ईश्वरप्रोक्तं २ शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
सर्ववेदेषु सत्प्रोक्तं सर्वयज्ञेषु यत्फलम् ।
तत्फलं कोटिगुणितं लभते नात्र संशयः ॥ १॥
यः शिवं पूजयेन्नित्यमन्त्यजोऽपि जितेन्द्रियः ।
भावेन तु समायुक्तः स गच्छेत्परमां गतिम् ॥ २॥
नोपनीतसहस्रेभ्यो ब्रह्मचारी विशिष्यते ।
ब्रह्मचारिसहस्रेभ्यो वेदाध्यायी विशिष्यते ॥ ३॥
वेदाध्यायिसहस्रेभ्यो ह्यग्निहोत्री विशिष्यते ।
अग्निहोत्रसहस्रेभ्यो यज्ञयाजी विशिष्यते ॥ ४॥
यज्ञयाजि सहस्रेभ्यः सर्वविद्यार्थपारगः ।
सर्वविद्यार्थवित्कोट्याः शिवभक्तो विशिष्यते ॥ ५॥
तस्मादेव शिवं भक्त्या पूजयेच्छान्तमानसः ।
शिवभक्तो जितक्रोधः शिवभक्तिपरायणः ॥ ६॥
मैत्रीकारुणिकोजस्त्रं प्राप्नोति सततं शिवम् ।
क्षणार्धेनापि यत्पुण्यं कुर्यान्मित्रेषु भावितः ॥ ७॥
न तद्वर्षशतेनापि तपोयज्ञशतैरपि ।
सर्वप्राणिषु कारुण्याद्दीनाऽनायेषु भावयेत् ॥ ८॥
सर्वप्राणिषु मैत्रीस्यान्मुदिता पुण्यशालिषु ।
अपुण्यवत्सु चोपेक्षात्सर्वेषां च वदेच्छिवम् ॥ ९॥
इत्येवं पञ्चधा चित्तं भावयिता यजेच्छिवम् ।
सम्पूज्य पशुभर्तारं प्रहृष्टेनान्तरात्मना ॥ १०॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं २ शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४३ । १-१०॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 43 . 1-10..
Proofread by Ruma Dewan