आर्येशस्तवः
वारणदनुजविपक्षं विरचितविनतौघविघ्नविच्छेदम् ।
वेतण्डतुण्डमाद्यं विगलन्मदगण्डमण्डलं वन्दे ॥
अतुलिततुन्दिलविग्रहमनर्घतुहिनांशुशकलशेखरितम् ।
अमलैकरदमनोहरमंविरतमाकण्ठकरिणमहमीडे ॥
स जयति सुमेरुधन्वा समस्तसुरसेव्यपादपाथोजः ।
सुन्दरसुधांशुकलिकाशोभितमकुटः सदाशिवो देवः ॥ १॥
तस्य हि देवस्य परं महतो महिमानमतिमनोवाचम् ।
श्रुतिरपि निगदितुमनलं का शक्तिर्भवति माहगर्वाचाम् ॥ २॥
तदमितमहिमवतो मां तथाप्यनर्घाः प्रचोदयन्ति गुणाः ।
तदमुष्य नवनकरणे यथामनीषं यतेऽहमीशस्य ॥ ३॥
कुण्डलि(मण्डि)तमूर्तिः काकोलास्वादशमितजगदार्तिः ।
कलितनतेहितपूर्तिः कलयतु कुशलं प्रभग्नपुरकीर्तिः ॥ ४॥
मदयुतमहोक्षयानं मन्दरविकटतटकन्दरशयानम् ।
मकुटतटघटितशशिनं मदनारातिं भजेऽनिशं वशिनम् ॥ ५॥
शिक्षितविपक्षदक्षः शिरसा सुरसिन्धुधारणे दक्षः ।
शितभसितौघवलक्षः सोऽयं भूयात् सुखाय निटिलाक्षः ॥ ६॥
करवृतकुरङ्गवर्यः कमलाक्षाकलितबहुविधसपर्यः ।
कार्मुककनकाहार्यः कुशलं दिशताद् रथाङ्गशशिसूर्यः ॥ ७॥
परिकरफणिगणमकुटीमणिवरपटलीमयूखपिहिताशः ।
पाणिपयोजविराजत्पिनाकपरशुः स पातु सर्वज्ञः ॥ ८॥
लम्बितभुजङ्गहारं ललाटतटचुम्बिलोचनो दारम् ।
लसतु महो हृदि वारं लाञ्छितमकुटाग्रकुमुदिनीजारम् ॥ ९॥
मृगधरमणिवरचूडं मञ्जुलपुरसिन्धुमालिकापीडम् ।
मर्दितनतजनिपीडं महीघ्रवरशिखरविरचितक्रीडम् ॥ १०॥
दरहसितरुचिररदनं दलितसरोजातसहजसद्वदनम् ।
दिव्यमहोभरसदनं दृगग्निनिर्दग्धदर्पभृन्दनम् ॥ ११॥
मिहिरजमरणदचरणं मनोज्ञकैलासगिरिवराभरणम् ।
मामकमनसि विहरणं महस्तनोतु प्रपन्नजनशरणम् ॥ १२॥
निगमशिरःस्थितिभाजं निशाकरस्पर्धिनिजमुखाम्भोजम् ।
निर्मितिभृतिहृतिबीजं निखिलस्याद्यं नमामि जगतोऽजम् ॥ १३॥
नतकृतकारुण्यरसं नखमुखनिर्भिन्नविश्वसृट्शिरसम् ।
नरवाहनरचितरसं नवास्थिमालाकलापलसदुरसम् ॥ १४॥
वटतरु(वरमूल) जुषं वरमुनिसन्दोहविमलबोधपुषम् ।
विदधे दक्षिणवपुषं विषयं भजनस्य भूरिमोहमुषम् ॥ १५॥
कबलितगलधृतगरलः कर्ता पायादपारमहिमा विरलः ।
कलितोपासनसरलः करुणाजलधिः कटाक्षवीचीतरलः ॥ १६॥
कमलजमौल्यवसानं कलये गिरिशं करीन्द्रचर्म वसानम् ।
काम्यवरान् प्रददानं कलिततपोभ्यः किरातमुक्तिनिदानम् ॥ १७॥
व्यवहितसत्त्वोन्मेषं विमूढजनवञ्चनात्ततामसवेषम् ।
कलयेऽस्ताखिलदोषं कृतयमबिभ्यन्मृकण्डुतनुभवपोषम् ॥ १८॥
विष्णुगवेषितचरणं विरिञ्चिकृतमूर्धमार्गणाचरणम् ।
विकटजटाभरभरणं विलसत्कैलासशिखरविस्फुरणम् ॥ १९॥
सम्भृतसुमेरुधनुषं सव्यशरीरार्धशैलपतिजनुषम् ।
स्वीकृतकिरातवपुषं स्वसेवनासक्तसव्यसाचिपुषम् ॥ २०॥
गलविगलद्गरलघृणिश्यामलनलिनस्रगुज्ज्वलोरस्कम् ।
मुखशशिरिङ्खत्स्मितरुक्सुखिताचलदुहितृलोचनचकोरम् ॥ २१॥
सारससगन्धवदनः सततस्थितिपूतपितृवनीसदनः ।
सस्मितसुन्दररदनः सोऽवतु संवर्तकृतजगत्कदनः ॥ २२॥
सवितृशशिदहननयनः साधितविनमद्वराभयानयनः ।
सम्भृत हिमगिरिशयनः स्वभजनसज्जन्मुमुक्षुमुक्त्ययनः ॥ २३॥
दृप्यद्रुहिणमुखाब्जद्रुह्यत्खरनखरखण्डचन्द्रमसम् ।
दुर्मददक्षक्षपणप्रचण्डभुजदण्डवीरभद्रभटम् ॥ २४॥
निर्जितजगदवनीतं निगमशिरःक्षीरनीरनिधिनवनीतम् ।
हृदि॥यमिभिर्जवनीतं हरं भजे रजतशैलकल्पवनीतम् ॥ २५॥
सरसिजसनाभिनयनं सुधांशुसच्छात्रवदनकमनीयम् ।
कुन्दसगन्धरदालिं कोकनदश्रेणिसहचरच्चरणम् ॥ २६॥
स्मितशिशुहंसोत्तंसं लोचनलोलम्बसम्भृतोल्लासम् ।
श्यामलकलगलनालं वन्दे तव देव वदनकोकनदम् ॥ २७॥
भृकुटिभटब्रह्माणं कटाक्षकैङ्कर्यपरवशद्युपतिम् ।
पदपरिचारकलेखं रसनाचलनप्रतीक्षपद्माक्षम् ॥ २८॥
विकटहरिद्रूपपटं निकटतटाटत्प्रभूतभूतघटम् ।
उद्भटभैरवपुटमटमुत्कटनटनं नमामि कपटनटम् ॥ २९॥
अमिततरबोधजलनिधिरपरिमितैश्वर्यशेवधिः सततम् ।
अवतु हरनामकं मामस्तमितोत्पत्तिवृद्धिहानि महः ॥ ३०॥
पातु स मां परमेशः पृथ्वीधरचापरोपरूपरमेशः ।
सव्यतनौ रमणी यं श्लिप्यति शोणा सितांशुभररमणीयम् ॥ ३१॥
अखिलैरदृश्यकोशोऽप्यभ्रसरिद्दृष्टनिजजटाजूटः ।
हर्यनिरीक्ष्यपदाब्जोऽप्यन्तकहृदयेक्षिताङ्घ्रिसरसिरुहः ॥ ३२॥
व्याघपदविषयमौलिर्विधातृदुर्दर्शमस्तकोऽपि परम् ।
भृशतरममूर्तरूपोऽप्यवनतसेवार्थमष्टमूर्तिधरम् ॥ ३३॥
चचसामगोचरोऽपि हि वेदान्तवचःपरम्पराविषयः ।
एकोऽपि नैकरूपो व्याप्नोति परः शिवोऽखिलं लोकम् ॥ ३४॥
गजमुखजनकाय नमो गिरिजाक्षीन्दीवरेन्दुबिम्बाय (नमः) ।
अखिलनिदानाय नमोऽस्त्वनन्तकल्याणगुणनिधानाय (नमः) ॥ ३५॥
असदृशविभवाय नमोऽस्त्वचिन्त्यसच्चित्सुखस्वरूपाय (नमः) ।
प्रकटिततत्त्वाय नमः प्रणवाक्षरपञ्जराच्छकीराय (नमः) ॥ ३६॥
प्रमुषितमोहाय नमः पृथ्वीधरदुहितृपुण्यपाकाय (नमः) ।
आश्रितमुक्ताय नमोऽस्त्वविकलकैवल्यदानदक्षाय (नमः) ॥ ३७॥
फणिपतिभूषणमूर्तिर्विनायकाक्रान्तपरिसरः सन्ततम् ।
श्यामतरकन्धराभस्त्वमेव साक्षाच्छिवाच्युतो भवसि ॥ ३८॥
शुचिशशि(सप्तह)याक्षं शोभनकरचारुशेखरतराब्जम् ।
साधु वृषाकपिमीडे सोत्कण्ठश्रीसमावृतोरस्कम् ॥ ३९॥
श्यामलविषधररूपं विष्टपसन्दोहवर्धनव्यग्रम् ।
करिवरदानविदग्धं कुमारजनकं वृषाकपिं वन्दे ॥ ४०॥
शङ्कर हर मे दुरितं शशाङ्कसच्छात्रगात्र हर मेदुरितम् ।
मम करुणाम्बुनिधे हि स्वान्ते तव पादपद्ममाशु निधेहि ॥ ४१॥
पातु महादेवो मां प्रार्थितमर्थं प्रदाय स सदेवोमां (? ) ।
यस्य चरित्रं वेदप्रकरो दिव्यात्त ळतं(? ) पवित्र वेद ॥ ४२॥
वसनविभिन्नगजेश व्याधप्रवरापवर्गकृन्नगजेश ।
मामघपारावारं प्रपन्नसन्त्राणदृष्टपारावारं (? ) ॥ ४३॥
सीमापरिमितधामा काचित् कलधौतशिखरिनिर्जितधामा ।
अवनतवसुधाभरदा निवसतु(हृदि) देवता नवसुधाभरदा ॥ ४४॥
शङ्करशर्वसदाशिवगिरिशमहादेववामदेवादिः ।
नामालिरेव शिव मे कालत्रयक्षपणकरणतामयताम् ॥ ४५॥
नटतु त्वन्नामसुधातुरङ्गचलयो ममेश जिह्वाग्रे ।
निखिलतपोधनरसनानटीकुलाविरतनाटनाचार्यः ॥ ४६॥
अहमलसः सेवायां शिव तव मन्दस्त्वदर्चनासु परम् ।
अप्यसकृद् ध्यानविधौ विस्मृतिभागस्मि तदपि मां पाहि ॥ ४७॥
सत्कर्मभृशविरक्तो भगवन् दुष्कर्मकर्मठः सोऽहम् ।
मम गुणवैषम्यमिदं विनिवर्तयितुं त्वमेव चतुरोऽसि ॥ ४८॥
षडरिषु कारुणिकोऽहं सुचापलस्त्वत्पदाब्जविस्मरणे ।
ईदृशविषममनीषां कुरु मे गिरिश प्रतिक्रियाविषयाम् ॥ ४९॥
कर्षन्ति षडरयोऽमी पातयितुं पापकूपकुहरे माम् ।
आवध्येन्द्रियपाशैः पालय हर दासदासोऽस्मि ॥ ५०॥
प्रणतप्राणिगणानां प्रमोहसर्वस्वमोषकं भीमम् ।
श्रुतिशिखरगहनलीनं तस्करपतिमीश वक्ति वेदस्त्वाम् ॥ ५१॥
निजशिवतामक्षोभ्यामप्यखिलापूतवस्तुसंसर्गात् ।
अटसि द्विपदपशूनां पितृवनभूमिं परीक्ष्य दर्शयितुम् ॥ ५२॥
आबध्य मोहपाशैः कुमतिपशून् हृदि तिरोहितं यमिनाम् ।
त्वामखिला दर्शयति श्रुतिरीश्वर ते तथापि न विदन्ति ॥ ५३॥
शिव तव परमैश्वर्यं पदे पदेऽपि प्रकाशितं श्रुतिभिः ।
पिदधत् कपटतमोभिः कुमतीन् वञ्चयसि भिक्षुवेषेण ॥ ५४॥
शिव भवदाज्ञामयमप्यक्षयवात्सल्यभाजनं तेऽहम् ।
इति सत्क्षृत्यमशेषं त्यजामि मां पाहि पाहि पाहि पुनः ॥ ५५॥
सत्यपि परमैश्चर्ये श्रुतिविदिते गिरिश ते मुमुक्षुभ्यः ।
वदति दिगम्बरता ते वैराग्यमनन्यदेवसामान्यम् ॥ ५६॥
पिञ्जरमरीचिकूटः प्रसाधनेन्दूदयाद्रिवरकूटः ।
तावकमौलिकिरीटस्तनोतु शुभमीश तव जटाजूटः ॥ ५७॥
शिव तव निटालफलकं शिवांशभूतस्ववामलसदलकम् ।
निजदृक्कुङ्कुमतिलकं नितरां न तनोति विस्मितं किलकम् ॥ ५८॥
शेवरशशिकरपातश्रितप्रमीलं शुचेर्विहारगृहम् ।
निटेलतटान्तर्निलयं नमामि तव देव नयननीररुहम् ॥ ५९॥
निजरथपदपरिणामं निखिलरथाङ्गीचकोरपुण्यफलम् ।
निरूपधिकृपारसार्द्रं नौमि तवेशान नयनयोर्युगलम् ॥ ६०॥
भति श्रितरुचिवृन्दं ब्रह्मोपेन्द्रप्रतीक्षितस्पन्दम् ।
भ्रूयुगमसितं तव शिव मुखराकेन्दोः कलङ्करङ्कुरिव ॥ ६१॥
शृसितश्रुतिततिकान्तां शिवामुखाम्भोजसौरभक्रान्ताम् ।
शिव तव योगश्रान्तां श्रयामि नासां त्वदक्षिभृत्स्वान्ताम् ॥ ६२॥
तव परशिव वचनामृततटाकतटपद्मरागसोपानम् ।
शुभतरमधरोष्ठं ते श्रयामि भवदास्यजलजकिञ्जल्कः ॥ ६३॥
पाटलभवदधरोष्ठप्रवालहिन्दोळगर्भकृतखेलम् ।
तम्भृतसकलाह्लादं स्मरामि रम्यं स्मितार्भकं हर ते ॥ ६४॥
शिव तव दशनश्रेणिर्वागमृतव्रातबुद्बुदप्रतिभः ।
स्फुरति तवान्तच्छन्नस्वभावसंसिद्धसत्त्वराशिरिव ॥ ६५॥
हर तव हसितच्छलतो हरति मनः कोऽपि कोकवैरिशिशुः ।
आरुह्य चारु खेलन्नरुणाधरपद्मरागपीठं ते ॥ ६६॥
हसितहिमांशुशिशुस्ते हर बागमृताब्धिसम्भवः कोऽपि ।
तव (मुखप)रिणतिभाजो लुठति शशाङ्कस्य पूर्वजस्याङ्के ॥ ६७॥
सरसहिमाचलतनयासङ्गीतसुधानि(पानभूमि)निभम् ।
दिव्यं श्रुतियुगमीडे दृगब्जविश्रान्तिमण्डपं मृड ते ॥ ६८॥
मञ्जुलमण्डनकुण्डलकुण्डलिपतिविदितमार्दवातिशयम् ।
स्फाटिकमणिमुकुराभं कपोलफलकं करोतु कुशलं ते ॥ ६९॥
अतुलापदविनिवेश्यं त्वनुनयसमये शिवापरामृश्यम् ।
ध्यातृहृदैकस्पृश्यं तव चुबुकं भाति दिव्यदृग्दृश्यम् ॥ ७०॥
स्मितशिशुहंसोत्तंसं लोचनलोलम्बसम्भृतोल्लासम् ।
श्यामलकलगलनालं वन्दे तव देव वदनकोकनदम् ॥ ७१॥
हर हसिताङ्ङ्कुरहीरैरवतादधरोष्ठपद्मरागाभ्याम् ।
खचितं शक्रमणिभ्यां कनीनिकाभ्यां च तव मुखं मुकुरौ ॥ ७२॥
मम तु हृदलिरनपेतस्पृहः स्वपीडामपीश मोचयितुम् ।
तव मुखसरसिजसुषमामरन्दलहरीं पुनः पुनर्लिहति ॥ ७३॥
तं मतिरनुगच्छति मे वागपि शम्भो सतीव भर्तारं
तेषां प्रेषकभूतः फलदाता च त्वमेव भवसि विभो ॥ ७४॥
सरसिजसमविषमदृशं शेखरशिशुजातिजातयुवसदृशम् ।
अमलं तव भव तादृशमाननमीडे मृडेतरासदृशम् ॥ ७५॥
हर दरहसितज्योत्स्नासुहितशिवादृक्चकोरवरभिथुनम् ।
मुखविधुमकलङ्कं ते मानसहरिणोऽयमारुरुक्षति मे ॥ ७६॥
अमृतकरोऽप्यकलङ्कं सरसिजमपि चन्द्रसन्निधेर्विकचम् ।
आननमप्रतिबिम्बं दर्पणमपि देव दीप्यते हर ते ॥ ७७॥
अत्रेदृगुद्भूतिरुचं सत्रिदृगुद्भूतिरुचमपीश तव ।
सुमयकरमपि मनसा विस्मयकरमास्यमुकुरमीक्षेऽहम् ॥ ७८॥
शशपशुमधुपालिभ्यां शिव संसर्गात् कलङ्किते अब्जे ।
स्वच्छद्विजततिसङ्गात् स्मितकीर्तिमतः कथं मुखस्य समे ॥ ७९॥
स्फुरदहिहाराविरलः समस्तभुवनाभयाय भृतगरलः ।
सुखयतु तव शर्व गलः स्वकालिमाक्रान्तभुजशिरोयुगलः ॥ ८०॥
अजगवपरशुधरौ नमदभीतिवरदानपारदृश्वानौ ।
कृतभुवनावनहननौ करौ वरौ ते शुभङ्करौ भवताम् ॥ ८१॥
गलरुचिकृतततमालं गीरपदं ते स्वकान्तितुलिततमालम् ।
कर्कशकुचपरमालङ्कृतसव्यमुरः पुनातु शिव परमालम् ॥ ८२॥
घवनतरकालिमझर्या राजति धारेव रोमराजिस्ते ।
रालकम्बूदरपूर्तेर्गलिता हरनाभिगह्वरे पतिता ॥ ८३॥
धृथुतूरवरकृत्तिवृतं प्रचुरमणीखचितसर्पसूत्रधृतम् ।
रकलये रुचिरत्वभृतं कटितटमीशान मनसि ते निभृतम् ॥ ८४॥
हर तव गिरिवरकन्याकरसरसिजसौकुमार्यसारविदौ ।
ऊरू करिकरचारू हरतामचिरेण दुरितभारं मे ॥ ८५॥
चरणसरोरुहनाले चिन्तकचित्ताध्वधावने जवने ।
अनघे हर तव जङ्घे अघसङ्घातं ममाशु घातयताम् ॥ ८६॥
प्रणतामरवरमौलिप्रसूनमकरन्दसम्भृतं शिव ते ।
चरणसरोरुहयुगलं चुम्बति मम चित्तचञ्चरीकोऽयम् ॥ ८७॥
भव तव पदयोर्युगलं भवतः कैवल्यकल्पभूमिरुहः ।
किसलययुगमिव मृदुलं मूलतलाङ्कुरितमुल्लसत्यरुणम् ॥ ८॥
प्रणतमनोरथदोहं प्रसृमरशोणतरकिरणसन्दोहम् ।
प्रणमामि शमितमोहं पदमीश तव प्रसादकामोऽहम् ॥ ८९॥
धर्मवपुः शतकोटिर्धरमर्दितपङ्क्तिकण्ठभुजनिजकोटि ।
पातु पदं सुरमकुटीपाकारिशिलालिवासराजीवकुटी ॥ ९०॥
पाति न परशिवकमलं परमापहृतस्मरन्मनस्कमलम् ।
प्राप्तभवापदकमलं प्रपन्नमाशु त्वदीयपदकमलम् ॥ ९१॥
तव कृतमङ्घ्रिपरागैर्भजतां भवसिन्धुशोषणाध्ययनम् ।
उत्कटनटनस्रस्तादुमापते ते कपर्दबन्धात् किम् ॥ ९२॥
मार्दवमुख्यागारं मखभुङ्मकुटसुमसौरभोद्गारम् ।
पदमुरु नटनोदारं पातु तवान्विष्यदादिभूदारम् ॥ ९३॥
पल्लवदत्तनिकारं प्रचण्डनटनास्तकाल्यहङ्कारम् ।
हृतनतहृदयविकारं हरचरणं नौमि नीरजाकारम् ॥ ९४॥
अहिततिविहितकलापं महितं वपुरीश सहितशैलसुतम् ।
निजहितनिहितकटाक्षं सुहितयमि स्तौमि हितदोषभरम् ॥ ९५॥
त्रिदशदयारसभरितं त्रिणतसुमेरुत्वचित्रनिजचरितम् ।
त्रिपुरहरं मेदुरितं त्रिलोचनं धाम हरतु मे दुरितम् ॥ ९६॥
गिरिवरवसति सदारं गलबिलनिगृहीतक्ष्वेड(न) भयदारम् ।
प्रबलजलन्धरदारं पातु महः किमपि पार्वतीदारम् ॥ ९७॥
अणि(...)चिरमभिलषितं ते सेवनमविदन्तमर्थनारीतिम् ।
कुत्सितविषयविधेयं स्वीकुरु मामीश किङ्करत्वेन ॥ ९८॥
अनल्लशिखातीतेन स्यूततरं शिशिरयाघजातेन ।
अमृ।तसरिच्छीतेन स्मरहर तव मामपाङ्गपातेन ॥ ९९॥
चिरकर्मपाशवद्धं चलकमलोल्लासकल्पितश्रद्धम् ।
मामीश षडरिविद्धं मोचय मोहेन भृशतराशुद्धम् ॥ १००॥
तव शिव दृगन्तपातस्तारयतान्मां भवाम्बुनिधिपोतः ।
निजहृदयाधारेणानीतः कारुण्यकर्णधारेण ॥ १०१॥
नियमकृत्यैकरतं पालय निरयेऽथवेश पातय माम् ।
मद् वनभरविन्यसनं त्वयि विदधे त्वामहं तु विश्वास्य ॥ १०२॥
आर्येशस्तुतिरेषा त्वार्थाभिधवृत्तविरचितग्रथिता ।
स्यादेव मोददा मे विदुषां शब्दार्थगूढसारविदाम् ॥ १०३॥
इत्यार्येशस्तवः समाप्तः ।
Verses 27 and 71 seem to be repetitive.