ईश्वरप्रोक्ता शिवलिङ्गार्चनमहिमा
(शिवरहस्यान्तर्गते ईश्वराख्ये)
स्कन्द उवाच ।
लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेशसंमितम् ।
समाधिस्तोत्रसम्पन्नौ दृष्टवन्तौ शिवात्मकम् ॥ २॥
नैव तत्काञ्चनं रूप्यं न रत्नस्फटिकोद्भवम् ।
ज्योतिर्मात्रं स्थितं शान्तं केवलं तच्छिवात्मकम् ॥ ३॥
ईश्वरः (उवाच)
एतस्य मम लिङ्गस्य पार्श्वगौ वसतं युवाम् ॥ ४॥
लिङ्गस्य परितोऽधस्तात् मदाज्ञापालकौ युवाम् ।
भस्मरुद्राक्षसम्पन्नौ रुद्रपञ्चाक्षरादरौ ॥ ५॥
भवेतं मुक्तिसाम्राज्यं लभेयाथां मदाज्ञया ।
इत्युक्त्वा सहसा देवस्तस्मिन् लिङ्गे तिरोदधे ॥ ६॥
तदाप्रभृति ब्रह्माद्या विष्णुश्चापि सुरोत्तमः ।
लिङ्गवेद्यां लिङ्गपीठे मुने ह्यभवतां सदा ॥ ७॥
तल्लिङ्गसदृशं लिङ्गं प्रतिष्ठाप्य सुरासुराः ।
गणा महर्षयः सिद्धाः पूजयन्ति विमुक्तये ॥ ८॥
रत्नस्फटिकधातुभ्यो मृत्सैकतसमुद्भवम् ।
कृत्वा लिङ्गाकृतिं सर्वे पूजयन्ति सुरोत्तमाः ॥ ९॥
भस्मरुद्राक्षसम्पन्ना रुद्रपञ्चाक्षरादराः ।
पञ्चामृतैर्बिल्वपत्रैर्धूपदीपनिवेदनैः ॥ १०॥
प्रदक्षिणनमस्कारस्तोत्रनर्तनकैस्तदा ।
प्रातर्मध्याह्नसायाह्ने प्रदोषेऽपूजयन् सुराः ॥ ११॥
तेषां लिङ्गार्चनादेव पदप्राप्तिरभून्मुने ।
परं शुद्धं निर्गुणं तल्लिङ्गमद्भुतमैश्वरम् ॥ १२॥
यदाद्यमैश्वरं तेजस्तल्लिङ्गमिति कथ्यते ।
कल्पान्ते संस्थिता लोकाः लिङ्गे तस्मिन् चराचराः ॥ १३॥
दक्षिणे लीयते ब्रह्मा वामतस्तु जनार्दनः ।
हृदये चैव गायत्री छन्दांस्यन्यानि पार्वती ॥ १४॥
मूर्ध्नि लीयन्ति वै वेदा सडषङ्गपदक्रमाः ।
(मूर्ध्निवेदा लयं यान्ति सषडङ्गपदक्रमाः) ।
जठरे लीयते सर्वं जगत्स्थावरजङ्गमम् ॥ १५॥
उत्पद्यते पुनस्तस्माद् ब्रह्मादिसचराचरम् ।
आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका ॥ १६॥
आलयं सर्वभूतानां लयनाल्लिङ्गमुच्यते ।
तस्माल्लिङ्गं प्रतिष्ठाप्यं सर्वदेवोद्भवोद्भवम् ॥ १७॥
स्थापितं तेन सर्वं स्याज्जगत्सर्वं चराचरम् ।
तत्पूजया पूजितं हि जगत्सर्वं न संशयः ॥ १८॥
पूजयन्ति महादेवं ब्रह्मविष्णुमहेश्वराः ।
पूर्वं लिङ्गं समभ्यर्च्य सृष्टिस्थित्यन्तकारिणः ॥ १९॥
ब्रह्मा शिलामयं लिङ्गं भक्त्या पूजयते सदा ।
गन्धपुष्पादिभिर्नित्यं त्रिकालं बिल्वपल्लवैः ॥ २०॥
तस्य सम्पूजनाप्राप्तं तेन ब्रह्मत्वमुत्तमम् ।
ससर्ज जगदेवं हि ससुरासुरमानुषम् ॥ २१॥
इन्द्रनीलमयं लिङ्गं विष्णुः पूजयते सदा ।
विष्णुत्वं तेन सम्प्राप्य पालको जगताभभूत् ॥ २२॥
हीरसारमयं लिङ्गं रुद्रः पूजयते सदा ।
तेन रुद्रत्वमासाद्य जगन्नाशकरोऽभवत् ॥ २३॥
शक्रोऽपि देवदेवस्य पद्मरागमयं शुभम् ।
नित्यमभ्यर्चयन्भक्त्या तेन शक्रत्वमाप्तवान् ॥ २४॥
लिङ्गं हेममयं कान्तं धनदोऽर्चयते सदा ।
तेनासौ धनदो देवो धनदत्वमवाप्तवान् ॥ २५॥
विश्वेदेवा महात्मानो रौप्यं लिङ्गं समार्चयन् ।
विश्वेदेवत्वमासाद्य मोदन्ते शक्रलोकगाः ॥ २६॥
वायुः पूजयन्ते लिङ्गं नित्यं पैत्तलसम्भवम् ।
वायुत्वं तेन सम्प्राप्य(प्तं) अप्रमेयमनुत्तमम् ॥ २७॥
वसवः कांस्यजं लिङ्गं पूजन्ति विधानतः ।
वसुत्वं तेन सम्प्राप्य मोदन्ते सुखिनः सदा ॥ २८॥
अश्विनौ पार्थिवं लिङ्गं पूजयन्तौ भिषग्वरौ ।
तेन तावश्विनौ देवौ देवतानां भिषग्वरौ ॥ २९॥
स्फाटिकं निर्मलं लिङ्गं वरुणोऽर्चयते सदा ।
तेनै वरुणत्वं च प्राप्तं तत्र बलान्वितम् ॥ ३०॥
लिङ्गमन्नमयं नित्यमग्निः पूजयते सदा ।
अग्नित्वं प्रप्तवांस्तेन तेजोरूपसमन्वितम् ॥ ३१ ॥
(अग्नित्वम्प्राप्तममुन तेजोरूपसमन्वितम् ॥ ३१ ॥)
ताम्रलिङ्गं सदाकालं भक्त्या देवो दिवाकरः ।
त्रिकालं पूजयत्येव (पूजयन्नेव) तेन सूर्यत्वमाप्तवान् ॥ ३२॥
मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा ।
तेन सोमोऽपि सम्प्राप्य (दुष्प्रापं) सुधारश्मित्वमाप्तवान् ॥ ३३॥
शालिपितृमयं लिङ्गं गृह्यः सम्पूजयत्यपि ।
(शालिपिण्डमयं लिङ्गं ग्रहाः सम्पूजयन्त्यपि ।)
नवनीतमयं लिङ्गं ऋभवः (ऋतवः) पूजयन्त्यपि ॥ ३४॥
घनीभूताज्यलिङ्गानि नक्षत्राण्यर्चयन्ति हि ।
कर्पूरखण्डजं लिङ्गं नागाः सम्पूजयन्ति हि ॥ ३५॥
प्रवालकमयं लिङ्गं मरुतः पूजयन्ति हि ।
आदित्याः पूजयन्त्येव गोमेदं लिङ्गमुत्तमम् ॥ ३६॥
पुष्परागमयं लिङ्गं रुद्राः सम्पूजयन्त्यपि ।
वैदूर्यकमयं लिङ्गं निरृतिः पूजयेत्सदा ॥ ३७॥
यमः पूजयते नित्यं लिङ्गमाय(स) निर्मितम् ।
ईशानः पूजयत्येव लिङ्गं मरकतोद्भवम् ॥ ३८॥
नित्यं दारुमयं लिङ्गं गुह्यकाः पूजयन्त्यपि ।
सदा सीसमयं लिङ्गं नागाः सम्पूजयन्ति हि ॥ ३९॥
असुराः पूजयन्त्येव लिङ्गं तगरसम्भवम् ।
तेन जन्ये बलोपेता भवन्ति नियतं मुने ॥ ४०॥
गजदन्तमयं लिङ्गं राक्षसाः पूजयन्त्यपि ।
गन्धर्वाः कुङ्कुमं लिङ्गं भक्त्या सम्पूजयन्ति हि ॥ ४१॥
गन्धलिङ्गं पूजयन्ति नियतं चाप्सरोवराः ।
भस्मलिङ्गं हि पितरः पूजयन्ति सदा मुने ॥ ४२॥
हरिद्रानिर्मितं लिङ्गं मातरः पूजयन्ति हि ।
अस्थिनिर्मितं लिङ्गं हि पिशाचाः पूजयन्ति हि ॥ ४३॥
एवं देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
पूजयन्ति सदा लिङ्गे हीशानं देवनायकम् ॥ ४४॥
सर्वो लिङ्गमयो लोको जगल्लिङ्गे प्रतिष्ठितम् ।
तस्मात्सम्पूजयेल्लिङ्गे यदीच्छेत्सिद्धिमात्मनः ॥ ४५॥
लिङ्गे देवो महादेवः सह देव्या व्यवस्थितः ।
अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् ॥ ४६॥
यो न पूजयते मोहाल्लिङ्गमीशस्य वै मुने ।
नासौ स्वर्गस्य मोक्षस्य न कदापि च भाजनम् ॥ ४७॥
यस्तु पूजयते नित्यं लिङ्गं त्रिभुवनेशितुः ।
स स्वर्गमोक्षराज्यानां क्षिप्रं भवति भाजनम् ॥ ४८॥
तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया ।
अर्चयीत(?) सदा लिङ्गे आपन्नोऽपि सदाबुधः ॥ ४९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्ता शिवलिङ्गार्चनमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४२ शिवलिङ्गार्चनमहिमा । २-४९॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 42 shivali~NgArchanamahimA . 2-49..
Notes:
Skanda स्कन्द narrates the appearance of Śiva शिव in form of the Jvālāliṅga ज्वालालिङ्ग whose beginning and end could not be detected by Brahmā ब्रह्मा and Viṣṇu विष्णु.
Śiva शिव reveals to Brahmā ब्रह्मा and Viṣṇu विष्णु about the Mystery of the Jvālāliṅga ज्वालालिङ्ग and about the Śivaliṅga शिवलिङ्ग made of various materials severally.
Proofread by Ruma Dewan