ईश्वरप्रोक्तं आत्मलिङ्गरहस्यम्
ईश्वरः -
सावधानेन देवेशि लिङ्गपूजाविधिक्रमम् ।
शृण्वपर्णे प्रणयतो मयोक्तं हृदये धर ॥ २०॥
नाख्येयं कस्यचिद्वापि रहस्यं मम सर्वधा ।
लयनात्सर्वजगतां लिङ्गमित्युच्यते शिवे ॥ २१॥
लीनमर्थं गमयति तस्मात्तल्लिङ्गमुच्यते ।
लमु क्रीडाञ्च जगतो गच्छतीति तदुच्यते ॥ २२ ।
तस्माल्लिङ्गं विदुः प्राज्ञा बिन्दुहीनं च तत्प्रिये ।
अर्चनं च प्रवक्ष्यामि ह्यर्चकञ्च विशेषतः ॥ २३॥
लिङ्गं गुणत्रयाद्धीनं ब्रह्मविष्णुमहेश्वरैः ।
पीठपीठ्यादिरहितं पूज्यपूजाविवर्जितम् ॥ २४॥
ध्यानध्येयादिरहितं निर्गुणं तमसः परम् ।
जगज्जन्मोदयास्थान विनाशन विवर्जितम् ॥ २५॥
ओङ्काराद्यं सप्रणवं त्रिमात्रापरिवर्जितम् ।
भावाभावादिरहितं भावाभावविवर्जितम् ॥ २६॥
बोध्यवोधादिरहितं व्याप्यव्यापकवर्जितम् ।
ज्ञानज्ञेयज्ञातृहीनं खण्डाखण्डविवर्जितम् ॥ २७॥
प्रभवाभवसंहारतिरोधानादिवर्जितम् ।
ध्यानध्येयादिरहितं महा(ममा)ध्यानविदूरगम् ॥ २८॥
अलक्ष्यलक्षणाहीनं गोप्यगोपकवर्जितम् ।
न सन्नासन्न चैवासत्सदसञ्चैव नाप्यसत् ॥ २९॥
सत्तामात्रादिरहितं केवलं स्वात्मदर्शनम् ।
भानाभानविहीनञ्च स्वभासा भासिताखिलम् ॥ ३०॥
चेतृचेतकराहित्यं क्षराक्षरविवर्जितम् ।
चराचरविहीनं च प्रमामेयादिवर्जितम् ॥ ३१॥
बिन्दुनादादिकं(बिन्दुनादातिगं)साक्षात्साक्षिसाक्ष्यादिवर्जितम् ।
बिम्बीबिम्बातिगञ्चैतत्प्रतिभासादिवर्जितम् ॥ ३२॥
नैव दृश्यं न चादृश्यं ग्राह्यग्राहकवर्जितम् ।
नवाग्वाक्यविहीनं च वाचां दूरमनौपमम् ॥ ३३॥
न मनो नामनःप्राप्यं न प्राणं प्राणबोधकम् ।
न चक्षुरूपरहितं तद्दृश्यज्ञानवर्जितम् ॥ ३४॥
न श्रोत्रं श्रवणाद्धीनं तदाकाशमनौपमम् ।
न घ्राणं गन्धहीनं च पृथिवीपरिवर्जितम् ॥ ३५॥
न रसं तदपोहीनं जिह्वास्थानादिवर्जितम् ।
न पाणिपादपाय्वादिमरुद्धीनं शिवे हि तत् ॥ ३६॥
न रूपरसगन्धादिशब्दस्पर्शविवर्जितम् ।
नैवाकाशमनाकाशमाकाशस्यापि चेतकम् ॥ ३७॥
न भूमिर्भैतिकैर्हीन्नं घनभावविवर्जितम् ।
न तेजस्तेजसा हीनं सर्वतेजःप्रवर्तकम् ॥ ३८॥
न वायुश्चलनाद्धीनं वायोरुद्बोधकं हि तत् ।
न चैतत्सलिलं साक्षात्सलिलद्रवकल्पकम् ॥ ३९॥
भूताद्विहीनं भूतादि भूतादारं सनातनम् ।
अपाणिपादवदनमचक्षुश्श्रुतिवर्जितम् ॥ ४०॥
सर्वेन्द्रियगुणातीतं सर्वेन्द्रियविवर्जितम् ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ ४१॥
सर्वेन्द्रियगुणैः कान्तं नित्यकान्तं सदोदितम् ।
नवद्वारगृहान्तस्थदिव्यपीठे प्रतिष्ठितम् ॥ ४२॥
यदप्रतिष्ठं विश्वास्यं विश्वहस्तोरुपादकम् ।
विश्वमौलिं विश्वपीठं विश्वपीठतमःपरम् ॥ ४३॥
न तत्र किञ्चित्प्रतिभाति रूपं यस्मात्परं नापरमस्ति किञ्चित् ।
वेदान्तवेद्यं निर्गुणं यद्वचोगं यतो जातं भुवनं वै विचित्रम् ॥ ४४॥
यस्मिन्लिङ्गे स्थितं चैतद्यस्मिन्लीनं जगच्छिवे ।
यदाधारमिदं विश्वं त्रिगुणं परिवर्तते ॥ ४५॥
तल्लिङ्गपरिमाणं हि केन वक्तुं हि पार्यते ।
परिमाणादिरहितं गुणखण्डत्रयातिगम् ॥ ४६॥
अखण्डमेकपिण्डाण्डब्रह्माण्डोपरितस्स्थितम् ।
न प्रतिष्ठा न च स्थानं तल्लिङ्गस्य महेश्वरि ॥ ४७॥
नालयस्थं महेशानि सर्वावास्यं महच्च तत् ।
सर्वभूतमहाकोशगर्भागारस्थमम्बिके ॥ ४८॥
अणोरणीयोऽपि महन्महतोऽपि महत्तरम् ।
सर्वाधारमनाधारं विश्वरूपं प्रकाशकम् ॥ ४९॥
तेजोमात्रं स्वप्रकाशं जीवेशानादिवर्जितम् ।
प्रत्यक्चैतन्यमात्मानमानन्दघनमद्वयम् ॥ ५०॥
ब्रह्मविष्णुहराद्युत्थपीठजालविवर्जितम् ।
स्वात्मैकवेद्यं तल्लिङ्गं स्वस्मिन्नेव प्रतिष्ठितम् ॥ ५१॥
तद्भूमा परमानन्दं तत्रनोनास्तिकिञ्चन ।
तस्मिन्लिङ्गेदृष्टिगते दृग्रूपोलिङ्गतामियात् ॥ ५२॥
लिङ्गोऽप्यलिङ्गोभवतितल्लिङ्कस्यैवशीलनात् ।
नान्येपश्यन्तितलिङ्गन्नान्येजानन्तिकेचन ॥ ५३॥
तल्लिङ्गं परमानन्दं रसहीनं रसातिगम् ।
उपास्यं सर्वदा सर्वैस्तदु नात्येति किञ्चन ॥ ५४॥
न तस्य महिमा कश्चित्स्वमहिम्नि प्रतिष्ठितम् ।
सर्वहृत्संस्थितं लिङ्गं नित्यं सर्वप्रकाशकम् ॥ ५५॥
अवस्थाभेदरहितं मायागर्भगृहान्तरम् ।
सार्वकालिकपूज्यन्तत्षट्त्रिकालादिवर्जितम् ॥ ५६॥
प्रविष्टं स्वावृततमोराशि स्वाभानभासकम् ॥ ५७॥
न तत्र वाङ्मनो वा कदाचिन्नचेन्द्रियप्राणभूतादिसङ्घः ।
स्वयं प्रभातं भासितुं नो समर्थो दृग्रूपं तत्केवलं बोधहीनम् ॥ ५८॥
जीवेश्वरौ ब्रह्मविष्णू कदाचित्तलिङ्गमेवं स्वहृद्दृष्टिहीनौ ।
किञ्चिदज्ञसर्वज्ञविमोहमानिनावहङ्कारमायाविवशान्तरङ्गौ ॥ ५९॥
हंसीभवद्वाक्यजपामिमां वदन् जीवो विधिर्मोहजालेषु मग्नः ।
अहङ्ग्रहोपासनाशस्त्रजालैस्सर्वज्ञमेवाभिमुखे युयोधम् ॥ ६०॥
(अहङ्ग्रहोपासनाशस्त्रजालैस्सर्वज्ञमेवाभिमुखेषु बोधयोऽथ) ॥ ६०॥
विष्णुं तदा चेश्वरप्राज्ञमज्ञं स चाप्यहङ्कारवशान्तरात्मा ।
अहं च सर्वेश्वर इत्यथोच्य यद्दृष्टलिङ्गोऽभ्युवाच विद्धितम् (बिन्धतम्) ॥ ६१॥
एवं च ते युयुधातेऽद्यशास्त्रैर्मिथ्याभूतैः पश्य मोहान्धकौ तौ ।
कदाचिदैक्षन्त विहाय मोहं क्षराक्षरौ विधिविष्णू भवानि ॥ ६२॥
व्यपेतमोहौ भवतं तदम्बिके दृष्ट्वाहतुर्लिङ्गमेतद्विलोक्य ।
पुनश्च मायाप्रभवैश्च पाशैर्मौलिं मूलं चास्य पश्याव चेति ॥ ६३॥
नान्तो न मूलं न च मौलिरस्य लिङ्गस्य दृष्ट्वोपरतौ तदा शिवे ।
भूदारहंसाकृतिदेहभाजौ स्तुत्वा च लिङ्गे व्यरमन्त तौ तदा ॥ ६४॥
जीवेश्वरौ -
क्षराक्षरौ तौ हरिवेधसौ शिवे हंसाख्यमन्त्रेण विभाव्य देवम् ।
ज्ञाज्ञावनीशौ यदादृष्टलिङ्गावलिङ्गमाकाशसधर्मकौ तदा ॥ ६५॥
व्यपेतमोहावभवन्त तौ तदा ह्युपाधिहीनौ न हि किञ्चिदत्र ।
तदेव लिङ्गं मम देव्यलिङ्गं न पूजनायासपरैर्न रैश्शिवे ॥ ६६॥
कार्यं शिलाधातुजबाणलिङ्गे चरे स्थिरे चापि विशिष्टलिङ्गे ।
सम्पूजयेद्बिल्वदलैर्भवानि भवाम्बुधेस्सन्तरणाय लोकः ॥ ६७॥
तल्लिङ्गपूजा न कदाचिदीदृशैर्न रैस्सुरैर्वागणविप्रवर्यैः ।
कर्तुं न शक्या विविधैरुपायैर्दानैस्तपोनाशनयादिभिश्शिवे ॥ ६८॥
समर्चनं तत्कथये भवानि गूढं सदा प्राज्ञतमैकगम्यम् ।
तदर्चनं पुण्यनरैकलभ्यमलभ्यमन्यैर्नृपशुत्वधर्मैः ॥ ६९॥
भूताधिकारणधराधरदारणेन सर्वज्ञरूपहरिणा किटिरूपकेण ।
किञ्चिद्ज्ञजीववरहंसकभूतपुण्यपाथोजजातवदनैस्स्तुतमर्चितं च ॥ ७०॥
हृल्लिङ्गमात्मकमुमे मनसाभिपश्य पश्यंस्तदात्मकतया भवतीव चित्रम् ॥ ७१॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं आत्मलिङ्गरहस्यम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५८ - आत्मलिङ्गकथनम् । २०-७१॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 58 - Atmalingakathanam . 20-71..
Notes:
Śiva शिव reveals to Devī देवी, the mystery of Ātmaliṅga आत्मलिङ्ग.
Encoded and proofread by Ruma Dewan