्वदातृत्वमहात्त्वमेव ।
प्रीतिर्यशः सौख्यमनादिधर्मः सोमेश्वरं तं शरणं व्रजामि ॥ ३०॥
नित्यं शरण्यः सकलस्य पूज्यो नित्यं प्रियो यः शरणागतस्य ।
नित्यं शिवो यः सकलस्य रूपं सोमेश्वरं तं शरणं व्रजामि ॥ ३१॥
इति ब्रह्मपुराणे त्रंशाधिकशततमाध्यायान्तर्गतं
आपस्तम्बकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १३०/२३-३१॥
brahmapurANa . adhyAya 130/23-31..
Proofread by PSA Easwaran