ईश्वरप्रोक्तं रुद्राक्षमुखवर्णनम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
एकवक्त्रं तु रुद्राक्षं परब्रह्मस्वरूपकम् ।
तद्धारणात्परे तत्वे लीयते विजितेन्द्रियः ॥ २३॥
द्विवक्त्रं तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत् ।
धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २४॥
त्रिवक्त्रमनलः साक्षात् स्त्रीहत्यां हन्ति वै क्षणात् ।
त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् ॥ २५॥
तदेव हि परं ब्रह्म नरहत्यां व्यपोहति ।
चतुर्मुखं तु रुद्राक्षं पितामहस्वरूपकम् ॥ २६॥
पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।
तस्य धारणमात्रेण सन्तुष्यति सदाशिवः ॥ २७॥
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अगम्यागमनं चैवमभक्ष्यस्य च भक्षकः ॥ २८॥
(अगम्यागमनाच्चैमभक्ष्यस्य भक्षणात्) ॥ २८॥
मुच्यते सर्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ।
षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ॥ २९॥
विनायकाधिदैवं च प्रवदन्ति मनीषिणः ।
सप्तवक्त्रं तु रुद्राक्षं सप्तमं निधिदैवतम् ॥ ३०॥
सप्ताश्वदैवतं चैव सारसप्तकदैवतम् ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ३१॥
महाविज्ञानसम्पत्तिः शुचेर्धारयतः शनैः ।
अष्टवक्त्रं तु रुद्राक्षमष्टमूर्त्यधिदैवतम् ॥ ३२॥
वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं परम् ।
तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ ३३॥
नववक्त्रं तु रुद्राक्षं नवशक्त्यधि दैवतम् ।
तस्य धारणमात्रेण प्रीणते नवराशयः (नवशक्तयः) ॥ ३४॥
दशवक्त्रं तु रुद्राक्षं यमदेवमुदाहृतम् ।
दशांशप्रीतिजननं धारणे नात्र संशयः ॥ ३५॥
एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् ।
तदिन्द्रदैवतं चाहुः सदा सौभाग्यवर्धनम् ॥ ३६॥
रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ।
द्वादशादित्यदैवं च बिभृयात्तत्परो नरः ॥ ३७॥
त्रयोदशमुखं चाक्षं कामदं सिद्धिदं शुभम् ।
तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ ३८॥
चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।
सर्वव्याधिहरं चैव सदारोग्यमवाप्नुयात् ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं रुद्राक्षमुखवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः २३ । २३-३९॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 23 . 23-39..
Notes:
Śiva शिव, following the episode of TripurāSaṃhāra त्रिपुरसंहार; outlines to Deva-s देवः, the salient features of Ekamukha एकमुख to Caturdashamukha चतुर्दशमुख Rudrākśa रुद्राक्ष.
Proofread by Ruma Dewan