ईश्वरप्रोक्ता रुद्राक्षमहिमा
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
त्र्यक्षाश्रुप्रभवा भवन्ति विमला रुद्राक्षवृक्षाःक्षितौ
दृष्टा अप्यघशैलदारणचणाः संसारबन्धापहाः ।
पुण्यापुण्यसमीहितार्थकलने स्वाङ्गे च सम्भूषणाः
शर्वाणीरमणार्चनासु नियतं धार्या हि मद्भूषणाः ॥ ३३॥
रुद्राक्षस्मृतिमात्रतोऽप्यघकुलं नश्येच्च पश्यन्नरो
मुच्येतैव हि संसृतेर्जनिजरारोगैः स्पृशन्मुक्तिभाक् ।
नामोच्चारणमात्रतोऽतिकृपणः पाणिं कृपाणे (पाणौ कृपाणं) दधत्
छिन्द्यादेव हि पापदुर्द्रुमवनं गोदानपुण्यादिभाक् ॥ ३४॥
रुद्राक्षोरु किरीट कुण्डल धरस्तस्याङ्गदे कङ्कणे
मालाभिर्वरवक्षसा च विमलो भूयाच्छिवे पावनः ।
तस्यानुक्षणवीक्षणेन गिरिजे लोकस्य कष्टं मुदा
संहृष्टो नितरां हरामि सततं तत्सङ्गसङ्गात्मनाम् ॥ ३५॥
यस्मिन् ग्रामे पुरे वा धृतवरविमलोदाररुद्राक्षभूष-
स्तिष्ठेत्तत्र न पातकान्तकभयं दुःखं कुतस्तत्तनौ ।
तत्क्षेत्रं विमलं तदेव हि शिवागारं वरं शाम्भवं
तद्देहस्थहृदम्बुजे गिरिजया मद्वास इष्टः सदा ॥ ३६॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्ता रुद्राक्षमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः २२ रुद्राक्षमहिमा । ३३-३६॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 22 rudrAkShamahimA . 33-36..
Notes:
Śiva शिव, following the episode of TripurāSaṃhāra त्रिपुरसंहार; outlines to Devī देवी, the manifestation of RudrākṣaVṛkṣa रुद्राक्षवृक्ष and the merits of wearing Rudrākśa रुद्राक्ष.
Proofread by Ruma Dewan