ईश्वरप्रोक्तं प्रतिमासे शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
ईश्वर उवाच ।
प्रतिमासं विशेषं च शिवपूजाविधिं शृणु ।
यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ९॥
पद्मरागोद्भवं चैत्रे पूजयेल्लिङ्गमैश्वरम् ।
वैशाखे वज्रलिङ्गं च ज्येष्ठे मरतकोद्भवम् ॥ १०॥
आषाढे मौक्तिकं विद्यात् श्रावणे नीलनिर्मितम् ।
मासि भाद्रपदे गौरि गोमेदमणिकक्षितं (कल्पितम्) ॥ ११॥
आश्वयुज्यां च विधिवत् माणिक्योद्भवमुत्तमम् ।
कार्तिक्यां वैद्रुमं लिङ्गं वैडूर्यं मार्गशीर्षके ॥ १२॥
पुष्परागमयं पुष्ये माघे सूर्यस्य कान्तिजम् ।
फाल्गुने चन्द्रकान्तोत्थं लिङ्गं सम्पूज्य शैलजे ॥ १३॥
समुच्चयमिदं स्तोत्रं स्तुवीत परमेश्वरम् ।
सर्वमासेषु पूजापि बिल्वपत्रैः सदैव माम् ॥ १४॥
- अथ शिवस्तुतिः -
शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमम् ।
शिवमार्गप्रणेतारं प्रणतोऽस्मि सदाशिवम् ॥ १५॥
शाश्वतं शोभनं शुद्धं शश्वद्दोषप्रमोचकम् ।
विश्वं विश्वेश्वरं देवं शङ्करं प्रणमाम्यहम् ॥ १६॥
सर्वपापहरं नाथं सर्वरोगहरं शिवम् ।
सर्वपापप्रशमनं नमाम्यार्तिनिवारकम् ॥ १७॥
अस्थानस्थानसंस्थानसंस्थिति स्थितिकारणम् ।
स्थिरं स्थानस्थयोगस्थं स्थाणुमीशं नमाम्यहम् ॥ १८॥
ईशानं पुरुषं (अ)घोरं वामं सद्यं महेश्वरम् ।
ईशानं सर्वभूतानामीश्वरं प्रणमाम्यहम् ॥ १९॥
ईशानं वरदं देवमीश्वरं मन्त्रनायकम् ।
इत्थं मासस्तुतिं देवि स्तुत्वा नत्वा महेश्वरम् ॥ २०॥
स मुक्तः सर्वपापेभ्यो मम लोके भवेद्गणः ।
मासार्चनसमो धर्मो नास्त्यन्यो भुवनत्रये ॥ २१॥
इति विज्ञाय यत्नेन पूजनीयो महेश्वरः ।
ये भक्ता देवदेवेशि शिवं शान्तमजं विभुम् ॥ २२॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं प्रतिमासे शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १३ मासार्चनविधिः । ९-२२॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 13 mAsArchanavidhiH . 9-22..
Notes:
Śiva शिव delivers Upadeśa उपदेश to Devī देवी and outlines the Śivaliṅga शिवलिङ्ग made of various materials that can be worshipped during respective Māsa मास.
Further details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 13 are presented on this page.
Proofread by Ruma Dewan