ईश्वरप्रोक्ता शिवशक्तिस्तुतिः
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
कञ्जाक्षमब्ज परमासन जातशिक्षं
वाहीकृतोक्षमनलाक्षविषाद्यभक्षम् ।
सन्धुक्षितान्धकभगाक्षहरं सुदक्ष-
दीक्षापहं भजत भिक्षित मौनियक्षम् ॥ २००॥
विश्वम्भराधरणभूषण मारकाल-
संशोषण प्रमथनाथ सनाथयास्मान् ।
सर्गस्थिति प्रलयकारणतारणाद्य
शम्भो पदाब्जयुगलं शरणं प्रयामि ॥ २०१॥
विश्वोदयस्थितिविनाशन हेतुभूत
भूतादिकार्यकरणाधिप कारणेश ।
श्रीव्योमकेश हरिकेश महेश शम्भो
कोशावकाश परमेश नमो नमस्ते ॥ २०२॥
अम्बां कदम्बसुमसन्निभचारु बिम्बां
बिम्बोपमाधरवरां सुबृहन्नितम्बाम् ।
रोलम्बराजितकुचां प्रणताः स्म सर्वे
हेरम्बमुख्यजननीं धृतसत्कदम्बाम् ॥ २०३॥
देशेष्वेतेषु शैले प्रवरनदनदीसङ्गमे सिन्धुसन्धौ
जातान्यत्त्युत्तमानि प्रथितबहुफलान्येव दातुं स्थितानि ।
आलोकानां सुराणां मुनिजन सुकृतापारपुण्याङ्कुराणि
पश्याद्य प्रथितेक्षणेन मनसा धन्ये ह्यनन्यानि मे ॥ २०४॥
जन्यानां फलमेव देहि गिरिजे मान्यो न चान्यो जनः ।
यत्र त्रिणेत्रपदपङ्कजमित्रभावो
भस्माक्तगात्र सुचरित्रपतत्रिवाहः ।
क्षेत्रेषु वासमभिरोचयते स तत्र
श्रीपत्रपूजनपरो मम दृष्टिपातः ॥ २०५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्ता शिवशक्तिस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४९ सर्वक्षेत्रप्रभावकथनम् । २००-२०५॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 49 sarvakShetraprabhAvakathanam . 200-205..
Proofread by Ruma Dewan